भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 149, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 149

अष्टम्यर्थे तथा पूर्वे ह्येकादश्यां तथा परे ॥ बालवं नाम करणं कथितं ब्रह्मदैवतम् ॥ ३४ ॥ शुक्लपक्षे द्वितीयार्धे षष्ठ्यर्थे प्रथमे तथा ॥ नवम्यर्थे
तथैवान्ते त्रयोदश्यां तथाऽर्धके ॥ ३५ ॥ कृष्णप्रतिपदादिषु पञ्चम्यां प्रथमे तथा ॥ द्वितीयार्धे तथाप्यष्ट्यां द्वादश्यां प्रथमे तथा ॥ ३६॥ कौलवं नाम
करणं कथितं मित्रदैवतम् ॥ आद्ये शुक्लतृतीयार्धे षष्ठ्यर्थे च तथा परे ॥ ३७ ॥ कृष्णद्वितीयाप्रथमे पञ्चम्यर्थे तथा परे ॥ नवम्यर्थे तथा पूर्वे
द्वादश्यर्थे तथा परे ॥३८॥ तैतिलं नाम करणमार्यमणं कथितं बुधैः ॥ अन्ते शुक्लतृतीयार्धे सप्तम्यां प्रथमे तथा ॥ ३९॥ दशम्यर्थे तथैवान्ते चतुर्दश्यां
तथाऽर्धके ॥ कृष्णपक्षद्वितीयान्ते षष्ठ्यर्थे प्रथमे तथा ॥ ४० ॥ नवम्यां च तथैवान्ते त्रयोदश्यां तथाऽर्धके॥ गराभिधानं करणं पृथिवीदैवतं स्मृतम् ॥ ४१॥
शुक्लपक्षचतुर्थ्यर्थे सप्तम्यां च तथा परे ॥ एकादश्यां तथा पूर्वे चतुर्दश्यां तथा परे ॥ ४२ ॥ कृष्णतृतीयाप्रथमे षष्ठ्यर्थे च तथा परे ॥
दशम्यर्थे तथा पूर्वे त्रयोदश्यां तथा परे ॥ ४३ ॥ वणिजं नाम करणं श्रीदेवमभिधीयते ॥ शुक्लपक्षे चतुर्थ्यन्ते ह्यष्टम्यां प्रथमे तथा ॥ ४४ ॥
एकादश्यपरे चार्धे पौर्णमास्यां तथार्धके ॥ अन्ते कृष्णतृतीयार्धे सप्तम्यां प्रथमे तथा ॥ ४५ ॥ द्वितीये च दशम्यर्थे चतुर्दश्यां तथाऽर्धके ॥
विष्टिरेत्येव करणं कथितं मृत्युदैवतम् ॥ ४६ ॥ सर्वकर्मसु राजेन्द्र सर्वदा गर्हितं च तत् ॥ चतुर्विंशत्यहोरात्रे राजन्होराः प्रकीर्त्तिताः ॥ ४७ ॥
सूर्योदयादारभ्य दिनपाद्याः क्रमेण ताः॥४८॥ षट्क्रमेण च तथा क्रमं तासां निबोध मे ॥ अर्कशुक्रार्कशीघ्रेश-
ग्रहेशदेवगन्धर्वनगनागेश्वरप्रभाः ॥ ४९ ॥ सर्वासां च तथा काले राहुर्मुङ्क्ते महाग्रहः ॥ कुलिकश्च तथा नागो यक्षः पञ्चेतितेविदुः ॥ ५० ॥ अङ्गारपर्णश्च
तथा गन्धर्वश्चाभिधीयते ॥ कुलिकस्य तु या वेला सा वर्ज्या सर्वकर्मसु ॥ ५१ ॥ तस्यां भुक्ते भवेद्व्याधिर्विषं भुक्तं न जीर्यते ॥ प्रत्यक्षमापि
तादृक्स्य तस्यां दृष्टो न जीवति ॥ ५२ ॥ भुक्तं तस्यां न तु भेषज्यं न तु कार्यकरं भवेत् ॥ सा तु कुलिविदा ज्ञेया मन्त्रिणा भिषजा तथा ॥ ५३ ॥
अविज्ञाय तु तां वेलां ग्रस्ते राजपुङ्गव ॥ वैफल्यकरणात्सूढाः प्राप्नुवन्त्यपयशो महत्ताम्॥५४॥ प्रत्येकस्यैव वेलायां ग्रहोभोगं निबोध मे ॥ एकैका
तु भवेद्धोरा सार्धं विघटिकाशतम् ॥५५॥ विनाडिकाः सप्तषष्ट्या रवः षोडश कीर्त्तिताः॥ होरांकुलिकवेलास्तु शेषः कालो रखेःस्मृतः ॥ ५६ ॥
स्वहोरान्ते तथा वेलाश्वतस्तस्तु विनाडिकाः ॥ राहोश्चक्रस्य कथिताः शेषः कालः सितस्य च ॥५७॥ सौम्येहोरासमारम्भे चषको द्वौ प्रकीर्तितौ॥
होरा कुलिकवेला तु शेषः कालो बुधस्य च ॥ ५८ ॥ एकसप्ततिसुङ्ख्येय होरायां तु निशाभृतः ॥ अर्द्धौ तु कुलिकस्याक्ताः शेषः कालो निशा


१ 'घोरा' इति ख० ।