भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 148, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 148

वि० ध० ॥ ६० ॥

प्र० सं० अ० ८३

कृष्णपक्षाणां दैवतानि तवानघ ॥ ६ ॥ चैत्रो वायव्यस्मृतो राजन्नाग्नेयश्चाप्यनन्तरः ॥ ज्येष्ठो रौद्रः स्मृतः पक्षस्त्वषाढः सार्प उच्यते ॥ ७ ॥ पित्र्यश्च श्रावणो मासः सावित्रश्चाप्यनन्तरः ॥ मैत्रश्चाश्वयुजो मासः शाक्राश्व्याश्विद्वैवतः ॥ ८ ॥ तथा च नैर्ऋतः सौम्यः पौषः स्याद्विष्णुदैवतः ॥ वारुणश्च तथा चैत्रः फाल्गुनः पौष्ण उच्यते ॥ ९ ॥ अतः परं प्रवक्ष्यामि गृहेषो गृहभूः स्मृतः ॥ अग्निरर्कस्सुतस्सोमो वरुणः परिकीर्तितः ॥ १० ॥ अङ्गारकः कुमारश्च बुधश्च भगवान्हरिः ॥ बृहस्पतिस्स्मृतः शक्रः शुक्लो देवी च पार्वती ॥ ११ ॥ प्रजापतिश्शनैश्चरो राहुज्ञेयो गणाधिपः ॥ विश्वकर्मा स्मृतः केतुर्ये ग्रहास्ते पुरः स्मृताः ॥ १२ ॥ अतः परं प्रवक्ष्यामि तव नक्षत्रदेवताः ॥ कृत्तिका चाग्निदैवत्या रोहिण्यर्कैश्वरा स्मृता ॥ १३ ॥ इन्दुक्षं सौम्यदैवत्यो रौद्रा चार्द्रा तथा स्मृता ॥ पुनर्वसुस्तथादित्यो पुष्यश्च गुरुदैवतः ॥ १४ ॥ आश्लेषा सर्पदेवत्या मघा च पितृदेवता ॥ भाग्याश्च पूर्वफाल्गुन्य आर्यमश्च तथोत्तराः ॥ १५ ॥ सावित्रश्च तथा हस्तोश्चित्रा त्वाष्ट्री प्रकीर्तिता ॥ स्वातिश्च वायुदैवत्या नक्षत्रे परिकीर्तिता ॥ १६ ॥ इन्द्राग्नीदैवता प्रोक्ता विशाखा यदुनन्दन ॥ मैत्रमृक्षमणूराधा शाक्रं ज्येष्ठा प्रकीर्तिता ॥ १७ ॥ तथा नैर्ऋत्यदैवत्यो मूलश्च तदुदाहृतम् ॥ आप्यस्त्वाषाढापूर्वाः स्युश्चोत्तरा विश्वदेवताः ॥ १८ ॥ ब्राह्मी चैवाभिजित्प्रोक्ता श्रवणो वैष्णवः स्मृतः ॥ वासवं च तथा ऋक्षं धनिष्ठा प्रोच्यते बुधैः ॥ १९ ॥ तथा शतभिषक्प्रोक्तं नक्षत्रं वारुणं नृप ॥ अजं भद्रापदापूर्वा आहिर्बुध्न्यं तथोत्तरा ॥ २० ॥ पौष्णं च रेवती चार्क्षमश्विनी चाश्विदैवतम् ॥ भरण्यश्च तथा याम्यं प्रोक्तास्ते ऋक्षदेवताः ॥ २१ ॥ ब्रह्मा प्रजापतिर्विष्णुर्यमस्सोमस्तथैव च ॥ कुमारो मुनयस्त्व ष्टाष्टा च मनवस्तथा ॥ २२ ॥ पिशाचश्च तथा धर्मो रुद्राश्चैकादश स्मृताः ॥ आदित्या द्वादश तथा कामदेवस्तथैव च ॥ २३ ॥ यक्षाश्च पितरश्चैव प्रतिप्रभृतिर्नृप ॥ तिथीश्वरास्तथा प्रोक्ता करणानामतः शृणु ॥ २४ ॥ तिष्यश्चभोणि करणं सदा भवति पार्थिव ॥ स्थिराणि तेषां चत्वारि सप्त विद्धि चराणि च ॥ २५ ॥ अन्ते कृष्णचतुर्दश्यां द्वितीयं शकुनिः स्मृतः ॥ प्रथमे पक्षद्वय्यर्थे कृष्णे प्रोक्तं चतुष्पदम् ॥ २६ ॥ तस्यैव चापरे राजंश्चात्पात्यं करणं मतम् ॥ शुक्लप्रतिपदर्धे तु किस्तुघ्नं करणं मतम् ॥ २७॥ एतानि राजन्प्रोक्तानि स्थिराणि करणानि तु ॥ कलिर्धर्मस्तथा सर्पो यंषां वायुश्च दैवतम् ॥ २८॥ शुक्लप्रतिपादार्थे तु द्वितीये यदुनन्दन॥ २९॥ पञ्चम्यों च तथा ह्यर्थे तत्पञ्चम्यां च तथा परे ॥ द्वादश्यथं तथा पूर्वं पौर्णमा स्यां तथा परौ॥ ३०॥ कृष्णपक्षचतुर्थ्यां तु प्रथमेऽर्द्ध तथैव च ॥ सप्तम्यां चापरे त्वर्थे ह्येकादश्यां तथाधिके॥३१॥करणं तु बवं नाम कथितं शक्रदैवत म् ॥ द्वितीयार्धे तथाह्य तु पञ्चम्यर्थे तथा परे ॥ ३२ ॥ नवम्यर्थे तथा पूर्वं द्वादश्यर्धे तथा परे ॥ कृष्णप्रतिपदायर्थे चतुर्थ्यर्थे तथा परे ॥ ३३॥

॥ ५० ॥