भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 147, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 147

भौमेन तक्षको नागो मणिभद्रो निशाचरः ॥ तदा चित्ररथो नाम गन्धर्व्वश्चाभिषिच्यते ॥ ३९ ॥ बुधेन नागः कार्कोटो यक्षभद्रो निशा- चरः ॥ तुम्बुरुर्नाम गन्धर्वः समासस्वाम्यभिषिच्यते ॥४०॥ जीवेन नागः पद्मांस्तु दीर्घबाहुर्निशाचरः ॥ गन्धर्व्वश्च महातेजास्तथा शालिशिरः प्रभुः ॥ ॥ ४१ ॥ महापद्मस्तु शुक्रेण नागो भवति भूपते ॥ नारदश्चैव गन्धर्वो महाबाहुर्निशाचरः ॥ ४२ ॥ सौरेण नागः शङ्खस्तु महाकर्णो निशाचरः ॥ ऊर्णायुश्चैव गन्धर्वः समासस्वाम्यभिषिच्यते ॥ ४३ ॥ अतः परं प्रवक्ष्यामि समासारूपं महीपते ॥ ग्रहस्वामिभवं तूर्यं शेषसर्व्वं तदाश्रयाः ॥ ४४ ॥ तीक्ष्णार्कस्त्वल्पमत्स्यश्च गतमेघोऽतिभास्करः ॥ बहुनागव्याधिगणो भास्कराब्दे रणोऽकुलः ॥४५॥ बहुवर्षोऽतिसस्यश्च गवां क्षीरप्रदायकः ॥ चन्द्रा- ब्दः कामिनामिष्टः चित्तवृद्धिमहीतलेः ॥ ४६ ॥ अग्नितस्कररोगाढ्यो नृपविमर्ददायकः ॥ गतसस्यो बहुव्यालो भौमाब्दो बालहा भृशम् ॥४७॥ विपक्षिक्षत्रियस्यानां जनानां च कलावृतम् ॥ बुद्धिप्रदोऽब्दो बौधस्तु बहुसस्याकरः क्षितौ ॥ ४८ ॥ बहुयज्ञोऽतिसस्यश्च गोगजाश्वहितस्तथा ॥ बहुवृष्टिमदः सौम्यो जीवाब्दो द्विजपुष्टिदः ॥ ४९ ॥ सस्याढ्यो धर्मबहुलो गतातंको बहूदकः ॥ कामिनां कामदः कामः सिताब्दो नृपशर्मदः ॥ ५० ॥ दुर्भिक्षमरकारोगान्नकरोति पवनस्तथा ॥ शनैश्चराब्दः शोकांश्च विग्रहाणि च भूसुजाम् ॥ ५१ ॥ क्रमेण परिवर्तन्ते पञ्च याद्‌व वत्सराः ॥ तेषामधिपतीन्वक्ष्ये नामानि च फलानि च ॥ ५२ ॥ पञ्च भक्ते तु यच्छेषं तिष्ठेद्गणने गते ॥ संवत्सरायः संज्ञेयो नित्यं संवत्सरो बुधैः ॥ ५३ ॥ आद्यः संवत्सरो नाम द्वितीयः परिवत्सरः ॥ इडाख्यश्च तृतीयोऽत्र चतुर्थश्चानुवत्सरः ॥ इद्वत्सरस्त्वयः कथितः तथा चैवात्र पञ्चमः ॥ ५४ ॥ संवत्सरोऽग्निः परिवत्सरोऽर्क इडाभिधानो भगवान्छशाङ्कः ॥ ब्रह्मा स्वयंभूरनुवत्सरोऽपि इद्वत्सरः शैलसुतापतिश्च ॥ ५५ ॥ वृष्टिः समाल्पे कथिता द्वितीये प्रभूततोया कथिता तृतीये ॥ पञ्चाज्जल मुञ्चति यश्चतुर्थः स्वल्पो- दकं पञ्चममब्दमुक्तम् ॥ ५६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० स० अब्दफलनिर्देशो नाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥ मार्कण्डेय उवाच ॥ उत्तरं त्वयनं दिव्यं पित्र्यं स्याद्दक्षिणायनम् ॥ वसन्तश्चाग्निदैवत्यः शाक्रो ग्रीष्म उदाहृतः ॥ १ ॥ वैश्वदेवी तथा प्रावृट्प्रभाजा पत्या शरत्स्मृता ॥ हेमन्तो वैष्णवः प्रोक्तो मारुतः शिशिरः स्मृतः ॥ २ ॥ त्वाष्ट्रश्चैत्रस्तु वैशाखो मासश्चैवाग्निदैवतः ॥ ज्येष्ठश्चाक्रस्मृतो मास आषाढो वैश्वदेवतः ॥३॥ श्रावणो विश्वेदेवत्य आजो भाद्रपदस्तथा ॥ अश्वयुक्त्वाश्विनो मास आग्नेयः कार्त्तिकः स्मृतः ॥४॥ मार्गशीर्षस्तथा सौम्यः पौषस्त्याजीवदैवतः ॥ पैत्र्यो मासस्स्मृतो माघः फाल्गुनो भगदैवतः ॥ ५ ॥ मासेषु मासदेवत्या शुक्लपक्षाः प्रकीर्तिताः ॥ वक्ष्यामि