भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

अष्टम्यर्थे तथा पूर्वे ह्येकादश्यां तथा परे ॥ बालवं नाम करणं कथितं ब्रह्मदैवतम् ॥ ३४ ॥ शुक्लपक्षे द्वितीयार्धे षष्ठ्यर्थे प्रथमे तथा ॥ नवम्यर्थे
तथैवान्ते त्रयोदश्यां तथाऽर्धके ॥ ३५ ॥ कृष्णप्रतिपदादिषु पञ्चम्यां प्रथमे तथा ॥ द्वितीयार्धे तथाप्यष्ट्यां द्वादश्यां प्रथमे तथा ॥ ३६॥ कौलवं नाम
करणं कथितं मित्रदैवतम् ॥ आद्ये शुक्लतृतीयार्धे षष्ठ्यर्थे च तथा परे ॥ ३७ ॥ कृष्णद्वितीयाप्रथमे पञ्चम्यर्थे तथा परे ॥ नवम्यर्थे तथा पूर्वे
द्वादश्यर्थे तथा परे ॥३८॥ तैतिलं नाम करणमार्यमणं कथितं बुधैः ॥ अन्ते शुक्लतृतीयार्धे सप्तम्यां प्रथमे तथा ॥ ३९॥ दशम्यर्थे तथैवान्ते चतुर्दश्यां
तथाऽर्धके ॥ कृष्णपक्षद्वितीयान्ते षष्ठ्यर्थे प्रथमे तथा ॥ ४० ॥ नवम्यां च तथैवान्ते त्रयोदश्यां तथाऽर्धके॥ गराभिधानं करणं पृथिवीदैवतं स्मृतम् ॥ ४१॥
शुक्लपक्षचतुर्थ्यर्थे सप्तम्यां च तथा परे ॥ एकादश्यां तथा पूर्वे चतुर्दश्यां तथा परे ॥ ४२ ॥ कृष्णतृतीयाप्रथमे षष्ठ्यर्थे च तथा परे ॥
दशम्यर्थे तथा पूर्वे त्रयोदश्यां तथा परे ॥ ४३ ॥ वणिजं नाम करणं श्रीदेवमभिधीयते ॥ शुक्लपक्षे चतुर्थ्यन्ते ह्यष्टम्यां प्रथमे तथा ॥ ४४ ॥
एकादश्यपरे चार्धे पौर्णमास्यां तथार्धके ॥ अन्ते कृष्णतृतीयार्धे सप्तम्यां प्रथमे तथा ॥ ४५ ॥ द्वितीये च दशम्यर्थे चतुर्दश्यां तथाऽर्धके ॥
विष्टिरेत्येव करणं कथितं मृत्युदैवतम् ॥ ४६ ॥ सर्वकर्मसु राजेन्द्र सर्वदा गर्हितं च तत् ॥ चतुर्विंशत्यहोरात्रे राजन्होराः प्रकीर्त्तिताः ॥ ४७ ॥
सूर्योदयादारभ्य दिनपाद्याः क्रमेण ताः॥४८॥ षट्क्रमेण च तथा क्रमं तासां निबोध मे ॥ अर्कशुक्रार्कशीघ्रेश-
ग्रहेशदेवगन्धर्वनगनागेश्वरप्रभाः ॥ ४९ ॥ सर्वासां च तथा काले राहुर्मुङ्क्ते महाग्रहः ॥ कुलिकश्च तथा नागो यक्षः पञ्चेतितेविदुः ॥ ५० ॥ अङ्गारपर्णश्च
तथा गन्धर्वश्चाभिधीयते ॥ कुलिकस्य तु या वेला सा वर्ज्या सर्वकर्मसु ॥ ५१ ॥ तस्यां भुक्ते भवेद्व्याधिर्विषं भुक्तं न जीर्यते ॥ प्रत्यक्षमापि
तादृक्स्य तस्यां दृष्टो न जीवति ॥ ५२ ॥ भुक्तं तस्यां न तु भेषज्यं न तु कार्यकरं भवेत् ॥ सा तु कुलिविदा ज्ञेया मन्त्रिणा भिषजा तथा ॥ ५३ ॥
अविज्ञाय तु तां वेलां ग्रस्ते राजपुङ्गव ॥ वैफल्यकरणात्सूढाः प्राप्नुवन्त्यपयशो महत्ताम्॥५४॥ प्रत्येकस्यैव वेलायां ग्रहोभोगं निबोध मे ॥ एकैका
तु भवेद्धोरा सार्धं विघटिकाशतम् ॥५५॥ विनाडिकाः सप्तषष्ट्या रवः षोडश कीर्त्तिताः॥ होरांकुलिकवेलास्तु शेषः कालो रखेःस्मृतः ॥ ५६ ॥
स्वहोरान्ते तथा वेलाश्वतस्तस्तु विनाडिकाः ॥ राहोश्चक्रस्य कथिताः शेषः कालः सितस्य च ॥५७॥ सौम्येहोरासमारम्भे चषको द्वौ प्रकीर्तितौ॥
होरा कुलिकवेला तु शेषः कालो बुधस्य च ॥ ५८ ॥ एकसप्ततिसुङ्ख्येय होरायां तु निशाभृतः ॥ अर्द्धौ तु कुलिकस्याक्ताः शेषः कालो निशा


१ 'घोरा' इति ख० ।

वि०ध० || ५१ ||
प्र० खं० अ० ८४

भूतः ॥ ५९॥ षडशीतिमतिक्रम्य चषकान्प्राग्विजस्य तु ॥ यच्छेषन्तद्दिनादिस्थः कालस्तु कुलिकस्य च ॥ ६० ॥ सप्तसप्तत्यतिक्रम्य सार्धान्तु
चषकानुरौ ॥ राहोस्तु चषको होरा शेषकालो गुरोर्मतः ॥६१॥ भौमेहोरासमारम्भे द्वात्रिंशत्तु विनाडिकाः ॥ वेला तु कुलिकस्योक्ता शेषः कालः
कुजस्य तु ॥ ६२ ॥ जीवशुक्रहोरासु सर्वकर्माणि कारयेत् ॥ क्रूरासु च तथान्यासु न किञ्चित्कुलिकस्य च ॥ ६३ ॥ अतः परं मुहूर्तानां
देवतानि निबोध मे ॥ सर्वकर्माणि विवर्त्तन्ते ह्यहोरात्रेण पार्थिव ॥६४॥ सततं ते विनिर्दिष्टा मुहूर्तास्त्रिंशदेव तु ॥ वज्र उवाच ॥ अष्टाविंशतिरिक्तानि
त्यक्त्वा तानि ममानघ ॥ ६५ ॥ त्रिंशन्मुहूर्ताश्च कथं त एव द्विजसत्तम ॥ मार्कण्डेय उवाच ॥ दिनरात्र्योस्समत्वे ह्यर्धं भवति पार्थिव ॥ ६६ ॥
तयोर्मध्ये च सप्ततमभिजिन्नामविधीयते ॥ तयोर्हिन्वान्वया त्रिंशन्मुहूर्ता विहितास्तव ॥ ६७ ॥ नक्षत्रेष्वाप्येतेषां देवताः परिकीर्तिताः ॥ केवलं
क्रमाह्वितश्च क्रमस्तेषां निबोध मे ॥ ६८ ॥ रौद्रस्सर्पस्तथा मैत्रः पित्रो वासव एव च ॥ आप्यो वैश्वस्तथा राजंश्चेश्वरः शक्रदैवतः ॥ ६९ ॥
ऐन्द्राग्नौ नैर्ऋतस्तु वारुणश्च महीपते ॥ आर्यम्णस्तु तथा भाग्यो मुहूर्तेस्तु दिवाचराः ॥ ७० ॥ रौद्रोऽजडोवहिश्चैवः पौष्णाश्विन एव च ॥
याम्योऽग्निदैवतश्चैव ब्राह्मस्सौम्यस्तथैव च ॥ ७१ ॥ आदित्यो जीवदेवत्यो वैष्णवः सूर्यदैवतः ॥ त्वाष्ट्रश्चैवाथ वायव्यो मुहूर्तो
रात्रिवारिणः ॥ ७२ ॥ अतः पञ्चदशो भागो रात्रेश्च यदुनन्दन ॥ मुहूर्त्तसंज्ञः कथितो मुनिभिस्तत्त्वदर्शिभिः ॥ ७३ ॥
महाकल्याद्यथास्थ्य कालावयवदेवताः ॥ उक्तास्तव मुहूर्त्ताश्च तेषां काले स्वकेऽर्चनम् ॥ ७४ ॥ महाफलं हि निर्दिष्टं स्याद्वियोगे विशेषतः ॥
स्वकाले देवताः पूज्याः सोपचारैर्विशेषतः ॥ तस्यास्सकाशादिष्टम्ये कामयदिष्टमहंफलम् ॥ ७५ ॥ काले स्वके यः प्रयतस्तु भक्त्या देवान्यथावत्स
मृपैति राजन् ॥ सपर्धया तस्य दिशन्ति देवाः फलानभीष्टान्यृतु लोहिताक्ष ॥७६॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० कालावयवदैवतानां
माहात्म्यवर्णनो नाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥ मार्कण्डेय उवाच ॥ लग्नानि द्वादशैतानि दिनरात्रेण नित्यशः ॥ यथादित्यः स्थितो राशौ
तंदद्यानि नराधिप ॥ १ ॥ मेषो वृषोथ मिथुनः कुलिङ्गस्सिंह एव च ॥ कन्या तुला तथा कीटो धन्वी मकर एव च ॥ २ ॥ कुम्भो मीनश्च राजेन्द्र
लग्ना द्वादश कीर्तिताः ॥ कुजशुक्रो बुधश्चेन्दुः सूर्य्यशुक्रौन्दिसत्तथा ॥ ३ ॥ भौमो जीवश्च सौरश्च शनिजीवौन्दवश्च च ॥ मेषादीनां क्रमेणोक्ताः
प्रभावः पृथिवीपते ॥४॥ लग्नस्यार्धं स्मृता होरा तयोर्विपमराशिषु ॥ आदित्यचन्द्रौ चन्द्रार्कौविषमे समराशिषु ॥ ५ ॥ लक्षात्रिभागो दृष्काणः

॥ ५१ ॥


१ 'व्याधियोगे' इति ख० । २ 'खोपवासैः' इति ख० । ३ 'बुद्यादिषु' इति ख० । ४ 'भौमो जीवस्सनैश्चारी सोरो जीवस्तथैव च' इति ख० ।

क्रमात्तेषां तथेश्वराः ॥ लग्नेशः¹ पंचमेशश्च नवमेशस्तथैव च ॥६॥ मेशाद्याः कथिता नित्यं मेषसिंहधनुर्धराः ॥ मकराद्यास्तथा प्रोक्ता वृषकन्यामृगा
स्तथा ॥७॥ तुलाद्या मिथुनस्तौली कुम्भश्च वसुधाधिप ॥ कुलीरश्च कोटौ मीनस्तथैव च ॥८॥ आवृत्तौ राशिप्रभृति गणनीया नवांशकाः॥
राशीनां तु यथोक्तानां क्रमाच्च नवेश्वराः ॥ ९ ॥ स्वराशितस्तथारभ्य क्रमेणैव नवेश्वराः ॥ राशीश्वराः प्रोक्ता राशीनां द्वादशांशकाः ॥ १० ॥
पंच भौमस्य सौरस्य पंच त्रिंशंशका मताः ॥ जीवस्याष्टौ विनिर्दिष्टाः सप्त प्रोक्ता बुधस्य तु ॥ ११ ॥ शुक्रस्योक्तास्तथापञ्च राशौ विषम
संज्ञके ॥ आद्यास्तु पञ्च शुक्रस्य ततस्सप्त बुधस्य च ॥ १२ ॥ जीवस्याष्टौ तथा प्रोक्ताः पञ्च सौरस्य चाप्यथ ॥ कुजस्य तु तथा पञ्च
राशौ तु समसंज्ञके ॥ १३ ॥ लग्नं च होरा च तथा द्रिकाणं नवांशकं द्वादशभागसंज्ञम् ॥ त्रिंशांशकं चाप्यथ पञ्चमद्रमाहुर्मुनेयञ्च
लग्नम् ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० षड् लग्नवर्णनो नाम चतुरशीतितमोऽध्यायः ॥८४॥ वज्र उवाच ॥ शुभो वाप्यशुभो
वापि कथं काले महीतले ॥ ज्ञायते भार्गवश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ॥ १ ॥ मार्कण्डेय उवाच ॥ कृत्तिका याम्यवायव्ये नागवीथ्युत्तरोत्तरे ॥
गजवीथीतुहृदये प्राजापत्यादयस्त्रयः ॥२॥ ऐरावणे द्वुङ्‌भागे³ अहोरात्रचतुष्टयम् ॥ मध्ये वरे तथावीथी फल्गुनीऋक्षयोर्द्वयोः ॥३॥ मध्यमध्ये तु
गोवीथी अजायं भचतुष्टयम् ॥४॥ मध्यान्ते जरद्गः स्यात्त्रितयं श्रवणादिकम् ॥४॥ याम्योत्तरेण तु मृगा हस्तचित्रे प्रकीर्तिते ॥ अजदक्षिणमध्ये तु
विशाखा मैत्रेयस्सुताः ॥५॥ आविकायाम्थयाम्ये तु शक्राद्यं भचतुष्टयम् ॥ वैश्वानरपथं प्राहुस्तमेवात्यन्तदारुणम् ॥६॥ उद्यास्तमयामयां च
चारेण च तथा ग्रहाः ॥ उत्तरासु⁵ शुभाः प्रोक्ता दक्षिणास्वशुभावहाः ॥७॥ सुप्रभारश्मिमन्तश्च नागवीथ्यां यदा ग्रहाः ॥ न तदस्ति शुभं लोके
यत्र पश्यन्ति मानवाः ॥ ८ ॥ विरस्मयो विवर्णाश्च वैश्वानरपथाश्रिताः ॥ न तदस्ति शुभं राम यन्न कुर्य्युर्जगत्त्रये ॥ ९ ॥ रोहिणीशकटं भित्त्व
ग्रहा यदि भवेत्तदा ॥ नाशः प्रजानां क्रूरैश्च विशेषेणान्न लक्ष्येतो॥ १०॥ सौरराहुसूर्याः क्रूरास्तु तथा क्षीणश्च चन्द्रमाः॥ क्रूरैर्युक्तो बुधश्चैव राहुः केतुस्तथैव
चा॥ ११॥ शेषास्सौम्याग्रहाः प्रोक्ता मुनिभिस्तत्वदर्शिभिः॥ रोहिणी कृत्तिका पित्र्यं वैष्णवं मैत्रमेव वा ॥१२॥ पीडयन्तो ग्रहा हन्युर्देशं वरुणपालिताम्॥
पूर्वस्यां दिशि दृश्यन्ते सर्वतारग्रहा यदि ॥ १३ ॥ प्राच्यानां तु तदा राज्ञां भवेत्पीडा सुदारुणा ॥ मध्ये च यदि दृश्यन्ते मध्यदेशनिवासि
नाम् ॥ १४ ॥ वारुण्यां यदि दृश्यंते² तां दिशं पीडयन्ति च ॥ हीनाधिकं चरन्तश्च व्योम्ने वाऽदर्शनं गताः ॥१५॥ धूमायन्तो ज्वलन्तो वा वद्यन्ति


¹ 'तदा मध्ये' इति ख० । ² 'दृश्यन्तु' इति क० । ³ 'बुद्ध्याने' इति ख० । ४ 'भे' इति ख० । ५ 'उत्तरायां शुभाः' इति क० ।

वि० घ० ॥ ५२ ॥ प्र० सं० अ० ८५

महद्भयम् ॥ एकान्तरितनक्षत्रगताः स्युश्चेद्ग्रहा दिवि ॥ १६॥ मालारूढामे भवद्योगो मध्यदेशक्षितीशहा ॥ प्रासर्के धनुर्वत्रे सत्यानां क्षुद्विधायिनाम् ॥ १७॥ ग्रहा भयावहा नित्यं शृङ्गाटकपुरोगमाः ॥ भवेद्युरेकेर्शगतास्त्रिभिर्ऋद्धं यदा ग्रहाः ॥ १८॥ विनाशायैव लोकानां विज्ञेयासुमहत्क्षिताम् ॥ एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ॥ १९ ॥ शनैश्चरो वा दृश्येत तदा दुर्भिक्षमादिशेत् ॥ चित्रायां लोहितो यत्र मूले देवगुरुस्तथा ॥ ॥ २० ॥ भार्गवश्च श्रविष्ठासु तदा घोरं भयं भवेत् ॥ कृत्तिकासु शनैश्चारी विशाखासु बृहस्पतिः ॥ २१ ॥ स्थितौ प्रजानां पीडायै वृष्टिमन्त- र्द्दिवं भवेत् ॥ प्राग्द्वारेषु चरन्भेषु सौरो वक्रामियाद्यदि ॥ २२ ॥ पृथिवीं पीडयेत्सर्वां पूर्वदेशं विशेषतः ॥ रौद्रे हस्ते तथैवाप्ये आदिहस्त्ये शनै- श्चरः ॥ २३ ॥ यदोदयं प्रपद्येत तदा नश्यन्ति पार्थिवाः ॥ सौम्ये त्वाष्ट्रे श्रविष्ठासु स्थिते सौरे महीक्षितः ॥ २४ ॥ सर्वपीडां समर्चन्ति यथा यान्ति यमान्तिकम् ॥ पूर्वा पराशरा संप्राप्तौ भुञ्जीयौ परस्परम् ॥ २५ ॥ सप्तमर्क्षगतौ स्यातां तदा देवो न वर्षति ॥ अपवर्णि शशाङ्कार्को सद्योनाम महाग्रहः ॥ २६ ॥ आवृणोति तमः श्यामः सर्वलोकविपत्तये ॥ उदयास्तमये भानोश्चन्द्रस्य च यदा भवेत् ॥ २७ ॥ परिवेषस्तदा राजा क्षिप्रं वधमवाप्नुयात् ॥ सकलं चेद्रवौसूर्यो रात्रिं चेत्सकलो शशी ॥ २८ ॥ परिवेषी भवेद्राजा तत्रापि वधमर्हति ॥ द्विसूर्ये गगने वृद्धिं क्षत्रियाणां विनिर्दिशेत् ॥ २९ ॥ द्विचन्द्रे ब्राह्मणानां तु चाधिक्यं प्रलयाय तु ॥ ३० ॥ उदयास्तमयो यत्र सोमार्कौ रक्तमण्डलो ॥ ३० ॥ न चात्रा अपि दृश्यन्ते तन्महाभयलक्षणम् ॥ चन्द्रामा जन्म नक्षत्रं परित्यजति यस्य तु ॥ ३१ ॥ स्थायो रूपोपसव्यं तु तस्य विद्यादुपद्रवम् ॥ अन्यन्ता दर्शने राहोस्तथा चात्यन्तदर्शने ॥ ३२ ॥ प्रजापीडा विनिर्द्देश्या व्याधिदुर्भिक्षतस्करैः ॥ यन्नक्षत्रगतो गृह्येत चन्द्रमाभानुको ॥ ३३ ॥ प्रजा- तानां भवेत्पीडा ये नराश्शान्तिवर्जिताः ॥ ग्रहोपसृष्टे नक्षत्रे ग्रहणं तु यदा भवेत् ॥ ३४ ॥ तदा पीडा विनिर्द्देश्या सैनिकानां नृपस्यतु ॥ गृह्णीतो राहुणा चन्द्रः सूर्यो वा गगनाच्च्युतः ॥ ३५ ॥ उल्कानि हन्यात्तत्रान्यो राजा राज्यं करिष्यति ॥ गृहीतो परिवेषे तो यदा चन्द्रदिवाकरौँ॥३६॥ समन्तातपीड्यते देशः शस्त्राकोपश्च जायते ॥ मेघेस्संछाद्यते राहुस्सूर्त्तवत्तपति वा यदा ॥ ३७ ॥ अकालजस्तदा राज्ञो भयं विद्यादुपस्थितम् ॥ यत्र क्षत्रागते सूर्ये छिद्रं वै संप्रपद्यते ॥ ३८ ॥ तज्जातः पार्थिवः क्षिप्रं यमलोकं गमिष्यति ॥ तत्रानुङ्कुमरुक्षाम्रो घृतदग्धाग्निसन्निभः ॥ ३९ ॥ वन्धु- जीविनिभो भानुः शिशिराद्येषु शस्यते ॥ अस्यच्छवर्णः परुषो वर्णैतः खण्डमण्डलः ॥४०॥ संच्छिद्र रस्रा ध्वस्त उल्काधूपहतोपि वा ॥ मण्डला

॥ ५२ ॥


१ 'बालार्वे' इति ख० । २ 'प्रपद्येत्' इति क० । ३ 'महीतलात्' इति क० । ४ 'रतिवद्वितन्वदा भवेत्' इति ख० ।

दन्यसंस्थानं मैत्रैश्चायुधसन्निभैः ॥ ४१ ॥ उदयास्तमये च्छन्नः पार्थिवानां न शस्यते ॥ पक्षादौ चापसंस्थाने युद्धं शशिनि निर्दिशेत् ॥ ४२ ॥
लाभस्तेषां जयस्तेषां यत्र दृष्टं भयं ततः ॥ समकोटिविशालश्च किंचिदाप्लुत्तरोन्नतः ॥ ४३ ॥ मासादौ चन्द्रमाः शस्तो वाम एव विपर्य्ययः ॥
मण्डलेनान्तरिकुर्व्वञ्छृङ्गे सा यदि वा स्पृशेत् ॥ ४४ ॥ तारामहं तदा कुर्य्याद्व्यं जनपदं शशी ॥ शुक्लपक्षस्य या वृद्धिलौके क्षेमसुभिक्षदा ॥ ४५ ॥
सा सितेतरपक्षस्य पृथिव्यां नैव शस्यते ॥ श्रवणेऽभ्युदितो भौमः पुष्ये वक्रमियाद्यदि ॥ ४६ ॥ प्राजापत्युदितश्चन्द्रो नाशाय स्यान्महीक्षिताम् ॥
गतागतं यदा कुर्य्यान्मघामध्येन लोहितः ॥ ४७ ॥ तदा भवतयनावृष्टिः पाण्ड्यो राजा विनश्यति ॥ फल्गुन्योदयमुद् गत्वा वक्रः स्याद्वैश्रदेवके ॥ ४८ ॥
प्रजापत्ये प्रवासश्च त्रैलोक्यं तत्र पीड्यते ॥ ध्रुवेषु वैष्णवे मूले शाक्रे च विचरन्कुजः ॥ ४९ ॥ घोरं करोत्यनावृष्टिं कृत्तिकासु मघासु च ॥
कार्त्तिकेऽभ्युदते पौषे चाषाढे श्रावणे बुधः ॥ ५० ॥ दृष्टो लोके भ्याय स्यान्माघवैशाखयोस्तथा ॥ अकस्माच्च दृश्येत दिवा देवपुरोहितः ॥ ५१ ॥
राजा वा म्रियते तत्र स वा देशो विनश्यति ॥ अहस्सर्व्वं यदा शुक्लो दृश्यतेऽथ महाग्रहः ॥ ५२ ॥ तदा त्वग्न्यादिभिर्मान्यान्बाधते
नगराणि च ॥ कार्त्तिके तु यदा मासि कुर्व्वीतास्तमयोदयौ ॥ ५३ ॥ तदर्द्धं नवतिं पूर्णं भुवि देवो न वर्षति ॥ शनैश्चरो देशपीडां
देशनक्षत्रपीडने ॥ ५४ ॥ ध्रुवं करोति राजेन्द्र नित्यं चारवशेन तु ॥ सप्ताहान्तर्गता ये वै दिव्यान्तरिक्षनामसाः ॥ ग्रहोपरागणे तीव्रास्त्यूरुपत्पाताः
स्वफलेषु ते ॥ ५५ ॥ एकस्मिन्यदि मासे स्याद्ग्रहणं चन्द्रसूर्य्ययोः ॥ ब्रह्मक्षत्रविरोथाय विपरीतविवृद्धये ॥ ५६ ॥ यस्मिन्दृश्येत नक्षत्रे विशाखायां
प्रधूपवत ॥ तद्देशजाता पीडा स्याद्बुधकेतुमहाग्रहाः ॥ ५७ ॥ उल्काभिर्निहते सूर्ये केतुभिर्वा विदूमिते ॥ अगस्त्ये वा ध्रुवे वापि प्रजापीडां
विनिर्दिशेत् ॥ ५८ ॥ उल्काभिमहता रूक्षा स्फुलिङ्गा रजसा युताः ॥ ऋषयस्तस्त लोकानां विनाशाय च भूभृताम् ॥ ५९ ॥ कृत्तिकाभिस्म
होदेति शांकरीं दिशमाश्रितः ॥ कुमारीप्रतितीतो हन्याल्लोके नृपकुमारकान् ॥ ६० ॥ समागमे ग्रहाणां तु चन्द्रमाः शस्यते बुधक ॥
नक्षत्राणां च राजेन्द्र दक्षिणेन न शस्यते ॥ ६१ ॥ राहुः केतुः कुजः शुक्रश्चन्द्रेण सह यायिनः ॥ बुधो जीवश्च सौरश्च नागरा रविणा सहा ॥ ६२ ॥
यायिना विजिते पौरे राज्ञां स्याद्यायिनां जयः ॥ यायिभृद्दे पौरजिते पुरा राज्ञां जयो मृधे ॥ ६३ ॥ पौरेण विजिते पौरे पौरः पौरक्षयं वदेत् ॥
यायिना यायिनो हन्ते यायिनो यायिनां क्षयः ॥ ६४ ॥ ग्रहाणां चेद्भवत्साम्यं साम्यं राज्ञां विनिर्दिशेत् ॥ जयाजयौ नरेन्द्राणां निर्दिश्ये


१ 'उद्येत्तमये भानुः' इति ख०। २ 'पृष्ठमयम्' इति ख०। ३ 'नित्यमेवे' इति ख०। ४ 'यदा'इति ख०। ५ 'स्फुरणा' इति क०। ६ 'पुराज्ञाम्' इति क०। ७ 'पौरेण विजिते चौरे चौरौश्चक्षयं वदेत्' इति ख०।

वि० ध० ॥ ६३ ॥ प्र० खं० अ० ८७

ग्रहवृद्धैः ॥ ६६ ॥ महाह्रस्वस्तुस्तस्यानात्स्फुरेण विजितो ग्रहः ॥ विजितो जयलिङ्गैश्च कृष्णः श्यामद्युतिस्तथा ॥ ६६ ॥ उद्धमार्गगतिः स्निग्धो विमलो विमलप्रभः ॥ बृहस्पतिश्शुक्रश्च विजयी कथितो ग्रहः ॥ ६७ ॥ न दैवमेतच्चपलस्य लोके न नास्तिकस्याप्यधमपुरुष्य ॥ गुह्यं मुनीनामपि पार्थिवेन्द्र मयोदितं कालविनिश्चयं तो ॥ ६८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहशुभाशुभपरिज्ञानवर्णनं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥ वज्र उवाच ॥ प्रतिदेशं महाभाग कथं प्राप्तेऽनुपद्रवम् ॥ विज्ञायते द्विजश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ॥ १ ॥ मार्कण्डेय उवाच ॥ कृत्तिकां रोहिणीं सौम्यं मध्यदेशस्य निर्दिशेत् ॥ पीडिते त्रितयेऽतस्मिन्मध्यदेशः प्रपीड्यते ॥ २ ॥ आर्द्रा पुनर्वसुं पुष्यं पूर्वदेशस्य निर्दिशेत् ॥ पीडिते त्रितये तस्मिन्पूर्वदेशः प्रपीड्यते ॥ ३ ॥ आश्लेषां तु मघां पूर्वा चाग्नेय्यां दिशि निर्दिशेत् ॥ पीडिते त्रितये तस्मिन्नाग्नेयी पीड्यतेऽथ दिक् ॥ ४ ॥ आर्य्यणमथ हस्तं च त्वाष्ट्रं स्वातिदिशि दक्षिणे ॥ पीडिते त्रितये तस्मिन्पीड्यते दक्षिणा च दिक् ॥ ५ ॥ स्वातिं विशाखां मैत्रं च नैर्ऋत्यां दिशि निर्दिशेत् । पीडिते त्रितये तस्मिन्पीड्यते नैर्ऋती च दिक् ॥ ६ ॥ वायव्यां दिशि निर्द्दिष्ट्वा वैष्णवष्णववासवाः । पीडिते त्रितये तस्मिन्वायवी पीड्यते च दिक् ॥ ७ ॥ वारुणं चाजदैवत्यं चाहर्बुध्न्यं तथोत्तरे ॥ पीडिते त्रितये तस्मिन्नुत्तरा दिक्प्रपीड्यते ॥ ८ ॥ रेवती चाश्विनी याम्येशानी दिक् प्रपीडिता ॥ पीडिते त्रितये तस्मिन्नीशानी दिक् प्रपीड्यते ॥ ९ ॥ आदित्यो भृगुजौ भौमो राहुस्सौरौ निशाकरः ॥ बुधो बृहस्पतिश्चैव प्राच्यादीशाः प्रकीर्तिताः ॥ १० ॥ विध्वस्तवपुषस्ते च ग्रहयुद्धे पराजिताः ॥ नीचाः पितृगृहस्थाश्च स्वां दिशं पीडयन्ति ते ॥ ११ ॥ वज्र उवाच ॥ स्वदेशपीडनं कुर्व्वन्स्ततः पीडतः कथम् ॥ सर्वमेतन्ममाचक्ष्व सर्वधर्मभृतां वर ॥ १२ ॥ मार्कण्डेय उवाच ॥ शनैश्चरार्को भारेण वक्रेणाङ्गारको ग्रहः ॥ उपरागेण राहुश्च केतुश्चारूमनोदयैः ॥ १३ ॥ उदयास्तमयाभ्यां च जीवशुक्रशशाङ्कजाः ॥ संच्छादनेन च शशी ह्यन्यन्यश्चैव योगतः ॥ १४ ॥ तथा यस्मिंश्च नक्षत्रे दिग्यपार्थिवनामभाः ॥ दृश्यन्ते तु महीपालाः स्वां दिशं संप्रपीडयेत् ॥ १५ ॥ देशेषु सर्वेषु मयोक्तं ते शुभाशुभं यादवमुख्यनाथ ॥ अतः परं धर्मभृतां वरिष्ठ वदस्व किं ते कथयामि राजन् ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०मु० प्रतिदेशपीडावर्णनं नाम षडशीतितमोऽध्यायः ॥ ८६ ॥ ॥ वज्र उवाच ॥ शुभाशुभपरिज्ञानं भवतानुकृपं प्रति ॥ तत्तोहं श्रोतुमिच्छामि तन्ममाचक्ष्व पृच्छतः ॥ १ ॥


१ 'विजये' इति क० । २ 'प्राप्तं' इति ख० । ३ 'कीर्तितम्' इति क० ख० ।

॥ ६३ ॥

मार्कण्डेय उवाच ॥ जन्माश्रितस्त्रिपञ्चश्च सप्तमो दशमस्तथा ॥ एकादशः शशी येषां तदा तेषां शुभं भवेत् ॥ २॥ जन्मून्यथ चतुर्थे च साष्टमे दशमे तथा ॥ एकादशे बुधो येषां तेषामपि शुभं वदेत् ॥ ३ ॥ द्विषट्‌त्रिभगतेा जीवस्सप्तमो नवमस्तथा ॥ एकादशस्तथा ह्येषां तेषामपि शुभं वदेत् ॥ ॥ ४ ॥ षष्ठसप्तमगः शुक्लो दशमे न च शोभनः ॥ द्वादशश्च तथा ह्येषां तेषां पीडां विनिर्दिशेत् ॥ ५ ॥ तृतीये दशमे षष्ठे तथा चैकादशे शुभाः ॥ सौरारातीक्ष्णकिरणा येषां तेषां शुभं वदेत् ॥ ६ ॥ यस्मिन्हि जननं यस्य जन्मक्षं तस्य तत्स्मृतम् ॥ चतुर्थं मानसं तस्मा- द्दशमं कर्मसंज्ञितम् ॥ ७ ॥ संघांतकं षोडशं स्यात्सासुदायिकम् ॥ वैनाशिकं तु नक्षत्रं कर्मक्षं यत्त्रयोदशम् ॥ ८ ॥ षण्णक्षत्रस्तु पुरुषस्त्वंः प्रोक्तो महीपते ॥ राजा च नवनक्षत्रो नक्षत्रत्रितयं शृणु ॥ ९ ॥ नित्यमभ्यधिकं पञ्च्यः पार्थिवस्य नृपोत्तम ॥ देशाभिषेकनक्षत्रौ जातिनक्षत्रमेव च ॥ १० ॥ जात्याश्रितानि वक्ष्यामि नक्षत्राणि तवानघ ॥ पूर्वत्रयमथाम्नेयं ब्राह्मणानां प्रकीर्तितम् ॥ ११ ॥ उत्तरात्रितयं पुष्यं क्षत्रियाणां प्रकीर्तितम् ॥ पौष्णं मैत्रं तथा पित्र्यं प्राजापत्यं विशां स्मृतम् ॥ १२ ॥ आदित्यमाश्विनं हस्तः शूद्राणामभिजि- त्तथा ॥ सार्पं विशाखा याम्यं च वैष्णवं च नराधिप ॥ १३ ॥ प्रतिलोमभवानां च सर्वेषां परिकीर्तितम् ॥ ईदृहे ह्यर्हतानिस्त्यान्जन्मक्ष- च्चोपतापिते ॥ १४ ॥ कर्मक्ष कर्मणां हानिः पीडा मनसि मानसे ॥ मूर्तिद्रविणबन्धूनां हानिसंघातिके हते ॥ १५ ॥ संतेते सानुदायक्ष मित्रभृत्यार्थसंक्षयः ॥ वैनाशिके विनाशस्स्याद्देहद्रविणसंपदाम् ॥ १६ ॥ पीडिते चाभिषेकक्षं राज्यभ्रंशं विनिर्दिशेत् ॥ देशक्ष पीडिते पीडा देशस्य च पुरस्य च ॥ १७ ॥ पीडिते जातिनक्षत्रे राज्ञो व्याधिं विनिर्दिशेत् ॥ १८ ॥ ग्रहसंजातां समावाप्य पीडां पूजा तु कार्या विधिना स्वकेनेन ॥ ततश्शुभं विन्दति राजसिंह विद्रुतपापः पुरुषस्तदैव ॥ १९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० प्रतिपुरुषाङ्गाभिनिर्देशो नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥ वज्र उवाच ॥ ग्रहाणां भृगुशार्दूल नक्षत्राणां तथैव च ॥ पूजने विधिमाचक्ष्व तत्र मे संशयो महान् ॥ १ ॥ मार्कण्डेय उवाच ॥ ग्रहस्याधिपतिः कार्यों नित्यं मण्डळके बुधैः ॥ नक्षत्रऋन्दसहितस्तथा सावित्पतिर्नृप ॥ २ ॥ संख्याता तारकास्तस्य यथावन्मनुजेश्वर ॥ तेषां तारकसंख्यानं निबोध गदतो मम ॥ ३ ॥ रौद्रं पुष्यं तथा त्वाष्ट्रं वायव्यं वारुणं तथा ॥ पौष्णं च पार्थिवश्रेष्ठ कथितं त्वेकतारकम् ॥ ४ ॥ द्वितारं फल्गुनीयुग्मं तथा भाद्रपदाद्वयम् ॥ आदित्यं च तथा मूलं चैन्द्राग्नं चाश्विनं तथा ॥ ५ ॥ त्रितारं भरणी सौम्यमैन्द्रं


१ 'सांघातिकम्' इति ख० । २ 'सप्तसमुदयं स्तहम्' इति ख० । ३ 'वैनाशिकम्' इति ख० । ४ 'समुदयं' इति ख० ।

वि० ध०पृ० सं०
॥ ६४ ॥अ० ८१

ब्राह्मं सर्वैष्णवम् ॥ चतस्रस्तामथाषाढे द्वे मैत्रे यदुनन्दन ॥ ६ ॥ पञ्चतारः स्मृतो हस्तः प्राजापत्यं च वासवम् ॥ सार्प पित्र्यमथार्यम्यं पञ्चतारं परिकीर्तितम् ॥ ७ ॥ आदित्यमण्डलं कार्यं पद्मवर्णं नराधिप ॥ श्वेतं चन्द्रमसः कार्यं रक्तं कार्यं कुजस्य च ॥ ८ ॥ नीलं बुधस्य कर्तव्यं पीतवर्णं बृहस्पतेः ॥ श्वेतं शुक्रस्य कर्तव्यं कृष्णं सौरस्य पार्थिव ॥ ९ ॥ आकाशवर्णं तमसः केतोर्धूम्रभं तथा ॥ रक्तवर्णं कृत्तिकानां फाल्गुनीद्वितयस्य च ॥ १० ॥ हस्तस्य च सपौष्णस्य मैत्रस्य च नराधिप ॥ पीतं पुष्यस्य केश्यस्य शाक्राडवायोस्तथा ॥ ११ ॥ श्वेते सौम्यस्य रौद्रस्य आप्यवारुणयोस्तथा ॥ आदित्यसार्पिषण्णां ब्राह्मवायव्ययोस्तथा ॥ १२ ॥ प्रौष्ठपादद्वयस्याथ श्वेतमेवाभिधीयते ॥ विचित्रवर्णं त्वाष्ट्रस्य वैश्वदेवस्य चाप्यथ ॥ १३ ॥ आश्विनस्य तथा कार्य नित्यमेव नराधिप ॥ कृष्णं याम्यस्य मूलस्य पालाशं श्रवणस्य च ॥ १४ ॥ विशाखायां पीतरक्तं कर्तव्यं नृपमण्डलम् ॥ १५ ॥ यथोक्तेनार्चनं नरेन्द्र कृत्वा पूर्वं ग्रहस्थानथ मण्डलं स्वम् ॥ ऋक्षस्य वा पूज्यत- मस्य राजन्पूजा विधेया तदनन्तरं च ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहमण्डलनिवेशो नामाकाशीतितमोऽध्यायः ॥ ८८॥


मार्कण्डेय उवाच ॥ शकृन्मूत्रं तु संगृह्य श्वेतस्य वृषभस्य च ॥ श्वेतगोः पयसा सार्धं स्नातव्यं कुशवारिणा ॥ १ ॥ जन्मऋक्षपीडायां तत्स्नानोपा- द्विमुच्यते ॥ शिरीषचन्दनाश्वत्थताटनागसुभिर्नरः ॥ २ ॥ स्नानञ्चेन्मानसे तते तस्माद्दोषा विमुच्यते ॥ सिद्धार्थकान्प्रियङ्गुं च शतपुष्पां शतावरीम् ॥ ३ ॥ स्नातव्यमम्भसि क्षित्त्वा कर्मक्षै नृप पीडिते ॥ प्रियङ्गुर्विल्वसिद्धाथैयवाध्वत्यसुराह्वाय् ॥ ४ ॥ चन्दनादुकसंयुक्तं स्नाने सांघातिके हिते ॥ सर्वगन्धोदकैः स्नानं तथा सिद्धार्थकैः शुभैः ॥ ५ ॥ पीडिते सामुदायर्क्षे पुंसां कल्मषनाशनम् ॥ वृषशृङ्गोद्धृतमृदा तथा विल्वोदकैः शुभैः ॥ ६॥ शतपुष्पासमामोहैः स्नानं वैनाशिके भवेत् ॥ पीडिते चाभिषेकर्क्ष सर्वगन्धोदकैस्तथा ॥ ७ ॥ पीडिते देशऋक्षे युद्धेस्नानं विधीयते ॥ मृत्तिकाश्च प्रवक्ष्यामि गदतः शृणु मे नृप ॥ ८ ॥ नदीकूलद्वयान्मध्यात्संगमात्सप्तनदात्तथा ॥ अश्व- स्थानाद्गजस्थानाद्गोस्थानाद्धद्रिमस्तकात् ॥ ९ ॥ सर्पस्थानात्सवल्मीकाद्वाजस्थान्हादरालयात ॥ गजशृङ्गोद्धृतां चैव वृषशृङ्गोद्धृतां तथा॥१०॥ सर्वबीजोदकमातो जातिलक्षणापीडने ॥ मुच्यते किल्विषाइद्राजन कार्या विचारणा ॥ ११ ॥ इदमापः प्रवततः स्नानमन्त्राः प्रकीर्तिताः ॥१२॥ स्नातस्त्वैवं नृपचन्द्र पश्चात्स्नानं प्रकुर्वीत ग्रहोपदिष्टम् ॥ पीडाकरम्याथ ततस्तु कार्यं नक्षत्रयागाभिहितं यथावत ॥ १३ ॥ पूजा महेन्द्रम्य


१ 'स वै पौष्णः' इति क० । २ 'मित्राणाय्' इति ख० । ३ 'पीडिते' इति क० 'पीडनन्' इति ख० ।

नरेन्दुश्च पीडाकरस्याथ ततस्तु कार्या ॥ तं पूजयित्वाऽथ चन्द्रद्युतं ततः स दोषान्सकलाञ्जहाति ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० नक्षत्रस्नाने नवैकोननवतितमोऽध्यायः ॥ ८९ ॥ ॐ वज्र उवाच ॥ ग्रहाणां भार्गवश्रेष्ठ नक्षत्राणां तथैव च ॥ पूजाविधिमहं त्वत्तः श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥ मार्कण्डेय उवाच ॥ ग्रहं वाप्यथ नक्षत्रं यं पूजयितुमिच्छति ॥ उपस्पृश्य शुचिर्भूत्वा कृत्वा तस्याथ मण्डलम् ॥ २ ॥ मण्डले कल्पितं वापि स्वयं दैवविदा नृप ॥ पूज्यस्नानेन विधिवत्स्नातः प्रयतमानसः ॥ ३ ॥ विधिनोपसमादाय प्रयतो जातवेदसम् ॥ अथ वोपसमादाने कृते तत्र पुरोधसा ॥ ४ ॥ प्राङ्मुखे च कृते तत्र चक्षुष्पथे यथाविधि ॥ मण्डलात्पश्चिमे भागे प्राङ्मुखः प्रयतश्शुचिः ॥ ५ ॥ मण्डलस्य तु शौचार्थं पश्चगव्यं प्रकल्पयेत् ॥ अभ्युक्ष्य पश्चगव्येन मण्डलं प्रयतं शुचिः ॥ ६ ॥ अर्घ्यादिकल्पनां कुर्यात्पाद्यान्तां तदनन्तरम् ॥ जीवादानं ततः कुर्याज्जीवस्यावाहनं ततः ॥ ७ ॥ पूज्यस्यावाहनं कुर्यात्ततोऽर्घ्यं विनिवेदयेत् ॥ पाद्यं निवेदयेत्पश्चादासनं च निवेदयेत् ॥ ८ ॥ दत्त्वावाचमनीयं च मधुपर्कं निवेदयेत् ॥ ततोऽनुलेपनं दद्यात्ततो दद्याद्विभूषणम् ॥ ९ ॥ ततो यज्ञोपवीतं च ततः प्रतिसराञ्छुभान् ॥ वस्त्रं तथा पताकां च पुष्पं धूपं तथैव च ॥ १० ॥ दीपं च दत्त्वा नैवेद्यं मुखवासं च पार्थिव ॥ ततोऽभिहवनं कुर्याद्यस्य यस्य यथा भवेत् ॥ ११ ॥ कृत्वैतत्तत्त्वं च दत्त्वा पूर्णाहुतिं ततः ॥ तद्युक्तं दक्षिणां दत्त्वा मण्डले प्रतिपादयेत् ॥ १२ ॥ हेतवेत्रियुगे देयं गौस्सुवर्णं तथैव च ॥ ग्राह्यं कालविदा तच्च यद्दत्तं ग्रहमण्डले ॥ १३ ॥ यथाशक्ति च दातव्या ब्राह्मणानां च दक्षिणा ॥ विसर्जनं ततः कार्यं ततो ब्राह्मणभोजनम् ॥ ॥ १४ ॥ युक्तवस्तु च विप्रेषु प्रमादाद्यन्मण्डले भवेत् ॥ अर्घ्यपुष्पादिकं सर्वं जले प्रक्षिप्य पार्थिव ॥ १५ ॥ अद्भिरत्र तर्पणं कार्यं पूजा स्यात्तदनन्तरम् ॥ १६ ॥ पूजाविधिस्ते गदितो मयाद्य समासतः पार्थिवसत्तमस्य ॥ अतः परं किं कथयामि तुभ्यं तन्मे वदस्वाखिलराजसिंह ॥ ॥ १७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० ग्रहऋक्षपूजाविधिवर्णनं नाम नवतितमोऽध्यायः ॥ ९० ॥ वज्र उवाच ॥ ग्रहाणां भार्गवश्रेष्ठ नक्षत्राणां पृथक्पृथक् ॥ स्नानानि श्रोतुमिच्छामि तत्पीडाशमनान्यहम् ॥ १ ॥ मार्कण्डेय उवाच ॥ मञ्जिष्ठां मातुलुङ्गं च कुंकुमं रक्तचन्दनम् ॥ पूर्णकुम्भे कृते ताम्रे सूर्यस्नानं विधीयते ॥ २ ॥ उशीरं च शिरीषं च पद्मकं चन्दनं तथा ॥ शंखे न्यस्तमिदं स्नानं चन्द्रदोषनिवारणम् ॥ ॥ ३ ॥ खदिरं देवदारुं च तिलान्यामलकानि च ॥ पूर्णकुम्भे कृते रौप्ये भौमपीडाविनाशनम् ॥ ४ ॥ नदीसंगमतोयानि


१ 'धैर्यु' इति ख० । २ 'शुभं दानम्' इति क० । ३ 'द्याम्यातमादत्तम्' इति ख० । ४ 'ताम्रे' इति घ० ।

वि० ध०
प्र० खं०
अ० ९२
॥ ५६ ॥


तन्मृदा सहितानि च ॥ न्यस्तानि कुम्भे माहेये बुधपीडाविनाशनम् ॥ ५ ॥ गोरोचनं नागगदं शतपुष्पा शतावरी ॥ विल्वस्य सर्जते कुम्भे शुक्रपीडानिवारणम् ॥ ६ ॥ तिलान्माषान्म्रियंगुं च गन्धपत्रं तथैव च ॥ न्यस्तं कार्ष्णायसे कुम्भे सौरिपीडानिवारणम् ॥ ७ ॥ गुग्गुलुं हिङ्गुलं तालं शुभां चैव मनःशिलाम् ॥ शृंगे च माहिषे न्यस्तं राहुपीडाविनाशनम् ॥ ८ ॥ वाराहनष्टदंतां राजनपर्वतान्मृदं तथा ॥ छागं क्षीरं वज्रपात्रे केतुपीडाविनाशनम् ॥ ९ ॥ ग्रहास्नानमिदं प्रोक्तमृक्षस्नानमतः शृणु ॥ येन सम्यक्प्रयुक्तेन मुच्यते किल्विषान्नराः ॥ ॥ १० ॥ वटाश्वत्थशिरीषाणां पत्राणि तु तिलैस्सह ॥ सर्वगन्धोपपन्नानि कृत्तिकासु विधीयते ॥ ११ ॥ सर्वबीजोदकस्नानं रोहिणीषु प्रशस्यते ॥ सर्वरत्नोदकस्नानं मृगशीर्षे विधीयते ॥ १२ ॥ वचा च गन्धा कान्ताभिः स्नानं रौद्रे प्रकीर्तितम् ॥ गोधूमैरुद्गमयस्नानमादित्ये पापनाशनम् ॥ १३ ॥ सर्वौषध्यः पद्मगव्यं तथा गौरश्व शालयः ॥ सिद्धार्थकास्सर्वगन्धास्तिष्यस्नाने शुभप्रदाः ॥ १४ ॥ वल्मीकामृदा स्नानं तथा सार्पे शुभप्रदम् ॥ सतिलं देवनिर्माल्यं स्नानं शस्तं मघासु च ॥ १५ ॥ फल्गुनीषु च पूर्वांसु शार्दलं लवणं घृतम् ॥ उत्तरासु तथा स्नानं शिम्बिकुस्ताम्रपिष्ट्याभिः ॥ १६ ॥ हस्ते स्नानं प्रशंसन्ति पर्वतप्रसरोद्भवैः ॥ चित्रासु देवनिर्माल्यं स्वातौ पुष्पेजलैर्द्रवैः ॥ १७ ॥ विशाखासु प्रशंसन्ति रौद्रचन्दनपद्मकैः ॥ नदीकूलद्वयान्मृद्भिर्मैत्रे स्नानं प्रकीर्तितम् ॥ १८ ॥ ज्येष्ठोदकेन ज्येष्ठासु सुवर्णसहितं हितम् ॥ सर्वमूलजलैः स्नानमप्ये मुक्ताफलोदकैः ॥ १९ ॥ वैश्वदेवे प्रशंसन्ति पद्मोशीरहरिचन्दनैः ॥ सर्वौषधेश्चाभिजिति श्रवणे संगमोदकैः ॥ २० ॥ नदोवापापजालयुतैर्वारुणे तु प्रशस्यते ॥ आजे श्रीवासकं स्नानं कान्ता पुरोहितं हितम् ॥ २१ ॥ आहिर्बुध्न्ये तथा स्नानं पद्मोशीरहरिचन्दनैः ॥ कुङ्कुमागुरुकर्पूरैः सहितं पापनाशनम् ॥ दूर्भैर्युतैः पौष्णे हरिद्राद्वयचन्दनैः ॥ २२ ॥ नागाश्वगन्धा मदवन्तिका च क्षोद्राञ्चिता चाश्विनके प्रदिष्टा ॥ सुगन्धि काष्ठं रजनीद्वयं च स्नानं वचामिः सहितं च याम्यम् ॥ २३ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहनक्षत्रस्नानविविधवर्णनं नामक नवतितमोऽध्यायः ॥ ९१ ॥

॥ छ ॥

॥ वज्र उवाच ॥

॥ प्राक्तनोत्तरतन्त्रौ द्वौ संवपामभिकामणाम् ॥ त्वत्तोऽहं श्रोतुमिच्छामि सर्वधर्मभृतां वर ॥ १ ॥

मार्कण्डेय उवाच ॥

उद्धृत्योर्विमयीं शुद्धे देशे वेदिं च कारयेत् ॥ प्रागुदक्प्रवणं शुद्धामथायातपदसप्तकम् ॥ २ ॥ पूर्वभागे च विधीया विस्तारात्पदपञ्चकम् ॥ पश्चिमे च तथा भागे विस्तारात्स्याच्चतुष्टयम् ॥ ३ ॥ आग्नायंदेशे च तथा विन्वृता सा पदत्रयम् ॥ पूर्वभागा


^१ 'प्रथियत्कर्म' इति ख० ।
^२ 'गन्ध्या' इति ख० ।
^३ 'याम्यं' इति ख० ।

दतिकृत्य पश्चात्पदचतुष्टयम् ॥ ४ ॥ याम्येनोत्तरतश्चैव विज्ञेयं तु पदं पदम् ॥ अगारात्पश्चिमे भागे वेदी ज्ञेया पदद्वयम् ॥ ५ ॥ वेदिमेवं विधां कृत्वा स्नात्वाचम्य प्रयत्नतः ॥ सौवर्णान्भाजसांस्ताम्रानानयेद्वापि महीमयान् ॥ ६ ॥ सूत्राद्यैर्माल्यगन्धैश्च सफ़लैः पल्लवैर्यु- तान् ॥ पूर्णोदकुम्भांश्चतुरो विदिक्षु सुदृढं न्यसेत् ॥ ७ ॥ वेद्यासुल्लिखनं कार्यमैन्द्रीभिर्नृपसप्तम ॥ उदुम्बरस्य शाखाभिः प्रागग्राभिः समन्ततः ॥ ८ ॥ शुल्केन्धनसमुद्भूस्तु ततः कार्यों हुताशनः ॥ न धमेत्तालवृन्तेन न शूर्पेण न वाससा ॥ ९ ॥ मुखेनो- पधमेदम्रिं मुखादग्निर्विजायत ॥ परिसमुह्य पर्युक्ष्य परिषिच्य परिस्तरेत् ॥ १० ॥ हुताशनं बोधयित्वा भूयश्चावाहयेद्बुधः ॥ वक्ष्यामि बोधने मन्त्रं तथा चावाहनं नृप ॥ ११ ॥ उद्बुध्यस्वाग्ने बोधयन्ति देवतास्तास्सवासवाः ॥ ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ १२ ॥ वरुणो वायुराकाशं चन्द्रादित्यो प्रभाकरौ ॥ ऋषयश्च महाभागास्त्रैलोक्यामलदर्शनाः ॥ १३ ॥ वेदाश्च वेदमाता च सावित्री पापनाशिनी ॥ ओषध्योऽथ वषट्कारो मन्त्राश्च विविधास्तथा ॥ १४ ॥ कालस्यावयवास्सर्वे दिशश्च विदिशस्तथा ॥ उद्बुद्ध्य यजमानस्य सर्वान्कामान्प्रयच्छ वै ॥ १५ ॥ (ओम्) आवाहयाम्यहं देवं देवदेवं हुताशनम् ॥ जगतोऽस्य समुत्पत्तिस्थितिसंहार कारकम् ॥ १६ ॥ वेदमूर्तिं तदाधारं सर्वदेवसुखं विभुम् ॥ पिङ्गाक्षं पिङ्गटं धूम्रकेतं विभावसुम् ॥ १७ ॥ शुकयानगमं देवं सर्वभरणभू- षितम् ॥ सर्वगं वरदं भानुं जठरस्थं च देहिनाम् ॥ १८ ॥ तेजोमूर्तिं दुराधर्षं सप्ताजिह्रं महाबलम् ॥ सप्ताचिषं सप्तार्चिकं च समिस्तमककञ्च्चु- तम् ॥ १९ ॥ विष्णोरंशमनिद्देश्यं भावनं जातवेदसम् ॥ पावनं प्रवृद्धं सौम्यं भक्तानां भूतवर्धनम् ॥ २० ॥ तद्दतमाहुतिगणं संप्रतीच्छु जगद्गुरो ॥ तेन भावय देवेश यथाहे देवतागणान् ॥ २१ ॥ याजकं यजमानं च पुष्ट्या विप्रज संर्वशः ॥ इदमर्घ्यमिदं पाद्यं धूपं दीपं प्रगृह्यताम् ॥ २२ ॥ एवमावाहनं कृत्वा पाद्यार्घ्यं विनिवेदयेत् ॥ वेद्यामेव न तौ देयौ वह्नौ यडुकुलोद्वह ॥ २३ ॥ गन्धपुष्पादिकं देयं सकळआतवेद्दसि ॥ धूपं दीपं सनैवेद्यं वेद्यामेव निवेदयेत् ॥ २४ ॥ ततस्तु प्रस्तरेद्दर्भामक्षतांश्चः कुशोद्भिजान् ॥ उपमूलादधोलूनैः प्रागग्रैः प्रयतः शुचिः ॥ २५ ॥ पूर्वं च प्राग्दक्षिणातः पश्चात्सैवोपसव्यतः ॥ उत्तरेण ततः कुर्यात्प्रस्तरस्य समापनाम् ॥ २६ ॥ मूर्लच्छिद्रन्नतु दातव्यं प्रस्तरे भृशतां वर ॥ ओषध्यः फलवन्त्यश्च पर्ववन्त्यस्तथैव च ॥ २७ ॥ दर्भाभावे प्रशंसन्ति तिलस्तन्न च वर्जयेत् ॥


१ 'सूत्राद्यै' इति ख० । २ 'दर्शिनः' इति ख० । ३ कोष्ठान्तर्गतः पाठः खपुस्तके नास्ति । ४ 'सप्तशक्तिमत्' इति ख० ।

वि० ध० प्र० खं० अ० १२

राजसीरवरकं¹ च परिबार्धमथोक्तम् ॥ २८ ॥ विष्णुर्मनसा पूते स्तो मन्त्रेणानेन सुव्रत ॥ दर्भं पवित्रमुत्सृज्य ताम्र्यां च तदनन्तरम् ॥ २९ ॥
देवोव इत्यनेनैव उत्पुपूयुदकं शुचि ॥ स्रुक्स्रुवावथ पालाशौ शमीन्धन्योधिसंभवौ ॥ ३० ॥ उदुम्बरमयौ ताम्रौ रूप्यरुक्ममयौ तथा ॥
आज्यस्थाली च कर्तव्या तैजसैर्मुद्रसम्मवा ॥ ३१ ॥ माहेयी वापि भूपाल नित्यं सर्वार्थकर्मसु ॥ हस्तमात्रः स्रुवः कार्यो स्रुवबाहुसमंतथा ॥ ३२ ॥
अङ्गुष्ठमध्यप्रतिर्म होमस्थानं स्रुवस्य तु ॥ आज्यस्थाल्याः प्रमाणन्तु यथाकामन्तु कारयेत् ॥ ३३ ॥ ग्रामं पृथ्व्यापयोस्रीति मन्त्रेणाज्यं
नराधिप ॥ आज्यस्थाल्याः पयोत्पूतं पश्चानामिति पञ्चकम् ॥ ३४ ॥ पठन्गृह्णीत राजेन्द्र अजैत्यमनाविवेशयेत् ॥ आज्यस्याथ पवित्रेण कार्यं²
स्रुत्स्रुक्वनं द्विज ॥ ३५ ॥ अभिसंज्ञेहिति सततं हविरस्तुपवनान्तरम् ॥ अक्षीपन्तु³ न कर्तव्यं सततं पार्थिवोत्तम ॥ ३६ ॥ शुभाभ्यां स्रुक्स्रुवो
राजनप्रत्यगुद्घमिति भावय ॥ पवित्रस्यायदाभ्रेण आयुरित्येव मानद ॥ ३७ ॥ प्रतिमार्जं स्रुवं पश्चाद्भूरित्येव पार्थिव ॥ प्रतिमार्ष्टि स्रुवं ताँश्च
दर्भान्वह्नावथोत्सृजेत् ॥ ३८ ॥ इमौत्संगं पठन्मन्त्रमिमं पार्थिवसत्तम ॥ दिवि शिल्पमवतंतं पृथिव्याः कक्षिभिः श्रितम् ॥ ३९ ॥ तेन सहस्रकाण्डेन
द्विपन्तं तापयामसि ॥ द्विपन्तस्तप्यतां चोक्त्वा क्षिपेद्धर्भांहुताशने ॥ ४० ॥ इध्मद्वयं ततो देयं याजिषुद्युमदसम्भवम् ॥ पलाशः खदिरो बिल्वः शम्य
ऋत्व्यत्वतास्तथा ॥ ४१ ॥ उदुम्बरमपामार्गः फल्गुश्च क्रमुकस्तथा ॥ चन्दनं देवदारुश्च द्रुमा द्वादश याज्ञियाः ॥ ४२ ॥ चतुर्गृहीतं विन्यस्य सुचि पूर्वं
विचक्षणः ॥ इध्मद्वये प्रज्वलिते सौम्यभागे नराधिप ॥ ४३ ॥ प्रजानाम्पतये स्वादावाहुतिं मनसा न्यसेत् ॥ चतुर्गृहीते मुद्धौते³ दया दक्षिणातो भवन्तः ॥
॥ ४४ ॥ युक्तः परस्तादित्यादि पञ्चकं जुहुयात्ततः ॥ सन्ततीश्र्च जयाह्यास्तान्त्वा गद्द्भूस्तो नृप ॥ ४५ ॥ वातंश्चा चाज्यभागौ च दातव्यौ पार्थिवोत्तम ॥
अथोदुम्बरपात्राणां वेदो⁴ दक्षिणतो नृप ॥ ४६ ॥ सव्ये पद्मपात्राणामथवापि महीपते ॥ आवाहनं तु कर्तव्यं देवस्य परमेष्ठिनः ॥ ४७ ॥ आवाह-
याम्यहं देवं ब्रह्माणं परमेष्ठिनम् ॥ जगतोऽस्य समुत्पत्तिस्थितिसंहारकारकम् ॥ ४८ ॥ चंर्तुवेदं चर्तुर्वक्रं चातुर्वर्ण्यप्रभुं प्रभुम् ॥ चतुराश्रमगोप्तारं वरदं
भूतभावनम् ॥ ४९ पद्मयौनिं जगद्यौनिं यज्ञयोनिं जगत्पतिम् ॥ आत्मयोनिमनाधृष्यं यज्ञवाहं जगत्पतिम् ॥ ५० ॥ यज्ञेशं यज्ञभर्त्तारं च
त्रैलोक्यस्यैतत्कारणम् ॥ सर्वगं वरदं सौम्यं परमं परमेश्वरम् ॥ ५१ ॥ भूतभव्यभवं नाथं योगेज्ञेयं सनातनम् ॥ आगच्छ भगवन्ब्रह्म-
न्न्यजमानस्य वृद्धये ॥ ५२ ॥ इदमर्घ्यमिदं पाद्यं धूपं चेदं प्रगृह्यताम् ॥ ब्रह्मलिङ्गोक्तमंतो मन्त्राअप्सुदत्त्या समाहितः ॥ ५३ ॥ आपोहिष्ठेति

॥ ५६ ॥


१ 'द्रवं' इति क० । २ 'कर्तुम्' इति ख० । ३ 'नोदेति' इति ख० 'नोवेति' इति क० । ४ 'अन्तर्वेदिम्' इति ख० ।

मन्त्रेण ब्रह्मणोऽर्घ्यं निवेदयेत् ॥ शन्नोदेवीति पाद्यं च प्रयतः सुसमाहितः ॥ ५४ ॥ हिरण्यगर्भेति तथा दद्यादाचमनं बुधः ॥ ध्रुवा द्यौरिति मन्त्रेण ह्यासने विनिवेदयेत् ॥ ५५ ॥ गन्धं पुष्पमलंकारं वस्त्रं धूपं सदीपकम् ॥ नैवेद्यं च तथा देयं सावित्रेण नराधिप ॥ ५६ ॥ प्राक्तन्मेतं दुक्तं ते मया सर्वाङ्गिकर्मसु ॥ प्राक्तन्त्रे तु कृते कार्यं होममन्त्रमथासकम् ॥ ५७ ॥ एवं कार्यं महीनाथ सर्वेष्वाभिक्रमेषु ॥ ५८ ॥ होमस्य विहितस्यान्ये तन्त्रं कार्यमथोत्तरम् ॥ महाकल्पस्य कल्पस्य तथा मन्वन्तरस्य च ॥ ५९ ॥ युगस्यथ समायाश्चान्यस्य हि तथैव च ॥ ऋतोर्मासस्य पक्षस्य ग्रहनक्षत्रयोस्तथा ॥ ६० ॥ तिथेश्च करणस्याथ मुहूर्त्तस्य च पार्थिव ॥ वर्त्तमानस्य सर्वस्य देयस्याधिपतिर्भवेत् ॥ ६१ ॥ इह गाव अयं यज्ञ आनः प्रजास्तथैव च ॥ धूतिं चैवोपभूतिं च इहाभागं तथैव च ॥ ६२ ॥ देयं चतुर्गृहीतेन होमद्रव्येण पार्थिव ॥ त्वन्नो अग्ने वरुणस्य स त्वंनो अग्न एव च ॥ ६३ ॥ अयाश्चाग्नेस्त्वेतैवेति तथा व्याहृतयो नृप ॥ त्वन्नो अग्नेति च ततो होतव्यमृक्त्रयं पुनः ॥ ६४ ॥ न्यूनं तदेति रिक्तेति न्यूनं चैवातिरिक्तकम् ॥ समं समे तथा हुत्वा होतव्यमृक्त्रयं ततः ॥ ६५ ॥ अनाज्ञातं यदाज्ञातं स्विष्टिकृञ्चाथ पार्थिव ॥ मनोज्योतिस्तथैवात्र त्र्यंबिकेशस्तथैव च ॥ ६६ ॥ यन्मे च मनसा च्छिद्रं विष्णुकर्म्मा तथैव च ॥ अयाश्चाग्नेस्तथा राजन्त्वन्नो अग्ने तथैव च ॥ सत्वन्नो अग्ने इत्येवं हुत्वा पार्थिवसत्तम ॥ ६७ ॥ आश्रावितेति मन्त्रेण देया पूर्णाहुतिर्भवेत् ॥ ६८ ॥ इष्टो हि यज्ञो भृगुभिर्मन्त्रेणानिलेन पार्थिव ॥ आज्यस्थालीं स्रुक्स्रुवौ च दर्भेस्तु परिमार्जयेत् ॥ ६९ ॥ तँश्च दर्भान्क्षिपेद्वह्नौ प्रयतः सुसमाहितः ॥ पूर्णमित्येव च ब्रूवा कार्यं संवीक्षणं ततः ॥ ७०॥ यथादिशं महीपाल तथा कुर्याद्विमोचनम् ॥ ततो विसर्जनं कार्यं ब्रह्मणः परमेष्ठिनः ॥ ७१ ॥ भगवन्देवदेवेश जगत्तातार्त्तिनाशन ॥ ब्रजस्व पूजामादाय पुनरागमनाय च ॥७२॥ यजमानस्य शान्त्यर्थं सर्वस्य जगतस्तथा ॥ आरोग्याधनधान्येन यजमानं च वर्धय ॥७३॥ हुताशनस्य कर्त्तव्यं ततो राजनूद्विसर्जनम् ॥ द्रव्येषूक्तं वरेण्यस्त्वं प्रणतार्त्तिविनाशनः ॥ ७४ ॥ ब्रजस्व पूजामादाय पुनरागमनाय च॥ शान्त्यर्थं यजमानस्य राष्ट्रस्य च विवृद्धये ॥७५॥ गोब्राह्मणहितार्थाय जयाय च महीपतेः ॥ पूर्णपात्रमथादाय वाच्यं स्वस्त्ययनं ततः ॥७६॥ ततस्तु दक्षिणा देया यथा प्रोक्ता मया पुरा ॥ एतदुत्तरतन्त्रं तु प्रोक्तं सर्वाङ्गिकर्मणां ॥७७॥ विधानमेतत्कथितं तवाद्य सर्वाग्निकर्मस्वभिकार्योपयोगि॥ अतः परं किं कथयामि राजंस्तन्मे वदस्वायतलोहिताक्ष ॥७८॥इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अभिकार्ये प्राक्तन्त्रोत्तर


१ 'मजतामां' इति ख० ।

वि०ध० || ५७ || प्र० खं० अ० ९३

तन्त्रविधानं द्विनवतितमोऽध्यायः ॥ ९२ ॥

वज्र उवाच ॥ विस्तराच्छ्रोतुमिच्छामि ग्रहनक्षत्रपूजनम् ॥ त्वत्तोऽहं भार्गवश्रेष्ठ तन्ममाचक्ष्व पृच्छतः ॥ १ ॥

मार्कण्डेय उवाच ॥ कल्पिते मण्डले स्नातः प्राङ्मुखे च तथा कृते ॥ मण्डलस्य तु शौचार्थं पञ्चगव्यं प्रकल्पयेत् ॥ २ ॥

पयः काञ्चनवर्णाया नीलायाश्च तथा घृतम् ॥ दधि वै कृष्णवर्णायाः श्वेतायाश्च गोमयम् ॥ ३ ॥

गोमूत्रं ताम्रवर्णायाः पञ्चगव्यं प्रकल्पयेत् ॥ अथैतानि समस्तानि कपिलायास्समाहरेत् ॥ ४ ॥

गायत्र्या गृह्य गोमूत्रं रथे अक्षेति गोमयम् ॥ आप्यायस्वेति च क्षीरं दधिक्राण्वेति वै दधि ॥ ५ ॥

तेजोसि शुक्रमित्याज्यं सावित्र्येण कुशोदकम् ॥ अघमर्षणमन्त्रेण संयोज्य प्रणवेन तु ॥ ६ ॥

मण्डलाभ्युक्षणं कार्यं सावित्र्या तदनन्तरम् ॥ पूर्णं क्षीरक्षतोपेतं सर्षपातण्डुलैर्युतम् ॥ ७ ॥

शङ्खे रजते ताम्रे वा कुर्यादर्घ्यं विचक्षणः ॥ रथे अक्षेति मन्त्रेण द्रविणेन तथैव च ॥ ८ ॥

पाद्यस्य कल्पना कार्या द्रुपदायास्तथैव च ॥ हिरण्यवर्णास्त्यमृक्त्रयेण तथैव च ॥ ९ ॥

आपो हिष्ठेति तिसृभिः शन्नोदेवीरिति पार्थिव ॥ जीवदानं ततो देयं मण्डले नृपुङ्गव ॥ १० ॥

अर्घ्योदकं पवित्रञ्च तन्न मन्त्रः प्रकीर्तितः ॥ अग्नेरायुर् सीत्येवमणुमार्कं नराधिप ॥ ११ ॥

जीवस्यावाहनं कार्यं तं च वक्ष्याम्यतः परम् ॥ ओम्¹-आवाहयाम्यहं देवं जीवं सर्वगतं विभुम् ॥ १२ ॥

पञ्चधावस्थितं देहे³ पञ्चधावस्थितं पुनः ॥ पञ्चधावस्थितं भूयः पञ्चधावस्थितं ततः ॥ १३ ॥

वायव्येन तु भावेन पञ्चधावस्थितस्सदा ॥ आग्नेयेन तु भावेन पञ्चधावस्थितस्तथा ॥ १४ ॥

भूतात्मकेन तु तथा पञ्चधावस्थितं प्रभुम् ॥ वारुणेन च भावेन पञ्चधावस्थितं सदा ॥ ॥ १५ ॥

मण्डलेऽस्मिन्ग्रहेश्वरस्त्वं प्रविशाद्य नमोस्तु ते ॥ जीवस्यावाहनं कृत्वा यथावत्पार्थिवोत्तम ॥ १६ ॥

वक्ष्याम्यावाहनाद्ध्यानान्पूज्य स्यावाहनं भवेत् ॥ तद्दक्षिणोः परिमयेत्वमर्घ्यं देयं नराधिप ॥ १७ ॥

ध्रुवा द्यौरिति मन्त्रेण ह्यासनं विनिवेदयेत् ॥ आपोहिष्ठेति तिसृभिः पाद्यं च विनिवेदयेत् ॥ १८ ॥

अर्घ्योदकादाचमनं गायत्र्या विनिवेदयेत् ॥ दधि क्षोदं घृतं चैव मधुपर्कं निवेदयेत् ॥ १९ ॥

तत्र मंत्रत्रयं ज्ञेयं दधि क्राण्वेति पार्थिव ॥ तेजोसि शुक्रमित्येव मधुवाता ऋतायते ॥ २० ॥

मधुपर्कात्क्रमश्चत्थं ततो मात्रां निवेदयेत् ॥ महिष्णवं वै²जपात्रं द्रविणेन सदैव तु ॥ २१ ॥

पशुः कलौ न कर्तव्य इत्याह भगवान्प्रभुः ॥ रथे अक्षेति मन्त्रेण दातव्यमनुलेपनम् ॥ २२ ॥

विभूषणं च तेनेव ततः परतरं नृप ॥ यज्ञोपवीतं तु नवं तथा प्रतिसरं शुभम् ॥ २३ ॥

वस्त्रं पताकां च तथा सावित्रेण निवेदयेत् ॥ पुष्पं पुष्पवतीत्येव धूपं धूपसि ॥ ५७ ॥


१ 'ओम्' इति ख० नास्ति । २ 'बीजम्' इति ख० । ३ 'देहे' इति ख० ।

चाद्यश्च ॥ २४ ॥ धूपमन्त्रमिदं चान्यं निबोध गदतो मम ॥ वनस्पतिरसो दिव्यो गन्ध्याढ्यो गन्ध उत्तमः ॥ २५ ॥ आह्वानं सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ तेजोऽसि शुक्रमित्येव दीपं दद्यान्महीपते ॥ २६ ॥ हिरण्यगर्भमित्यर्घ्यं देयं सर्वं निवेदयेत् ॥ निबोध गदतो मन्त्रमन्न पाननिवेदने ॥ २७ ॥ तृप्तिपुष्टिकं हृद्यमाहारं सर्वदेहिनाम् ॥ गृहाण वरदाचिन्त्य पानं भक्त्या मयोदितम् ॥ २८ ॥ पानेनानेन परमा तृप्तिरस्तु तवानघ ॥ ततस्तर्पय कामैस्तु यजमानं नमोऽस्तु ते ॥ २९ ॥ अयुक्तमन्त्रं श्रुत्वाऽथ ग्रहेभ्यो यः प्रयच्छति ॥ सावित्रं तस्य निर्दिष्टं मन्त्रं पार्थिवसत्तम ॥ ३० ॥ ततोऽभिभवनं कृत्वा दत्वा राजेन्द्र दक्षिणाम् ॥ सावित्रेण तु मन्त्रेण ततः कार्यं विसर्जनम् ॥ ३१ ॥ इमां पूजां समादाय मया भक्त्या निवेदिताम् ॥ पुनरागमनायेह व्रजध्वं नाकमुत्तमम् ॥ ३२ ॥ आधयो व्याधयश्चैव प्रशमं यान्तु सर्वशः ॥ रक्षा चाऽस्तु शिवं चास्तु यजमानस्य सर्वतः ॥ ३३ ॥ गवां शिवं चास्तु तथा द्विजानां राज्ञां शिवं चास्तु तथा प्रजानाम् ॥ आतङ्गर्हीनं जगदस्तु सर्वं दोषाः प्रणाशं सकलाः प्रयान्तु ॥ ३४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहपूजाविधानं नाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥ ॥ वज्र उवाच ॥ एकैकस्येन्दुसूनोस्ते विधानं द्विज पूजने ॥ सर्वग्रहाणां यजने विधानं मम कीर्तय ॥ १ ॥ ॥ मार्कण्डेय उवाच ॥ एकैकस्येन्दुसूनोस्ते विधानं राजसत्तम ॥ सर्वग्रहाणां यजने मण्डलस्य विधिं शृणु ॥ २ ॥ आदावेव नवब्याथं<sup></sup> यागं वक्ष्याम्यतः परम् ॥ प्रागायते तु कर्तव्यमादौ लेखाद्वयं नृप ॥ ३ ॥ तस्योपरि तथा कार्यमपरं त्तुत्तरायतम् ॥ एवं कृते चतुष्पन्नं मध्ये तु चतुरस्रकम् ॥ ४ ॥ ततो ग्रहेभ्यः कर्तव्यं तथा लेखाचतुष्टयम् ॥ ( तँच्छित्तिभ्यः प्रकर्तव्यं तथा रेखा चतुष्टयम् ॥)<sup></sup> एवं कृते सम्भवति भगणं द्वादशात्मकम् ॥५॥ त्रयोदशं तथा तस्य ध्रुवस्थानं तु मध्यमम् ॥ ६ ॥ प्राच्यां दिशि महीनाथ मेषं तु परिकल्पयेत् ॥ तदाद्या गणना कार्या परिशेषेषु राशिषु ॥७॥ रेखाविधानं द्विगुणं शोभार्थं परिकल्पयेत् ॥ राशिस्थानानि सर्वाणि राशिवर्णेन रचयेत्ततः॥८॥राशि वर्णानथो वक्ष्ये यथावदनुपूर्वशः ॥ अरुणश्च सितश्चैव हरितः पाटळस्तथा ॥९॥ आपाण्डुश्च विचित्रश्च कृष्णश्च कपिलस्तथा ॥ पिंगलः कर्बुरो बभ्रुमलिनश्च यथाक्रमम् ॥१०॥ मेषादीनां विनिर्द्दिष्टो वर्णाः पार्थिवसत्तम ॥ आकाशवर्णं कर्तव्यं ध्रुवस्थानं तथैव च ॥११॥ ध्रुवस्थाने महीनाथ देवतातत्कं न्यसेत् ॥ मण्डलेशुक्लवर्णेस्तु दिग्विभागं निबोध मे॥ १२॥ ध्रुवस्य मण्डलं मध्ये प्राग्भागे मण्डलत्रयम् ॥ मण्डलं गगनस्यात्र भागे


१ 'ज्ञेयम्' इति क० ख० ।
२ कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति ।

प्रागुत्तरे भवेत् ॥१४॥ प्राग्भागे च तथा राजन्रमण्डलं ब्रह्मणः स्मृतम् ॥ प्राग्दक्षिणे तथा भागे दिशं पूर्वी प्रकल्पयेत् ॥ १५॥ भागे वै नैऋते कार्यं सुव्रो भूपाल मण्डलम् ॥ शेषस्य च तथा कार्यं प्रतीच्यां दिशि मण्डलम् ॥ १६ ॥ दिगधस्तात्तथा तस्य मण्डलं पश्चिमोत्तरे ॥ महाशख्खाद्राजन्वित्मन्नराशौ व्यवस्थितः ॥ १६॥ मण्डलं तस्य कर्तव्यं तस्मिन्नेव यथाविधि ॥ न्यासं कार्यं महेशानं देवताभिः सहानघ ॥ १७॥ आदित्यास्तत्त्वमे राशौ केतोः कार्यं तु मण्डलम् ॥ राशौ सवर्णे तद्वर्णं यस्य स्यान्मण्डलं नृप ॥१८॥ उत्थायः परिवित्तेस्त्वं गोनान्येन पार्थिव ॥ गन्धर्व्वर्णयुता रङ्गाः कर्तव्या भूतिमिच्छता ॥ १९॥ राशिचक्रं समन्तन्तु रेखया परिवारयेत् ॥ नक्षत्राणां ततः कार्यो न्यासः पार्थिवसत्तम ॥२०॥ राशीराशौ यथास्थानं रेखया परिवारितम् ॥ राशौ राशावतो वक्ष्ये नक्षत्राणां समाश्रयम् ॥२१॥ अश्विनी भरणी चैव कृत्तिकांशं चतुर्थकम् ॥ मेषराशौ विनिद्दिष्टं नित्यं पार्थिवसत्तम ॥ २२ ॥ पादत्रयं कृत्तिकानां रोहिणी सकला तथा ॥ इल्वलानां तथैवार्धं ज्ञेयं वृषसमाश्रयम् ॥ २३ ॥ इल्वलार्द्धं तथैवार्द्रा ह्यादित्याश्चाण्डपद्वयम् ॥ नित्यमेव समुद्दिष्टं मिथुनस्य समाश्रयम् ॥ २४ ॥ पादं पुनर्वसोः पुष्यं सार्पं कर्कटकाश्नयम् ॥ पित्र्यं भाग्यं तथाऽर्य्यम्णं प्रथमं चरणं तथा ॥ २५ ॥ सिंहराशौ विनिर्दिष्टं नित्यं प्राथिवसत्तम ॥ पादत्रयमथार्य्यम्णं हस्तश्वित्रात्रयमेव च ॥ २६॥ कन्याराशौ विनिर्दिष्टं नित्यं पार्थिवसत्तम ॥ चित्रार्धमथ वायव्यं विशाखाचरणत्रयम् ॥ २७ ॥ तुलाराशौ विनिर्दिष्टं मुनिभिस्तत्त्वदर्शिभिः ॥ विशाखाचरणं मैत्रं शाक्रं वृश्चिकमे स्मृतम् ॥ २८ ॥ मूलमाप्यं तथा पादं वैश्वदेवस्य धन्विनि ॥ पादत्रयं वैश्वदेवाजन्नेवर्णमेव च ॥ २९ ॥ धनिष्ठाधं च मकरे नित्यमेव प्रकीर्तितम् ॥ धनिष्टार्धं शतभिषगजापादगणत्रयम् ॥ ३० ॥ कुम्भराशौ विनिर्दिष्टं सततं पार्थिवोत्तम ॥ पादमाजस्य सकलं चार्विष्ण्वन्त्यं नराधिप ॥ ३१ ॥ पौष्णन्तु कथितं मीने मुनिभिस्तत्त्वदर्शिभिः ॥ भचक्रपूजने राजन्नक्षत्रस्य पृथक्पृथक् ॥ ३२ ॥ राशिचक्रस्य बाह्ये तु बर्हिकंतारगं न्यसेत् ॥ प्रागुक्तवर्णैर्भूपाळ न्यासः कार्यो यथाविधि ॥ ३३ ॥ ताराचक्रस्य विन्यासं रेखया परिवारयेत् ॥ नक्षत्रदेवतान्यास बहिः कार्यं समन्ततः ॥ ३४ ॥ यथा नक्षत्रस्वामी स्याद्वर्णैः पृथक्पृथक् ॥ तस्यापि रेखा कर्तव्या वृत्ता चाप्यनुमण्डलम ॥ ३५ ॥ रेखाबाद्येन विन्यास दिग्गीशानां तु कारयेत् ॥ दिशश्च पार्थिवश्रेष्ठ यथावदनुपूर्वशः ॥ ३६ ॥ स्वाश्रयाक्षसमं वर्णं दिगीशानां तु कारयेत ॥ उत्तरायां च कर्तव्यं धनदस्य च मण्डलम् ॥३७॥ रक्तमवर्णं प्रयत्नेन दिशो वर्णमतः शृणु ॥ उत्तरा तु भवेच्छुक्ला


१ 'मेषस्य' इति क० ।

रक्ता प्राची प्रकीर्त्तिता ॥ ३८ ॥ दक्षिणा पीतवर्णा स्यात्कृष्णा ज्ञेया च पश्चिमा ॥ पद्मवर्णा तथा ज्ञेया स्यात्पूर्वदक्षिणा ॥ ३९ ॥ पालाशा च विनिर्दिष्टा तथा दक्षिणपश्चिमा ॥ नीलोत्पलसवर्णा तु वायव्या परिकीर्तिता ॥४०॥ शुक्लवर्णा तथा ज्ञेया ऐशानी तत्त्वदर्शिभिः॥ दिक्मण्डलं तु तद्वाह्येल्लिख्यैवा परिवारेयेत् ॥ ४१ ॥ वृत्तया वेष्टयेद्वृत्तौ लेखया चतुरस्रया ॥ तन्मध्यं शङ्खपद्माद्यैर्मङ्गलैरुपशोभयेत् ॥ ४२ ॥ लेखाविधाने द्विगुणे सर्वमेव प्रकल्पयेत् ॥ मण्डलस्य तु कोणेषु हृद्कुम्भांन्नवान्दृढान् ॥ ४३ ॥ फलपल्लवसंछन्नान्पुष्पादिसंयुतान् ॥ चतुरो विन्यसेद्दिग्द्वावित्यमेव विचक्षणः ॥ ४४ ॥ लेखासु विन्यसेद्राजन्पताकाश्च ध्वजाँस्तथा ॥ छत्राणि च सवर्णानि ग्रहेन्द्राणां पृथ- क्पृथक् ॥ ४५ ॥ स्थानन्तु विज्ञाय यथावदत्र कार्यं यथा मण्डलक्रमप्रमाणम् ॥ यथा महत्ता नृप मण्डलस्य तथातथा वृद्धिसुपैति कर्ता ॥ ४६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० मण्डलकल्पना नाम चतुर्नवतितमोऽध्यायः ॥९४॥ मार्कण्डेय उवाच ॥ आवाहनान्यतो वक्ष्ये सर्वेषां पार्थिवोत्तम ॥ सर्वस्यावाहनस्यान्ते श्लोकोऽयं परिकीर्त्यते ॥ १ ॥ मण्डले सम्प्रविश्यास्मिन्मया भक्त्या निवेदितम् ॥ इदमर्घ्यमिदं पाद्यं धूपोऽयं प्रतिगृह्यताम् ॥ २ ॥ ध्रुवमावाहयिष्यामि सर्वग्रहगणेश्वरम् ॥ निरुद्धं भ्राम्यते येन भचक्रं वातरज्जुभिः ॥ ३ ॥ एहि मे ध्रुव देवेश केशवार्चाऽन्विताविक्रम ॥ सर्वग्रहगणाध्यक्ष सर्वलोकनमस्र्कृत ॥ ४ ॥ आवाहयिष्याम्याकाशं विमानशतसम्पिण्डितम् ॥ तृतीयं देवदेवस्य पदं विष्णोर्महात्मनः ॥ ५ ॥ एहि मे भगवन्सौम्य निरालम्ब नभस्तल ॥ अप्रमेयमतिगम्भीर नक्षत्रग्रहमण्डित ॥ ६ ॥ आवाहयाम्यहं देवं ब्रह्माणं जगतां पतिम् ॥ जगतोऽस्य समुत्पत्तिस्थितिसंहारकारकम् ॥ ७ ॥ एहि सर्वप्रजाध्यक्ष पद्मयोने चतुर्मुख ॥ वेदमूर्ते तदाधार कालनिर्माण तत्पर ॥ ८ ॥ ऊर्द्धमावाहयिष्यामि ह्यनन्तां महतीं दिशम् ॥ अप्रमेयां निरालम्बां चन्द्रसूर्य्यांशुवर्जिताम् ॥ ९ ॥ आगच्छेह महाभागे सततं सिद्धसेविते ॥ अनन्ते विपुले देवि निर्मले हितकारिणी ॥ १० ॥ पृथ्वीमावाहयिष्यामि सर्वसत्त्वहिते रताम् ॥ धरां भूमिं क्षमां क्षोणीं वरदां भूतधारिणीम् ॥ ११ ॥ एहि मे वसुधे देवि वराहेण समुद्धृते ॥ सर्वबीजधरे भद्रे सर्वभूतपहारिणि ॥ १२ ॥ शेषमावाहयिष्यामि महीमण्डल- धारणम् ॥ फणावलीरत्नजालमरीचिविकसोञ्ज्वलम् ॥ १३ ॥ एहि शेष महाभाग ह्यनन्तादिकेशव ॥ आह्वयो त्वं तवुस्तस्य विष्णोरमितते- जसः ॥ १४ ॥ आवाहयाम्यधस्तात्तु दिशं शेषेण पालिताम् ॥ नागदैत्योरगगणैस्सततं च निषेविताम् ॥ १५ ॥ एहि मे रत्नबाहुल्ये नित्यं शेषेण पालिते ॥ गम्भीरे विपुले भीमे बहुस्थानाभिभाण्डिते ॥ १६ ॥ आवाहयिष्ये वरदं देवेशं जातवेदसम् ॥ वेदसूक्ति-

प्र० खं०
अ० १५
॥ ५१ ॥

तदाधारं देवदेवं हुताशनम् ॥ १७ ॥ एह्येहि सर्वदेवेश सर्वदेवसुखाच्युत ॥ सर्वत्रस्थ महाभाग सर्वभूतहिते रत ॥ १८ ॥ आवाहयिष्ये
वरदं सहस्रांशुं दिवाकरम् ॥ तेजोमूर्तिं दुराधर्षं भक्तानामभयप्रदम् ॥ १९ ॥ एहि देव जगन्नाथ ऋक्सामयजुषां पते ॥
त्रैलोक्यमण्डलेदीप सर्वव्याधिविनाशन ॥ २० ॥ आवाहयाम्यहं देवमादित्यसुदकोरशम् ॥ स्निग्धवैदूर्यसङ्काशं वरुणं सुमहाद्युतिम् ॥ २१ ॥
एहि देव जलाध्यक्ष यादोगणमहेश्वर ॥ नागदैत्योरगगणैस्सततं सेविताच्युत ॥ २२ ॥ आवाहयाम्यहं चन्द्रं शीतांशुममृतप्रभम् ॥
ओषधीनां द्विजाऽध्यक्षं नयनानन्दकारकम् ॥ २३ ॥ एहि मे भगवंश्चन्द्र पाहि मे मृगलान्छन ॥ भक्तोकुकम्पिनस्सततं सर्वतक्षत्रपूजित ॥ २४ ॥
स्कन्दमावाहयिष्यामि षण्मुखं वरदं शिशुम् ॥ द्वारिसेनानथेनं पार्वत्यानन्दवर्द्धनम् ॥ २५ ॥ एहि देवतमाराध्य महिषासुरतस्कर ॥
कार्तिक्य जगन्नाथ मयूरवरवाहन ॥ २६ ॥ भौममावाहयिष्यामि तेजोमूर्त्ति दुरासदम् ॥ रुद्रसूतिमानंदम्यवकं रुद्रियसप्रभम् ॥ २७ ॥
एहि मे भगवन्भौम अङ्गारक महाप्रभ ॥ त्वयि सर्व समायुक्तं भूतलेस्मिन्सुभाशुभम् ॥ २८ ॥ विष्णुमावाहयिष्यामि शङ्खचक्रगदाधरम् ॥
अतसीकुसुमश्यामं पीतवाससमच्युतम् ॥ २९ ॥ एहि मे देवदेवेश प्रजानिर्माणकारक ॥ नारायण सुरूपार महाशार्ङ्गधुर्धर ॥ ३० ॥
बुधमावाहयिष्यामि बोधकं जगदीश्वरम् ॥ चान्द्रि ग्रहगणाध्यक्षं तेजोमूर्त्तिं दुरासदम् ॥ ३१ ॥ एहि शीतांशुजाचिन्त्य जगद्विष्णो जनार्दन ॥
महाबल महासत्त्व महावाहो महाद्युते ॥ ३२ ॥ शक्रमावाहयिष्यामि देवं सुरगणेश्वरम् ॥ वज्रपाणिं महाबाहुं गोब्राह्मणहिते रतम् ॥ ३३ ॥
एहि देव सहस्राक्ष दैत्यविबलसूदन ॥ ऐरावतस्थ धर्मज्ञ शचीहृदयनन्दन ॥ ३४ ॥ जीवमावाहयिष्यामि देवर्षिपुरोहितम् ॥
बृहस्पतिं वृद्धक्षं वेदवेदाङ्गपारगम् ॥ ३५ ॥ एहि जीव महाभाग जीवभूत महीतले ॥ सत्यबुद्धिस्त्वयावत्ता मततं भूमिवर्धन ॥ ३६ ॥ देवीं
मावाहयिष्यामि पार्वतीं वरदाशुभाम् ॥ हरस्य दयितां भार्या चार्वाङ्गीं प्रतिवर्धिनीम् ॥ ३७ ॥ एहि देवि जगद्धात्रे मनाहृदयनन्दिनि ॥
पवित्रे वरदे सौम्ये नित्यं भक्तजनप्रिये ॥ ३८ ॥ शुक्रमावाहयिष्यामि भार्गवं जगदीश्वरम् ॥ नित्यं सर्वजनाध्यक्षं तपसा द्योतितप्रभम् ॥ ३९॥
एहि शुक्र महाभाग षोडशार्चिष्वरप्रद ॥ प्रसुस्त्वं वरदाचिन्त्य वर्षावर्ष्यस्य निग्रह ॥ ४० ॥ आवाहयाम्यहं देवं प्रजाध्यक्षमकल्मषम् ॥
भक्तानुकम्पिनं देवं प्रजानिर्माणकारकम् ॥ ४१ ॥ एहि देव प्रजाध्यक्ष प्रजानिर्माणकारक ॥ त्वयि देव समायुक्तं प्रजानमभवोद्भवम् ॥ ४२ ॥
एहि मे भगवन्ब्रह्मन्प्रजापतिमहाद्युते ॥ सौरिमावाहयिष्यामि शनैश्चारिणमच्युतम् ॥ ४३ ॥ तपस्विनमनाधृष्यं भक्तानामभयप्रदम् ॥ एहि

वि० ध०
॥ ५१ ॥

तीक्ष्णांशुजाचिन्त्य भावाभावप्रदर्शक ॥ ४४ ॥ त्वयि सर्वं समायत्तं राज्ञां भूमौ शुभाशुभम् ॥ आवाहयाम्यहं देवं गजवक्रं गणेश्वरम् ॥ ४५ ॥
विघ्नेशं विघ्नहर्तारं पार्वतीहृदयप्रियम् ॥ एहि देव गणाध्यक्ष लब्धोदर महाभुज ॥ ४६ ॥ कार्यसिद्धिः समायत्ता त्वयि सर्वेश देहिनाम् ॥ राहुं
मावाहयिष्यामि दैत्येशं महताङ्गतम् ॥ ४७ ॥ केशवात्वरं वीर तपसा दग्धकिल्विषम् ॥ एहीहि दैत्यप्रवर वरदाचिन्त्यविक्रम ॥ ४८ ॥
तपोमूर्ते दुराधर्ष विपरीतचराम्बरै ॥ आवाहयाम्यहं देवं विश्वकर्माणमच्युतम् ॥ ४९ ॥ सर्वासां देवतानां तु सदा शिल्पप्रवर्तकम् ॥ एहि
देववराचिन्त्य सर्वशिल्पप्रवर्तक ॥ ५० ॥ त्वयि सर्वैवं सर्वैषां कर्मणामाश्रिता गतिः ॥ केतुमावाहयिष्यामि केतुं सर्वदिवौकसाम् ॥ ५१ ॥
ब्रह्मण्यं सर्वधर्मज्ञं भक्तानामभयप्रदम् ॥ धूमकेतो इहाभ्येहि हुताशनसमप्रभ ॥ ५२ ॥ शिखाकरालविक्षिप्त पूजिताघविनाशन ॥ वेदोरावाह्यं
प्रोक्तं पूर्वमेव मयानघ ॥ ५३ ॥ आवाहयिष्यामि शुभां कृत्तिकां देवपूजिताम् ॥ एहि साधारणे देवि ज्येष्ठदक्षसुते शुभे ॥ ५४ ॥ प्रजापते
स्तथा प्रोक्तं रोहिण्याः शृणु पार्थिव ॥ आवाहयामि वरदां रोहिणीं चन्द्रवल्लभाम् ॥ ५५ ॥ एहि रोहिणि धर्मज्ञे ध्रुवकर्मसु शोभने ॥ चन्द्रस्य
वाहनं प्रोक्तमित्यलाया निबोध मे ॥ ५६ ॥ आवाहयामि वरदामिल्वलां शशिवल्लभाम् ॥ ५८ ॥ आर्द्रामावाहयिष्यामि नक्षत्रं बाहुसंज्ञिकम् ॥
रुद्रमावाहयिष्यामि त्रिनेत्रं शूलपाणिनम् ॥ एहि शङ्कर सर्वात्मन्महादेव गणेश्वर ॥ ५८ ॥
एह्यार्दे चारुसर्वाङ्गि दारुणे रुद्रसम्मते ॥ ५९ ॥ आवाहयिष्याम्यदितिं तपसा दग्धकिल्विषाम् ॥ ६१ ॥ आदित्येनापि धर्मज्ञे एहि देवि महाप्रभे ॥
॥ ६० ॥ ऋक्षमावाहयिष्यामि धर्मज्ञं तु पुनर्वसुम् ॥ पुनर्वसो इहागच्छ चरकर्मप्रसादक ॥ ६१ ॥ जीवस्यावाहनं प्रोक्तं पुष्यस्याथ प्रचक्षते ॥
पुष्यमावाहयिष्यामि नक्षत्रं क्षिप्रसंज्ञिकम् ॥ ६२ ॥ एहि पुष्य महाभाग पापं वर्षय सर्वतः ॥ सर्पानावाहयिष्यामि त्रैलोक्यान्तगोचरान् ॥
॥ ६३ ॥ आयान्तु सर्वतः सर्पाः सौम्यरूपा भवन्तु च ॥ आवाहयिष्याम्याश्लेषां भक्तानां श्रीविवर्द्धनाम् ॥ ६४ ॥ आश्लेषे त्वमिहाभ्येहि
दारुणे विजयप्रदे ॥ पितॄनावाहयिष्यामि मृत्युमूर्तिधरानहम् ॥ ६५ ॥ आयान्तु पितरश्शीघ्रं सुधाकव्यसुजोऽव्ययाः ॥ मघामावाह-
यिष्यामि उग्रनक्षत्रमञ्जसा ॥ ६६ ॥ एहि मे शुभगे देवि मेधेऽडवनिपुद्ने ॥ भगमावाहयिष्यामि पूर्वफल्गुनीसंज्ञितम् ॥ ६७ ॥
एहि भाग्ये महाभागे उग्रकर्मप्रसादिके ॥ आवाहयिष्याम्यथभगन्मादित्यं तेजसां निधिम् ॥ ६८ ॥ अ१र्यमस्त्वं समभ्येहि भक्त-


१ 'सर्वार्थ' इति क० ।

वि० पृ० ॥ ६० ॥ प्र० सं० अ० १६

पातकनाशन ॥ ऋक्षमावाहयिष्यामि चोत्तराफाल्गुनीं शुभाम् ॥ ६९ ॥ एहि त्वं सुभगे देवि ध्रुवे सर्वाङ्गसुन्दरि ॥ आया- ह्यहं मया प्रोक्तं सवितुद्दीप्ततेजसः ॥ ७० ॥ हस्तमावाहयिष्यामि सावित्रं क्षिप्रमञ्जसा ॥ एहि सावित्र धर्मज्ञः भक्तानां पापनाशन ॥ ७१ ॥ आवाहयाम्यहं देवं त्वष्टारसंमितद्युतिम् ॥ एहि मे भगवाँस्त्वष्ट्रः प्रजापालनतत्पर ॥ ७२ ॥ चित्रामावाहयिष्यामि चित्ररूपां मनोहराम् ॥ एहि मे वरदे चित्रे मृदुकर्मप्रसाधिनि ॥ ७३ ॥ वायुमावाहयिष्यामि सर्वगं दीप्ततेजसम् ॥ देव वायो त्वमभ्येहि सर्वभूतजगत्प्रिय ॥ ७४ ॥ स्वातिमावाहयिष्यामि नित्यसुन्दरमार्गगाम्² ॥ देवि स्वाते त्वमभ्येहि चरकर्मसु शोभने ॥ ७५ ॥ आवाहयिष्यामीन्द्राग्नी सहितौ दीप्ततेजसौ ॥ इन्द्राभ्येहि जगन्नाथ संयुगे विजयप्रद ॥ ७६ ॥ ऋक्षमावाहयिष्यामि विशाखां दीप्ततेजसम् ॥ विशाखे त्वमिहाभ्येहि देवि साधारण शोभने¹ ॥ ७७ ॥ मित्रमावाहयिष्यामि देवं दीप्तांशुसंज्ञितम् ॥ एहि मित्र महाभाग भक्तानामभयप्रद ॥ ७८ ॥ ऋक्षमावाहयिष्यामि ह्यनुराधां वरप्रदाम् ॥ अनुराधे त्वमभ्येहि मृदुकर्मसु शोभने ॥ ७९ ॥ शक्रस्यावाहनं प्रोक्तं ज्येष्ठायाः शृणु पार्थिव ॥ ज्येष्ठामावाहयिष्यामि नक्षत्रं शक्रदैवतम् ॥ ८० ॥ ज्येष्ठे देवि त्वमभ्येहि दारुणे चारुलोचने ॥ देवमावाहयिष्यामि देवं निर्ऋतिजं प्रभुम् ॥ ८१ ॥ एहि देव विरूपाक्ष महाबलपराक्रम ॥ मूलमावाहयिष्यामि नक्षत्रं दारुणं महत् ॥ ८२ ॥ एहि मूले महाभाग भक्तानामभयप्रद ॥ अपस्त्वावाहयिष्यामि सर्वगा वरदाः शिवाः ॥ ॥ ८३ ॥ आपस्त्वत्रायान्तु वरदाः पवित्रा मङ्गलावहाः ॥ ऋक्षमावाहयिष्यामि पूर्वाषाढामितौजसम् ॥ ८४ ॥ एहि त्वमभये वरदे चाषाढे पूर्व- पूर्वकै ॥ विश्वान्वावाहयिष्यामि देवानद्भुततेजसः ॥ ८५ ॥ आयान्तु वरदाः सर्वे विश्वेदेवा महाबलाः ॥ ऋक्षमावाहयिष्यामि उत्तराषाढामिति तव ॥ ८६ ॥ एहि त्वमुत्तराषाढे सर्वकर्मसु शोभने ॥ ब्रह्मण आवाहनं प्रोक्तमभिजिति शृणु हे प्रभो ॥ ८७ ॥ ऋक्षमावाहयिष्यामि यत्तदभिजित्- मुच्यते ॥ एहि विष्णोर्वरिष्ठाद्य क्षिप्रकर्मप्रसाधक ॥ ८८ ॥ विष्णोरावाहनं प्रोक्तं श्रवणस्य निबोध मे ॥ ऋक्षमावाहयिष्यामि श्रवणं सर्वका- मदम् ॥ ८९ ॥ श्रवण त्वं समभ्येहि चरकर्मप्रसाधक ॥ वसूनावाहयिष्यामि देवानष्टौ वरप्रदान् ॥ ९० ॥ आयान्तु वरदा देवा वसवः पाप- नाशनाः ॥ धनिष्ठामावाहयिष्यामि नक्षत्रं राशिनायकम्³ ॥ ९१ ॥ धनिष्ठे त्वमिहागच्छ चरकर्मप्रसाधके ॥ आवाहनं मया प्रोक्तं वरुणस्य महा- त्मनः ॥ ९२ ॥ ऋक्षमावाहयिष्यामि नाम्ना शतभिषं शुभम् ॥ आगच्छ त्वं शतभिष चरकर्मसु शोभने ॥ ९३ ॥ अजैकपादं वरदं रुद्रमावाह-

॥ ६० ॥


१ 'शुभे' इति ख० । २ 'भक्तियुक्ताम्' इति ख० । ३ 'राशिबहुलम्' इति ख० ।