विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 155, कुल 1001 में से
संदर्भ में पढ़ेंमार्कण्डेय उवाच ॥ जन्माश्रितस्त्रिपञ्चश्च सप्तमो दशमस्तथा ॥ एकादशः शशी येषां तदा तेषां शुभं भवेत् ॥ २॥ जन्मून्यथ चतुर्थे च साष्टमे दशमे तथा ॥ एकादशे बुधो येषां तेषामपि शुभं वदेत् ॥ ३ ॥ द्विषट्त्रिभगतेा जीवस्सप्तमो नवमस्तथा ॥ एकादशस्तथा ह्येषां तेषामपि शुभं वदेत् ॥ ॥ ४ ॥ षष्ठसप्तमगः शुक्लो दशमे न च शोभनः ॥ द्वादशश्च तथा ह्येषां तेषां पीडां विनिर्दिशेत् ॥ ५ ॥ तृतीये दशमे षष्ठे तथा चैकादशे शुभाः ॥ सौरारातीक्ष्णकिरणा येषां तेषां शुभं वदेत् ॥ ६ ॥ यस्मिन्हि जननं यस्य जन्मक्षं तस्य तत्स्मृतम् ॥ चतुर्थं मानसं तस्मा- द्दशमं कर्मसंज्ञितम् ॥ ७ ॥ संघांतकं षोडशं स्यात्सासुदायिकम् ॥ वैनाशिकं तु नक्षत्रं कर्मक्षं यत्त्रयोदशम् ॥ ८ ॥ षण्णक्षत्रस्तु पुरुषस्त्वंः प्रोक्तो महीपते ॥ राजा च नवनक्षत्रो नक्षत्रत्रितयं शृणु ॥ ९ ॥ नित्यमभ्यधिकं पञ्च्यः पार्थिवस्य नृपोत्तम ॥ देशाभिषेकनक्षत्रौ जातिनक्षत्रमेव च ॥ १० ॥ जात्याश्रितानि वक्ष्यामि नक्षत्राणि तवानघ ॥ पूर्वत्रयमथाम्नेयं ब्राह्मणानां प्रकीर्तितम् ॥ ११ ॥ उत्तरात्रितयं पुष्यं क्षत्रियाणां प्रकीर्तितम् ॥ पौष्णं मैत्रं तथा पित्र्यं प्राजापत्यं विशां स्मृतम् ॥ १२ ॥ आदित्यमाश्विनं हस्तः शूद्राणामभिजि- त्तथा ॥ सार्पं विशाखा याम्यं च वैष्णवं च नराधिप ॥ १३ ॥ प्रतिलोमभवानां च सर्वेषां परिकीर्तितम् ॥ ईदृहे ह्यर्हतानिस्त्यान्जन्मक्ष- च्चोपतापिते ॥ १४ ॥ कर्मक्ष कर्मणां हानिः पीडा मनसि मानसे ॥ मूर्तिद्रविणबन्धूनां हानिसंघातिके हते ॥ १५ ॥ संतेते सानुदायक्ष मित्रभृत्यार्थसंक्षयः ॥ वैनाशिके विनाशस्स्याद्देहद्रविणसंपदाम् ॥ १६ ॥ पीडिते चाभिषेकक्षं राज्यभ्रंशं विनिर्दिशेत् ॥ देशक्ष पीडिते पीडा देशस्य च पुरस्य च ॥ १७ ॥ पीडिते जातिनक्षत्रे राज्ञो व्याधिं विनिर्दिशेत् ॥ १८ ॥ ग्रहसंजातां समावाप्य पीडां पूजा तु कार्या विधिना स्वकेनेन ॥ ततश्शुभं विन्दति राजसिंह विद्रुतपापः पुरुषस्तदैव ॥ १९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० प्रतिपुरुषाङ्गाभिनिर्देशो नाम सप्ताशीतितमोऽध्यायः ॥ ८७ ॥ वज्र उवाच ॥ ग्रहाणां भृगुशार्दूल नक्षत्राणां तथैव च ॥ पूजने विधिमाचक्ष्व तत्र मे संशयो महान् ॥ १ ॥ मार्कण्डेय उवाच ॥ ग्रहस्याधिपतिः कार्यों नित्यं मण्डळके बुधैः ॥ नक्षत्रऋन्दसहितस्तथा सावित्पतिर्नृप ॥ २ ॥ संख्याता तारकास्तस्य यथावन्मनुजेश्वर ॥ तेषां तारकसंख्यानं निबोध गदतो मम ॥ ३ ॥ रौद्रं पुष्यं तथा त्वाष्ट्रं वायव्यं वारुणं तथा ॥ पौष्णं च पार्थिवश्रेष्ठ कथितं त्वेकतारकम् ॥ ४ ॥ द्वितारं फल्गुनीयुग्मं तथा भाद्रपदाद्वयम् ॥ आदित्यं च तथा मूलं चैन्द्राग्नं चाश्विनं तथा ॥ ५ ॥ त्रितारं भरणी सौम्यमैन्द्रं
१ 'सांघातिकम्' इति ख० । २ 'सप्तसमुदयं स्तहम्' इति ख० । ३ 'वैनाशिकम्' इति ख० । ४ 'समुदयं' इति ख० ।