विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 165, कुल 1001 में से
संदर्भ में पढ़ेंरक्ता प्राची प्रकीर्त्तिता ॥ ३८ ॥ दक्षिणा पीतवर्णा स्यात्कृष्णा ज्ञेया च पश्चिमा ॥ पद्मवर्णा तथा ज्ञेया स्यात्पूर्वदक्षिणा ॥ ३९ ॥ पालाशा च विनिर्दिष्टा तथा दक्षिणपश्चिमा ॥ नीलोत्पलसवर्णा तु वायव्या परिकीर्तिता ॥४०॥ शुक्लवर्णा तथा ज्ञेया ऐशानी तत्त्वदर्शिभिः॥ दिक्मण्डलं तु तद्वाह्येल्लिख्यैवा परिवारेयेत् ॥ ४१ ॥ वृत्तया वेष्टयेद्वृत्तौ लेखया चतुरस्रया ॥ तन्मध्यं शङ्खपद्माद्यैर्मङ्गलैरुपशोभयेत् ॥ ४२ ॥ लेखाविधाने द्विगुणे सर्वमेव प्रकल्पयेत् ॥ मण्डलस्य तु कोणेषु हृद्कुम्भांन्नवान्दृढान् ॥ ४३ ॥ फलपल्लवसंछन्नान्पुष्पादिसंयुतान् ॥ चतुरो विन्यसेद्दिग्द्वावित्यमेव विचक्षणः ॥ ४४ ॥ लेखासु विन्यसेद्राजन्पताकाश्च ध्वजाँस्तथा ॥ छत्राणि च सवर्णानि ग्रहेन्द्राणां पृथ- क्पृथक् ॥ ४५ ॥ स्थानन्तु विज्ञाय यथावदत्र कार्यं यथा मण्डलक्रमप्रमाणम् ॥ यथा महत्ता नृप मण्डलस्य तथातथा वृद्धिसुपैति कर्ता ॥ ४६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० मण्डलकल्पना नाम चतुर्नवतितमोऽध्यायः ॥९४॥ मार्कण्डेय उवाच ॥ आवाहनान्यतो वक्ष्ये सर्वेषां पार्थिवोत्तम ॥ सर्वस्यावाहनस्यान्ते श्लोकोऽयं परिकीर्त्यते ॥ १ ॥ मण्डले सम्प्रविश्यास्मिन्मया भक्त्या निवेदितम् ॥ इदमर्घ्यमिदं पाद्यं धूपोऽयं प्रतिगृह्यताम् ॥ २ ॥ ध्रुवमावाहयिष्यामि सर्वग्रहगणेश्वरम् ॥ निरुद्धं भ्राम्यते येन भचक्रं वातरज्जुभिः ॥ ३ ॥ एहि मे ध्रुव देवेश केशवार्चाऽन्विताविक्रम ॥ सर्वग्रहगणाध्यक्ष सर्वलोकनमस्र्कृत ॥ ४ ॥ आवाहयिष्याम्याकाशं विमानशतसम्पिण्डितम् ॥ तृतीयं देवदेवस्य पदं विष्णोर्महात्मनः ॥ ५ ॥ एहि मे भगवन्सौम्य निरालम्ब नभस्तल ॥ अप्रमेयमतिगम्भीर नक्षत्रग्रहमण्डित ॥ ६ ॥ आवाहयाम्यहं देवं ब्रह्माणं जगतां पतिम् ॥ जगतोऽस्य समुत्पत्तिस्थितिसंहारकारकम् ॥ ७ ॥ एहि सर्वप्रजाध्यक्ष पद्मयोने चतुर्मुख ॥ वेदमूर्ते तदाधार कालनिर्माण तत्पर ॥ ८ ॥ ऊर्द्धमावाहयिष्यामि ह्यनन्तां महतीं दिशम् ॥ अप्रमेयां निरालम्बां चन्द्रसूर्य्यांशुवर्जिताम् ॥ ९ ॥ आगच्छेह महाभागे सततं सिद्धसेविते ॥ अनन्ते विपुले देवि निर्मले हितकारिणी ॥ १० ॥ पृथ्वीमावाहयिष्यामि सर्वसत्त्वहिते रताम् ॥ धरां भूमिं क्षमां क्षोणीं वरदां भूतधारिणीम् ॥ ११ ॥ एहि मे वसुधे देवि वराहेण समुद्धृते ॥ सर्वबीजधरे भद्रे सर्वभूतपहारिणि ॥ १२ ॥ शेषमावाहयिष्यामि महीमण्डल- धारणम् ॥ फणावलीरत्नजालमरीचिविकसोञ्ज्वलम् ॥ १३ ॥ एहि शेष महाभाग ह्यनन्तादिकेशव ॥ आह्वयो त्वं तवुस्तस्य विष्णोरमितते- जसः ॥ १४ ॥ आवाहयाम्यधस्तात्तु दिशं शेषेण पालिताम् ॥ नागदैत्योरगगणैस्सततं च निषेविताम् ॥ १५ ॥ एहि मे रत्नबाहुल्ये नित्यं शेषेण पालिते ॥ गम्भीरे विपुले भीमे बहुस्थानाभिभाण्डिते ॥ १६ ॥ आवाहयिष्ये वरदं देवेशं जातवेदसम् ॥ वेदसूक्ति-