विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 163, कुल 1001 में से
संदर्भ में पढ़ेंचाद्यश्च ॥ २४ ॥ धूपमन्त्रमिदं चान्यं निबोध गदतो मम ॥ वनस्पतिरसो दिव्यो गन्ध्याढ्यो गन्ध उत्तमः ॥ २५ ॥ आह्वानं सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ तेजोऽसि शुक्रमित्येव दीपं दद्यान्महीपते ॥ २६ ॥ हिरण्यगर्भमित्यर्घ्यं देयं सर्वं निवेदयेत् ॥ निबोध गदतो मन्त्रमन्न पाननिवेदने ॥ २७ ॥ तृप्तिपुष्टिकं हृद्यमाहारं सर्वदेहिनाम् ॥ गृहाण वरदाचिन्त्य पानं भक्त्या मयोदितम् ॥ २८ ॥ पानेनानेन परमा तृप्तिरस्तु तवानघ ॥ ततस्तर्पय कामैस्तु यजमानं नमोऽस्तु ते ॥ २९ ॥ अयुक्तमन्त्रं श्रुत्वाऽथ ग्रहेभ्यो यः प्रयच्छति ॥ सावित्रं तस्य निर्दिष्टं मन्त्रं पार्थिवसत्तम ॥ ३० ॥ ततोऽभिभवनं कृत्वा दत्वा राजेन्द्र दक्षिणाम् ॥ सावित्रेण तु मन्त्रेण ततः कार्यं विसर्जनम् ॥ ३१ ॥ इमां पूजां समादाय मया भक्त्या निवेदिताम् ॥ पुनरागमनायेह व्रजध्वं नाकमुत्तमम् ॥ ३२ ॥ आधयो व्याधयश्चैव प्रशमं यान्तु सर्वशः ॥ रक्षा चाऽस्तु शिवं चास्तु यजमानस्य सर्वतः ॥ ३३ ॥ गवां शिवं चास्तु तथा द्विजानां राज्ञां शिवं चास्तु तथा प्रजानाम् ॥ आतङ्गर्हीनं जगदस्तु सर्वं दोषाः प्रणाशं सकलाः प्रयान्तु ॥ ३४ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० ग्रहपूजाविधानं नाम त्रिनवतितमोऽध्यायः ॥ ९३ ॥ ॥ वज्र उवाच ॥ एकैकस्येन्दुसूनोस्ते विधानं द्विज पूजने ॥ सर्वग्रहाणां यजने विधानं मम कीर्तय ॥ १ ॥ ॥ मार्कण्डेय उवाच ॥ एकैकस्येन्दुसूनोस्ते विधानं राजसत्तम ॥ सर्वग्रहाणां यजने मण्डलस्य विधिं शृणु ॥ २ ॥ आदावेव नवब्याथं<sup>१</sup> यागं वक्ष्याम्यतः परम् ॥ प्रागायते तु कर्तव्यमादौ लेखाद्वयं नृप ॥ ३ ॥ तस्योपरि तथा कार्यमपरं त्तुत्तरायतम् ॥ एवं कृते चतुष्पन्नं मध्ये तु चतुरस्रकम् ॥ ४ ॥ ततो ग्रहेभ्यः कर्तव्यं तथा लेखाचतुष्टयम् ॥ ( तँच्छित्तिभ्यः प्रकर्तव्यं तथा रेखा चतुष्टयम् ॥)<sup>२</sup> एवं कृते सम्भवति भगणं द्वादशात्मकम् ॥५॥ त्रयोदशं तथा तस्य ध्रुवस्थानं तु मध्यमम् ॥ ६ ॥ प्राच्यां दिशि महीनाथ मेषं तु परिकल्पयेत् ॥ तदाद्या गणना कार्या परिशेषेषु राशिषु ॥७॥ रेखाविधानं द्विगुणं शोभार्थं परिकल्पयेत् ॥ राशिस्थानानि सर्वाणि राशिवर्णेन रचयेत्ततः॥८॥राशि वर्णानथो वक्ष्ये यथावदनुपूर्वशः ॥ अरुणश्च सितश्चैव हरितः पाटळस्तथा ॥९॥ आपाण्डुश्च विचित्रश्च कृष्णश्च कपिलस्तथा ॥ पिंगलः कर्बुरो बभ्रुमलिनश्च यथाक्रमम् ॥१०॥ मेषादीनां विनिर्द्दिष्टो वर्णाः पार्थिवसत्तम ॥ आकाशवर्णं कर्तव्यं ध्रुवस्थानं तथैव च ॥११॥ ध्रुवस्थाने महीनाथ देवतातत्कं न्यसेत् ॥ मण्डलेशुक्लवर्णेस्तु दिग्विभागं निबोध मे॥ १२॥ ध्रुवस्य मण्डलं मध्ये प्राग्भागे मण्डलत्रयम् ॥ मण्डलं गगनस्यात्र भागे
१ 'ज्ञेयम्' इति क० ख० ।
२ कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति ।