भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 430, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 430

च ॥ ३२ ॥ एवमादीनि विघ्नानि विज्ञायानि भृगूत्तम ॥ तस्माद्राज्ञा सदा तिष्ठेन्मणिमन्त्रौषधीगणैः ॥ ३३ ॥ आर्तैः संवेक्षितो राम प्रमादपरिवर्जितैः ॥ ३४ ॥ प्रजातरोर्मूलमिहावनीशरस्तद्रक्षणाद्वृत्तिमुपैति राष्ट्रम् ॥ तस्मात्प्रयत्नेन नृपस्य रक्षां सर्वेण कार्या भृगुवंशचन्द्र ॥ ३५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० राजरक्षावर्णनन्नामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥ राम उवाच ॥ वास्तुविद्यां समाचक्ष्व यादोगणनृपात्मज ॥ हिताय मानवेन्द्राणां तथान्येषां च मानद ॥ १ ॥ पुष्कर उवाच ॥ भूमिमादौ परीक्षेत शुभलक्षणलक्षिताम् ॥ पूर्वोदकप्लवां धन्यां तथा वै दक्षिणोन्नताम् ॥ २ ॥ न तथा शिकटच्छिन्नां नात्यन्तोतापपरिप्युताम् ॥ वल्मीककृमिकाय्यावश्चक्रण्टकिविद्रुमैः ॥ ३ ॥ विहीनां मृदुसंस्पर्शां कठिनां चाप्यनूपराम् ॥ न तथा यवसंस्थानां नेषवज्रोपमां तथा ॥ ४ ॥ न शूर्पकमंसंस्थानां शर्किलीनां तथैव च ॥ सम्पूर्णगणां कृमिभिस्तथाधिकमृदं शुशाम् ॥ ५ ॥ गर्ने च कुसुमं यस्यां न म्लानिमुपगच्छति ॥ न निर्वाणमवाप्नोति यस्यां दीपांच भार्गव ॥ ६ ॥ उदकं च तथा यस्यां शीघ्रं राम न जीर्यते ॥ सा प्रशस्ता क्षितिस्तस्यां निवेशं कारयेद्बुधः ॥ ७ ॥ श्वेता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ॥ विप्रादीनां प्रशस्ता स्यान्मृत्तिका च ततो द्विज ॥ ८ ॥ घृतसृग्गन्धगन्धातं तुल्यगन्ध्या तथैव च ॥ मधुरा च कषाया च अम्लोषणरसा तथा ॥ ९ ॥ कुशैः शरैस्तथा काशैर्दूर्वाभिर्वा च सम्मृता ॥ परीक्ष्य यत्नतो भूमिं त्थिनतनसमस्पदा ॥ १० ॥ सम्पूज्य ब्राह्मणान्पूर्वं निश्चलायां तां तु कारयेत् ॥ खातपूर्वां ततः कृत्वा देवभागांश्च कल्पयेत् ॥ ११ ॥ चतुःषष्टिपदं कृत्वा वास्तुपूर्वं यथाविधि ॥ चतुःषष्टिविभागान कल्पयित्वा समन्ततः ॥ १२ ॥ एकैकं तु गृहं तत्र तथैव परिकल्पयेत् ॥ यस्मान्तुरङ्गविभागेन शरण्यस्यः प्रकीर्तितः ॥ १३ ॥ अतः परं प्रवक्ष्यामि देवभागान्व्यथाविधि ॥ मध्ये चतुष्पदः स्वामी ब्रह्मा शुभचतुर्मुखः ॥ १४ ॥ प्राक्त्या निवृहः स्वामी कथितश्च तथार्यमा ॥ दक्षिणेन विवस्वांश्च मित्रः पश्चिमतः स्थितः ॥ १५ ॥ उदक्पृथ्वीधरश्चैव विक्कोणेष्वथ मे श्रृणु ॥ विक्कोणे शिवदैवत्ये कामपक्षामूभौ सुरौ १ ॥ १६ ॥ सावित्रौसविातारौ तु तथैवाग्र प्रकीर्तितौ ॥ तथा नैर्ऋतकोणे तु जयेन्द्रौ राम कीर्तितौ ॥ १७ ॥ भद्रूयार्थो तु वायव्ये कथितौ भृगुनंदन ॥ देवतानां तथेतासां भूयो वाह्येतु मण्डले ॥ १८ ॥ पूर्वादिषु यथा दिक्षु देवतास्तान्निबोध मे ॥ महेन्द्रश्च रविस्तस्यो भृशः प्राग्राम कीर्तिताः ॥ १९ ॥ गृहक्षिता यमो भृङ्गो गन्धर्वश्चेव याम्यतः ॥ भल्लाटश्च तथा सोम अदितिर्वदनस्तथा ॥ २० ॥ उत्तरेण स्मृता देवा. विकोणेष्वथ मे शृणु ॥ दिशिरौशो मेधजयौ शिवकोणे प्रकीर्तितौ ॥ २१ ॥


१ 'कामदक्षावुभौ मतौ' इति क० ।