विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 423, कुल 1001 में से
संदर्भ में पढ़ेंपरं भक्तिमुपाश्रितैः ॥ अनुजीविगणेनार्य्यं नित्यं राजामतिन्दितैः ॥ २२ ॥ शाठ्यं लौल्यमपैशुन्यं नास्तिक्यं क्षुद्रतां तथा ॥ चापल्यं च परं त्याज्यं नित्यं राजानुजीविना ॥ २३ ॥ श्रुतेन विद्याशिल्पैश्च संयोज्यात्मानमात्मना ॥ राजसेवां ततः कुर्य्याद्दृत्यै भीतिवर्धनः ॥ २४ ॥ नम- स्कार्य्यस्सदा चास्य पुत्रवल्लभमन्त्रिणः ॥ सचिवैश्वास्य विश्वासं न तु कार्यं कथञ्चन ॥ २५ ॥ अपृष्टश्चास्य न ब्रूयात्कामं ब्रूयात्तथापदि ॥ हितं पथ्यं च वचनं हितस्सह सुनिश्चितम् ॥ २६ ॥ चित्तं चैवास्य विज्ञेयं नित्यमेवानुजीविना ॥ भर्तुराराधनं कुर्य्याच्चित्तज्ञो मानवः सुखम् ॥ २७ ॥ रगापरागौ चैवास्य विज्ञेयौ भूतिमिच्छता ॥ त्यजेद्विरक्तं नृपतिं रक्तञ्चेति तु कामयेत् ॥ २८ ॥ कर्मोपकारयोर्नाशं विपक्षाम्युदयं तथा ॥ आशासंवर्धनं कृत्वा फलनाशं करोति च ॥ २९ ॥ अकोडोऽपि प्रकोपामः प्रसन्नोऽपि च निष्फलः ॥ वाक्यं समन्दं वदति वृत्तिच्छेदं करोति च ॥ ॥ ३० ॥ प्रवेशवाक्यादिदौ तं न संभावयतीत्यथ ॥ आराधनासु सर्वासु सुतवच्च विचेष्टते ॥ ३१ ॥ कथासु दोषः क्षिपति वाक्यच्छेदं करोति च ॥ लक्ष्यते विमुखश्चैव गुणसङ्कीर्त्तने कृते ॥ ३२ ॥ दधि क्षिप्त्यथाप्यन्यत्र क्रियमाणे च कर्मणि ॥ विरक्तलक्षणं श्रुत्वा शृणु रक्तस्य लक्षणम् ॥ ३३ ॥ दृष्ट्वा प्रसन्नो भवति वाक्यं गृह्णाति चादरात् ॥ कुशलानिपरिप्रश्ने संप्रयच्छति चासनम् ॥ ३४ ॥ विविक्तदर्शने चास्य रहस्ये न च शङ्कते ॥ जायते हृष्टवदनः श्रुत्वा तस्य तु सङ्कथाम् ॥ ३५ ॥ अप्रियाण्यपि वाक्यानि तदुक्तान्यभिनन्दति ॥ उपायनं च गृह्णाति स्तोकमप्यादरात्तथा ॥ ३६ ॥ कथान्तरेषु स्मरति प्रहृष्टवदनस्तथा ॥ इति रक्तस्य कर्त्तव्या सेवा भृगुकुलोद्वह ॥ आपत्सु न त्यजेत्पूर्व विरक्तमपि सेवितम् ॥ ३७ ॥ मित्रं न चापत्सु तथा न भृत्यं व्रजन्ति ये निर्गुणमप्रमेयम् ॥ प्रभुं विशेषेण च ते व्रजन्ति सुरेन्द्रधामासुरवृन्द- जुष्टम् ॥ ३८ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अनुजीविवृत्तं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ ॥ पुष्कर उवाच ॥ ॥ राजा सहायसंयुक्तः प्रभूतयवसेन्धनम् ॥ रम्यमानतसामन्तः पशव्यं देशमावसेत् ॥ १ ॥ वैश्यशूद्रजनप्रायमनाहार्यं तथा परैः ॥ किञ्चिद्ब्राह्मणसंयुक्तं बहुकर्मकरं तथा ॥ २ ॥ अदेवमातृकं कर्मस्वनुरक्तजनान्वितम् ॥ करैरपीडितं चापि बहुपुष्पं फलं तथा ॥ ३ ॥ अगम्यं परचक्राणां तडागसहमापदि ॥ समदुःखसुखं राज्ञः सततं च प्रिये स्थितम् ॥ ४ ॥ सरीसृपविहीनं च व्याधितस्करवर्जितम् ॥ एवंविधं यथालार्म राजा विषयमावसेत् ॥ ५ ॥ तत्र दुर्गं नृपः कुर्य्यात्तृषणामेकतमं बुधः ॥ धन्वदुर्गं महीदुर्गं नरदुर्गं तथैव च ॥ ६ ॥ वार्क्षं चैवांबुदुर्गं च गिरिदुर्गं च भार्गव ॥ सर्वेषामेव दुर्गाणां गिरिदुर्गं प्रशस्यते ॥ ७ ॥ दुर्गं च परिखोपेतं नृपाट्टालकसंयुतम् ॥ शतघ्नीयन्त्रसुश्लक्ष्णं शतशश्च