विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 424, कुल 1001 में से
संदर्भ में पढ़ेंद्वि० खं० अ० २६
वि० ध० ॥१८८॥
तथा युतम् ॥ ८॥ गोपुरं सङ्कपाटं च तत्र स्यात्सुमनोहरम् ॥ सपताकगजारूढो येन राजा विशेत्पुरम् ॥ ९ ॥ चतस्रश्च तथा तत्र कार्याश्चापण- वीथयः ॥ एकस्मिंस्तत्र वीथ्यग्रे देववेश्म भवेद्दृढम् ॥ १० ॥ वीथ्यग्रे च द्वितीये वै राजवेश्माभिधीयते ॥ धर्माधिकरणं कार्यं वीथ्यग्रे च तृतीयके ॥ ११ ॥ चतुर्थे चैव वीथ्यग्रे गोपुरं च विधीयते ॥ आयतं चतुरस्रं वा वृत्तं चाकारयेत्पुरम् ॥ १२ ॥ मुक्तिहीनं त्रिकोणं च यवमध्यं तथैव च ॥ अर्धचन्द्रप्रकारं च वज्राकारं च वर्जयेत् ॥ १३ ॥ अर्धचन्द्रं प्रशंसन्ति नदीतीरे तु तद्वशात् ॥ अन्यत्र तन्न कर्तव्यं प्रयत्नेन विजानता ॥ १४ ॥ राज्ञः कोशगृहं कार्यं दक्षिणे राजवेश्मनः ॥ तस्यापि दक्षिणे भागे गजस्थानं विधीयतो॥१५॥गजानां प्राङ्मुखी शाला कर्तव्या चायुधस्युर्वो ॥ आग्नेये च तथा भागे आयुधागार इष्यते ॥१६॥ महानसं च धर्मज्ञः कर्मशालास्तथापराः ॥ गृहं पुरोधसः कार्यं वामतो राजवेश्मनः ॥ १७ ॥ मन्त्रिदेविद्विदां चैव चिकित्सत्कर्तुमेव च ॥ तत्रैव च तथा भागे कोष्ठागारं विधीयते ॥ १८ ॥ गवां स्थानं तु कर्तव्यं तुरगाणां तथैव च ॥ उत्तराभिमुखी श्रेणी तुरगाणां विधीयते ॥ १९ ॥ प्राङ्मुखी चापि धर्मज्ञ परिशेषा विगर्हिता ॥ तुरगाश्च तथा धायाः प्रशस्तैः सार्वरात्रिकैः ॥ ॥ २० ॥ कुक्कुटान्श्वानरोमांश्च मर्कटांश्च नराधिपः ॥ धारयेदथ शालासु सवत्सां धेनुमेव च ॥ २१ ॥ अजाश्च धार्या यत्नेन तुरगाणां हिते विष्णो ॥ गोगजाश्वविशालासु तत्पुरीषस्य निष्क्रमम् ॥ २२ ॥ अस्तङ्गते न कर्तव्यं देवदेवे दिवाकरे ॥ ततस्तत्र यथान्यायं राजा विधाय सार वित् ॥ २३ ॥ द्वादशाववसथस्थानं सर्वेषामनुपूर्वशः ॥ योधानां शिल्पिनां चैव सर्वेषामविशेषतः ॥ २४ ॥ द्वादशावसथान्दुर्गे मन्त्रकालविदां सताम् ॥ गोवैद्यानश्ववैद्यांश्च गजवैद्यांस्तथैव च ॥ २५ ॥ आहरेत भृशं राजा दुर्गे परबलारुजः ॥ कुशलीनावां विप्राणां दुर्गे स्थानं विधीयते ॥ ॥ २६ ॥ न बहूनां न तैर्दुगं विना कार्यं तथा भवेत् ॥ दुर्गं च यन्त्रताः कर्तव्या नानाप्रहरणान्विताः ॥ २७ ॥ सहस्रघातिनो राम तैस्तु रक्षा विधीयते ॥ दुर्गे द्वाराणि गुप्तानि कार्याण्यपि च भूभुजा ॥ २८ ॥ संचयश्चात्र सर्वेषां चायुधानां प्रशस्यते ॥ धनुषां क्षेपणीयानां तोमराणां च भार्गव ॥ २९ ॥ शराणामथ खङ्गानां कनकानां तथैव च ॥ लघुडानां गदानां च दृढानां पट्टिधैः सह ॥ ३० ॥ अश्मनां च प्रभूतानां सुदूराणां तथैव च ॥ कणिचानां त्रिशूलानां पट्टिशानां च भार्गव ॥ ३१ ॥ प्रासानां च त्सरूणां च शक्तीनां च नरोत्तम ॥ पर- शूधानां चक्राणां चर्मणां वर्मभिः सह ॥ ३२ ॥ कुठाररज्जुनेत्राणां पिटिकानां तथैव च ॥ हस्तकानां च पात्राणामगरस्य च संश्र- यम् ॥ ३३ ॥ सर्वेषां चित्रभाण्डानां सञ्चयश्चात्र इष्यते ॥ वाद्यानां च सर्वेषामौषधानां तथैव च ॥ ३४ ॥ यवसानां प्रभूतानां
॥१८८॥