विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 441, कुल 1001 में से
संदर्भ में पढ़ेंउच्यते ॥ १९ ॥ पतिं या नाभिचरति मनोवाग्देहसंयता ॥ इहाग्र्यां कीर्तिमाप्नोति परलोके च शस्यते ॥ २० ॥ पत्युरभ्यधिकं नारी नोपवासं तं चरेत् ॥ अनायुष्यं द्विजश्रेष्ठ पत्युस्तस्यास्तदुच्यते ॥ २१ ॥ देवताराधनं कुर्यात्कामं वा ब्राह्मणोत्तम ॥ नारी पतिव्रता रत्नं प्राप्तानुज्ञां तु भर्तुतः ॥ २२ ॥ नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा ॥ विफलं तद्भवेत्तस्या यत्करोत्यूर्ध्वदैहिकम् ॥२३॥ स्त्रीणां पूज्यतमा लोके देवताब्राह्मणाद्वि नाम ॥ या स्ताः सम्पूजनीयाः स्युस्तासामेव यथाविधि ॥ २४ ॥ तासां च पूजनं कार्यं विदितं स्वामिनस्तथा ॥ अन्यथा चेत्प्रवर्तेत निर्ग ह्या सा प्रकीर्तिता ॥ २५ ॥ गत्वान्यपुरुषं नारी नरकं प्रतिपद्यते ॥ कूटशाल्मलिमित्र्यर्कं यावद्भूतसम्प्लवम् ॥ २६ ॥ गर्हिता च तथा पत्यु र्नरकं याति भार्गव ॥ दशवर्षसहस्राणि तथैवाप्रियवादिनी ॥ २७ ॥ सर्वावस्थास्वपि ह्येष न वधो विद्यते द्विज ॥ परेण शङ्कितामेनां संयतां वासयेद्गृहे ॥ २८ ॥ हताधिकारां मलिनां पिण्डमात्रोपजीविनीम् ॥ परिभूतामधःशय्यां वासयेद्व्यभिचारिणीम् ॥ २९ ॥ मूलकर्म न कर्तव्यं कथञ्चिदपि योषिता ॥ मूलकर्मरता नारी कल्पं नरकमावसेत् ॥ ३०॥ दौर्भाग्यं महदाप्नोति तत्र यत्राभिजायते ॥ या च नारी सपत्नीनां कुर्याद्वै भाग्यकारणम् ॥ ३१ ॥ कुहैः पश्यति सापि कल्पानां नरके द्विज ॥ पुंस्त्वमूल्ये तथा लक्ष्मीं पत्युर्हंसिति सा तथा ॥३२॥ यक्षरक्षःपिशाचानां मूलकर्मरता सदा ॥ वश्या भवति लोकेषु भर्ता तस्यास्तथैव च ॥ ३३ ॥ नारी कृत्वा पतिं वश्यं सततं मूलकर्मणा ॥ लभतेऽन्ते तु दौर्भाग्यं भर्तुर्वा भ्रश्यते ध्रुवम् ॥३४॥ तस्मात्सर्वप्रयत्नेन मूलकर्म विवर्जयेत् ॥ आत्मानमथ भर्तारं नाशयेन्मूलकर्मणा ॥ ३५ ॥ ब्राह्मणी न पिबेन्मद्यं न च विट्क्षत्रियस्त्रियः ॥ सुरां पिबेयुर्वप्रजं तत्पानान्नाशमाप्नुयुः ॥ ३६ ॥ ततो भवति धर्मज्ञ जलौका रक्तपायिका ॥ कल्पावशेषं सकलं तेन घोरेण कर्मणा ॥ ३७ ॥ परवेश्मरुचिर्न स्यान्न स्यात्कलहशालिनी ॥ न च तिष्ठेत्तथा द्वारि न च राम गवाक्षके ॥३८॥ मण्डनं वर्जयेन्नारी तथा प्रोषित भर्तृका ॥ देवताराधनपरा भवेद्भर्त्तुर्हिते रता ॥ ३९ ॥ धारयेन्मङ्गलाथाय किञ्चिदाभरणं तथा ॥ न जातु विधवा वेषं कदाचिदपि कारयेत् ॥४०॥ पतिव्रता तु या नारी सह भर्त्रा दिवङ्गता ॥ कल्पावशेषं मुदिता पूज्यते त्रिदशालये ॥ ४१ ॥ पतिव्रतां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् ॥ दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ ४२ ॥ भार्यायै पूर्वमारिण्यै दत्वाग्नीनन्त्यकर्मणि ॥ पुनर्दारक्रियां कुर्यादग्न्याधानमेव च ॥ ४३ ॥ मृते भर्तरि या साध्वी पुत्रमाश्रित्य भार्गव ॥ तपसा शोषयेद्देहं तेन स्वर्गे महीयते ॥ ४४ ॥ पतिपक्षे नरं कञ्चित्पुत्राभावं समाश्रयेत् ॥ विषमस्थापि सा वाप्येतां भोजनाच्छादनैः सदा ॥ ४५ ॥ पतिपक्षं समुच्छिद्य पितृपक्षः प्रभुः स्त्रियः ॥ विषमस्थापि भर्त्तव्या पितृपक्षं स्वच