विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 450, कुल 1001 में से
संदर्भ में पढ़ेंवि० खं०
॥२-०१॥
द्वि० खं०
अ० ३१
लाभसाम् ॥ वस्त्रांश्चन्दनदानां ये लोकाः सर्वकामदाः ॥ ८ ॥ धर्मेण तानवाप्नोति पुरुषः पुरुषान्तक ॥ मनोहराणि द्वीपानि वर्षाणि सुसु-
खानि च ॥ ९ ॥ प्रयान्ति धर्मेण नरास्तथैवामरात्मताः ॥ नन्दनादीनि मुख्यानि देवोद्यानानि यानि च ॥ १० ॥ तानि पुण्येन लभ्यन्ते
नाकपृष्ठं तथा नरैः ॥ विमानानि विचित्राणि तथैवाप्सरसः शुभाः ॥ ११ ॥ तैजसानि शरीराणि सदा पुण्यवतां फलम् ॥ राज्यं नृपतिपूजा च
कामसिद्धस्तथैप्सिता ॥ १२ ॥ उपस्कराणि मुख्यानि फलं पुण्यस्य दृश्यते ॥ रुक्मवैदूर्यदण्डानि चंद्रांशुसदृशानि च ॥ १३ ॥ चामराणि
सुराध्यक्ष भवन्ति शुभकर्मणाम् ॥ ^१( पूर्णेन्दुमंडलोभेन रक्तांशुसमितेन च ॥१४॥ धार्यतां यानि छत्रेण नरः पुण्येन कर्मणा ॥) जयशब्दस्स्वना
देव सूतमागधनिःस्वनम् ॥ १५ ॥ वरासनं सभृङ्गारं फलं पुण्यस्य कर्मणः ॥ वरांगनानां गीतं च हृत्पमाल्यानुलेपनम् ॥ १६ ॥ रत्नवस्त्राणि
मुख्यानि फलं पुण्यस्य कर्मणः ॥ रूपाढ्याश्चगुणोपेताः स्त्रियश्चातिमनोहराः ॥ १७ ॥ वासः प्रासादपृष्ठेषु भवन्ति शुभकर्मणाम् ॥ सुवर्णकिंकिणी
मिश्रचामराः पीठधारिणः ॥ १८ ॥ वहन्ति तुरगा देव नरं पुण्येन कर्मणा ॥ हेमकक्षैः समातैश्चरूपवंतस्तथैभिः ॥ १९ ॥ खेलोभिषग्विद्यान्यसि-
र्यान्ति पुण्येन कर्मणा ॥ सर्वकामप्रदं देवं सर्वापद्विनिवारकम् ॥२० ॥ वहन्ति भक्ति पुरुषास्सदा पुण्येन कर्मणा ॥ तस्य द्वाराणि यजनं तपो दानं
दया क्षमा ॥ २१ ॥ ब्रह्मचर्यं च सत्यं च तीर्थानुसरणं शुभे ॥ स्वाध्यायसेवा साधूनां सहवासः सुरार्चनम् ॥२२॥ गुरूणां चैव शुश्रूषाब्राह्मणानां
च पूजनम् ॥ इन्द्रियाणां जयश्चैव मार्दवं हीरमात्सरम् ॥ २३ ॥ तस्माद्धर्मः सदा कार्यो नित्यमेव विजानता ॥ न हि प्रतीक्षते मृत्युः कृतमस्य न
वा कृतम् ॥ २४ ॥ बाल एवाचरेद्धर्ममनित्यं देव जीवितम् ॥ को हि जानाति कस्याद्य मृत्युः केन भविष्यति ॥२५॥ पश्यतोऽस्यस्य लोकस्य
मरणं पुरतः स्थितम् ॥ अमरस्येव चरितमत्याश्चर्यं सुरोत्तम ॥ २६ ॥ युवावाप्यथवा बालो वृद्धत्वापेक्षया युवा ॥ मृत्योर्हस्तंङ्गतश्चाढ्यः
स्थविरः किमपेक्षते ॥ २७ ॥ प्लवः शैलं समाढः ततो वृक्षाग्रमाश्रितः ॥ तत्राप्यविन्दत्तंत्त्राणं मृत्योर्दन्तस्य का गतिः ॥ २८ ॥ न मद्यं मरणा-
देव प्राणिनामाधिकं क्वचित् ॥ तत्रापि निर्भयाः सन्तः सदा सुकृतकारिणः ॥२९ ॥ यम उवाच ॥ वृथोडोऽसि ते विशालाक्षि वचनेनधर्मसङ्गतेः ॥
विना सत्यवतः प्राणान्वरं वरय मा चिरम् ॥ ३० ॥ सावित्र्युवाच ॥ वश्यामि त्वया दत्तं पुत्राणां शतमौरसम् ॥ अनपत्यस्य लोकेषु गतिः
किल न विद्यते ॥ ३१ ॥ यम उवाच ॥ कृतेन कामेन निवृर्त भद्रे भविष्यतीदं सकलं त्वयोक्तम् ॥ ममोपरोधश्च तव कुमः स्यात्तथाधुना तेन
^१ कोष्ठान्तर्गतः पाठः कपुस्तके नास्ति ।
॥२०१॥