भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 449, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 449

॥ यम उवाच ॥ कृतेन कामेन निवृतं भद्रे भविष्यतीदं सकलं त्वयोक्तम् ॥ ममोपरोधस्तव च क्ष्मः स्यात्तथाऽधुना तेन तव ब्रवीमि ॥ ७० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० सावित्र्युपाख्याने सप्तत्रिंशत्तमोऽध्यायः ॥३७॥ सावित्र्युवाच ॥ कुतः क्ष्मः कुतो दुःखं सद्भिः सह समागमे ॥ सतां तस्मान्न मे ग्लानिस्त्वत्समीपे सुरोत्तम ॥ १ ॥ साधूनां वाप्यसाधूनां सन्त एव परा गतिः ॥ नैवापसतां नैव सतामसन्तो नैव चात्मनः ॥ २ ॥ विषाग्निसर्पशस्त्रेभ्यो न तथा जायते भयम् ॥ अकारणजगद्वैरिखलेभ्यो जायते यथा ॥ ३ ॥ सन्तः प्राणानपि त्यक्त्वा परार्थं कुर्व्वते व्यथा ॥ तथाऽसन्तोऽपि मनुजाः परपीडासु तत्पराः ॥४ ॥ त्यजत्यसूनयं लोकस्तृणवद्व्यत्य कारणात् ॥ परोपचानसक्तास्ते परलोकं तथा सता ॥ ५ ॥ निक्रियेष्जनिकायेषु पुरा ब्रह्मा जरद्गवः ॥ असतानमुपधाताय राजानः कृतवान्व्ययम् ॥ ६ ॥ चारैः परीक्ष्यन्दूद्या धूर्तान्सम्माजयं त्सदा ॥ निग्रहं चासतां कुर्यात्स तु लोकजिदुत्तमः ॥ ७ ॥ धान्यसंरक्षणार्थाय निर्मार्गो कक्षमुद्धरन् ॥ यथा वर्धयते धान्यं वर्द्धनीयास्तथा प्रजाः ॥ ८ ॥ निग्रहेणासतां राज्ञा सतां च परिपालनैः ॥ एतावदेव कर्त्तव्यं राज्ञा स्वयमभीप्सता ॥ ९ ॥ राजकृत्यं हि लोकेषु नास्त्यन्यत्त्वज्जग त्पते ॥ असतां निग्रहाद्देव सतां च परिपालनातू ॥ १० ॥ राजानुशासिता तेषामसतां शासिता भवान् ॥ तेन त्वमधिको देव देवेभ्यः प्रति भासि मे ॥ ११ ॥ जगत्तु धार्यते सद्भिः सतामभ्यस्तथा भवान् ॥ तेन त्वामभिमान्यन्ता मे कुतो देव न विद्यते ॥ १२ ॥ यम उवाच ॥ तुष्टो स्मि ते विशालाक्षि वचनेर्धर्मसंहितैः ॥ विना सत्यवतः प्राणान्वरं वरय मा चिरम् ॥ १३ ॥ सावित्र्युवाच ॥ सहोदराणां भ्रातृणां कामयामि शतं विभो ॥ अनपत्यः पिता प्रीति पुत्रलाभात्प्रयातु मे॥ १४॥ यम उवाच ॥ कृतेन कामेन निवृतं भद्रे भविष्यतीदं सकलं त्ववोक्तम् ॥ ममोपरोधस्त व च क्ष्मः स्यात्तथाधुना तेन तव ब्रवीमि ॥ १५॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० सावित्र्युपाख्याने द्वितीयवरलाभो नामाष्टात्रिंशत्तमो ध्यायः ॥ ३८ ॥ सावित्र्युवाच ॥ धर्मो हि दैवतं स्त्रीणां पतिरेव परायणम् ॥ अनुगम्यः स्त्रिया साध्व्या पतिः प्राणधनेश्वंरः ॥ १ ॥ धर्मार्जितेन पुरं श्रेष्ठ कुतो ग्लानिः कुतः क्ष्मः॥ त्वत्पादमूलमेवेदं परमं धर्मकारणम् ॥ २ ॥ धर्मार्जनं सदा कार्यं पुरुषेण विजानता ॥ तल्लाभः सर्वलाभेभ्यो यतो देव विशिष्यते ॥ ३ ॥ धर्मश्चार्थश्च कामश्च त्रिवर्गं जीवतः फलम् ॥ धर्मेहीनस्य कामार्थी वन्ध्यासुतसमावुभौ ॥ ४ ॥ धर्मादर्थस्तथा कामो धर्माल्लोकद्वयं तथा ॥ धर्म एकोऽनुयात्येनं यत्र कुत्र च गामिनम् ॥ ५ ॥ शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥ एको हि जायते जन्तुरेक एव विपद्यते ॥ ६ ॥ धर्मस्तमनुयात्येको न सुहृन्न च बान्धवाः ॥ रूपसौभाग्यलावण्यं सम्पद्धर्मेण लभ्यते ॥ ७॥ ब्रह्मेन्द्रोपेन्द्रशर्वेन्दुद्युमार्कग्रहमिनि