भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 452, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 452

वि० ध० द्वि० खं० अ० ४२ ॥२०२॥

सह भर्त्रा ययौ तदा ॥ आससादाश्रमं चैव सह भर्त्रा नृपात्मजा ॥ ९ ॥ एतस्मिन्नवकाशे तु लब्धचक्षुर्महीपतिः ॥ द्युमत्सेनः सभार्य्यस्तु पर्यतप्यत भार्गव ॥ १० ॥ सावित्र्यापि वरारोहा सह सत्यवता तदा ॥ ववन्दे तत्र राजानं सभार्य्यं भृगुनन्दन ॥ ११ ॥ परिष्वक्तस्तदा पित्रा सत्यवाञ्- जनन्दनः ॥ अभिवाद्य ततः सर्वान्वने तस्मिंस्तपोधनान् ॥ १२ ॥ उवास तां तदा रात्रिम्ऋषिभिः सह धर्मवित् ॥ सावित्र्यपि जगादाथ यथा- वृत्तमनिन्दिता ॥ १३ ॥ व्रतं समापयामास तस्यामेव तदा निशि ॥ ततस्तु राम राज्यन्ते शाल्वेभ्यस्तस्य भूपतेः ॥ १४ ॥ आजगाम जनः सर्वोराज्यार्थाय निमन्त्रणे ॥ आज्ञापयामास तदा तथा प्रकृतिशासनम् ॥ १५ ॥ विच्छन्नस्ते नृप ते येन राज्यं पुरा हतम् ॥ अमात्यैः सह भोक्तव्यं राज्यमस्तु पुरे नृप ॥ १६ ॥ एतच्छ्रुत्वा ययौ तत्र बलेन चतुरङ्गिणा ॥ लेभे च सकलं राज्यं धर्मराजो महात्मनः ॥ १७ ॥ भ्रातॄणां च शतं लेभे सावित्र्यपि वराङ्गना ॥ एवं पतिव्रता साध्वी पितृपक्षं नृपात्मजा ॥ १८ ॥ उज्जहार वरारोहा भर्तृपक्षं तथैव च ॥ मोचयामास भर्त्तारं मृत्युपाशवशीकृतम् ॥ १९ ॥ तस्मात्साध्व्यः स्त्रियः पूज्याः सततं देववज्जनैः ॥ तासां राम प्रसादेन ध्रियते वै जगत्त्रयम् ॥ २० ॥ तासां न वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु ॥ तस्मात्सदा ताः परिपूजनीयाः कामान्समग्रानभिकामयानैः ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सावित्र्युपाख्याने एकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥ ॥ छ ॥ ॥ पुष्कर उवाच ॥ गवां हि पालनं राज्ञा कर्तव्यं भृगुनन्दन ॥ गावः पवित्राः संगत्या गोषु लोकाः प्रतिष्ठिताः ॥ १ ॥ गावो वितन्वते यज्ञं गावो विश्वस्य मातरः ॥ शकृन्मूत्रं परं तासामलक्ष्मीनाशनं स्मृतम् ॥ २ ॥ तद्धि सेव्यं प्रयत्नेन तत्र लक्ष्मीः प्रतिष्ठिता उद्वेगं च न गन्तव्यं शकृन्मूत्रस्य जानता ॥ ३ ॥ गवां मूत्रपुरीषेषु ह्यवगाहं न सन्त्यजेत् ॥ गोजः परं पुण्यमलक्ष्मीविघ्ननाशनम् ॥ ४ ॥ गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ॥ तासां श्रृङ्गोदकैश्चैव जाह्नवीजलसन्निभम् ॥ ५ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिश् च रोचनम् ॥ षडङ्गम् तन्माङ्गल्यं पवित्रं तु पृथक्पृथक् ॥ ६ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ पवित्रं परमं ज्ञेयं स्नाने पाने च भार्गव ॥ ७ ॥ गवां मेतन्माङ्गल्यं कलिदुःस्वप्ननाशनम् ॥ रोचना च तथा धन्या रक्षोरोगगदापहा ॥ ८ ॥ यस्तु कल्ये समुत्थाय सुलभाज्यं निरीक्षते ॥ तस्यालक्ष्मीः क्षयं याति वर्धते न तु किल्बिषम् ॥ ९ ॥ गवां ग्रासप्रदानेन पुण्यं सुमहदश्नुते ॥ यावत्यः शक्नुयाद्गावः सुखं धारयितुं गृहे ॥ १० ॥ धारयेत्तावतीर्नित्यं क्षुधितास्तु न धारयेत् ॥ दुःखिता धेनवो यस्य वसन्ति द्विज मन्दिरे ॥ ११ ॥ नर्कं समवाप्नोति नात्र कार्या विचारणा ॥

॥२०२॥