विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 452, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० द्वि० खं० अ० ४२ ॥२०२॥
सह भर्त्रा ययौ तदा ॥ आससादाश्रमं चैव सह भर्त्रा नृपात्मजा ॥ ९ ॥ एतस्मिन्नवकाशे तु लब्धचक्षुर्महीपतिः ॥ द्युमत्सेनः सभार्य्यस्तु पर्यतप्यत भार्गव ॥ १० ॥ सावित्र्यापि वरारोहा सह सत्यवता तदा ॥ ववन्दे तत्र राजानं सभार्य्यं भृगुनन्दन ॥ ११ ॥ परिष्वक्तस्तदा पित्रा सत्यवाञ्- जनन्दनः ॥ अभिवाद्य ततः सर्वान्वने तस्मिंस्तपोधनान् ॥ १२ ॥ उवास तां तदा रात्रिम्ऋषिभिः सह धर्मवित् ॥ सावित्र्यपि जगादाथ यथा- वृत्तमनिन्दिता ॥ १३ ॥ व्रतं समापयामास तस्यामेव तदा निशि ॥ ततस्तु राम राज्यन्ते शाल्वेभ्यस्तस्य भूपतेः ॥ १४ ॥ आजगाम जनः सर्वोराज्यार्थाय निमन्त्रणे ॥ आज्ञापयामास तदा तथा प्रकृतिशासनम् ॥ १५ ॥ विच्छन्नस्ते नृप ते येन राज्यं पुरा हतम् ॥ अमात्यैः सह भोक्तव्यं राज्यमस्तु पुरे नृप ॥ १६ ॥ एतच्छ्रुत्वा ययौ तत्र बलेन चतुरङ्गिणा ॥ लेभे च सकलं राज्यं धर्मराजो महात्मनः ॥ १७ ॥ भ्रातॄणां च शतं लेभे सावित्र्यपि वराङ्गना ॥ एवं पतिव्रता साध्वी पितृपक्षं नृपात्मजा ॥ १८ ॥ उज्जहार वरारोहा भर्तृपक्षं तथैव च ॥ मोचयामास भर्त्तारं मृत्युपाशवशीकृतम् ॥ १९ ॥ तस्मात्साध्व्यः स्त्रियः पूज्याः सततं देववज्जनैः ॥ तासां राम प्रसादेन ध्रियते वै जगत्त्रयम् ॥ २० ॥ तासां न वाक्यं भवतीह मिथ्या न जातु लोकेषु चराचरेषु ॥ तस्मात्सदा ताः परिपूजनीयाः कामान्समग्रानभिकामयानैः ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे सावित्र्युपाख्याने एकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥ ॥ छ ॥ ॥ पुष्कर उवाच ॥ गवां हि पालनं राज्ञा कर्तव्यं भृगुनन्दन ॥ गावः पवित्राः संगत्या गोषु लोकाः प्रतिष्ठिताः ॥ १ ॥ गावो वितन्वते यज्ञं गावो विश्वस्य मातरः ॥ शकृन्मूत्रं परं तासामलक्ष्मीनाशनं स्मृतम् ॥ २ ॥ तद्धि सेव्यं प्रयत्नेन तत्र लक्ष्मीः प्रतिष्ठिता उद्वेगं च न गन्तव्यं शकृन्मूत्रस्य जानता ॥ ३ ॥ गवां मूत्रपुरीषेषु ह्यवगाहं न सन्त्यजेत् ॥ गोजः परं पुण्यमलक्ष्मीविघ्ननाशनम् ॥ ४ ॥ गवां कण्डूयनं चैव सर्वकल्मषनाशनम् ॥ तासां श्रृङ्गोदकैश्चैव जाह्नवीजलसन्निभम् ॥ ५ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिश् च रोचनम् ॥ षडङ्गम् तन्माङ्गल्यं पवित्रं तु पृथक्पृथक् ॥ ६ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ पवित्रं परमं ज्ञेयं स्नाने पाने च भार्गव ॥ ७ ॥ गवां मेतन्माङ्गल्यं कलिदुःस्वप्ननाशनम् ॥ रोचना च तथा धन्या रक्षोरोगगदापहा ॥ ८ ॥ यस्तु कल्ये समुत्थाय सुलभाज्यं निरीक्षते ॥ तस्यालक्ष्मीः क्षयं याति वर्धते न तु किल्बिषम् ॥ ९ ॥ गवां ग्रासप्रदानेन पुण्यं सुमहदश्नुते ॥ यावत्यः शक्नुयाद्गावः सुखं धारयितुं गृहे ॥ १० ॥ धारयेत्तावतीर्नित्यं क्षुधितास्तु न धारयेत् ॥ दुःखिता धेनवो यस्य वसन्ति द्विज मन्दिरे ॥ ११ ॥ नर्कं समवाप्नोति नात्र कार्या विचारणा ॥
॥२०२॥