विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 453, कुल 1001 में से
संदर्भ में पढ़ेंदत्त्वा परगवे ग्रासं पुण्यं सुमहदश्नुते ॥ १२ ॥ शैशिरं सकलं कालं ग्रासं परगवे तथा ॥ दत्त्वा स्वर्गमवाप्नोति संवत्सराशतानि षट् ॥ १३ ॥ अभ्रभक्तं नरो दत्त्वा नित्यमेव तथा गवाम् ॥ मासषट्केन लभते नाकलोकं समायुतम् ॥ १४ ॥ सायं प्रातर्मुखोप्यान्नाशनं देवर्निर्मितम् ॥ तत्रैवमशनं दत्त्वा गवां नित्यमत्तन्द्रितः ॥ १५ ॥ द्वितीयं यः समश्नाति तेन संवत्सरेश्वरः ॥ गवां लोकमवाप्नोति यावन्मन्वन्तरं द्विज ॥ १६ ॥ गवां प्रचारे पानीयं दत्त्वा पुरुषसत्तमः ॥ वारुणं लोकमासाद्य क्रीडत्यब्दगणायुतम् ॥ परां तृप्तिमवाप्नोति यत्रयत्राभिजायते ॥ १७ ॥ गवां प्रचारभूमिं तु वाहयित्वा हलादिना ॥ नरकं महदाप्नोति यावद्विप्रश्चतुर्दश ॥ १८ ॥ गवां पानमवृत्तानां यस्तु विघ्नं समाचरेत् ॥ ब्रह्महत्या कृता तेन घोरा भवति भार्गव ॥ सिंहव्याघ्रभयत्रस्तां पङ्कमग्नां जले गताम् ॥ १९ ॥ गामुद्धृत्य नरः स्वर्गे कल्पभोगात्पशूयते ॥ गवां चवसदानेन रूपवानभिजायते ॥ २० ॥ सौभाग्यं महदाप्नोति लावण्यं च द्विजोत्तम ॥ औषधं च तथा दत्त्वा विरोगस्त्वभिजायते ॥ ॥ २१ ॥ औषधं लवणं तोयमाहारं च प्रयच्छतः ॥ विपत्तौ पातके नास्य भवत्युद्धन्यनादिकम् ॥ २२ ॥ वक्तव्यता दिवापाले रात्रौ स्वामी न तद्गृहे ॥ तत्रापि तन्निंयुक्तश्च कश्चिदन्यो न चेद्भवेत् ॥ २३ ॥ तासां चेद्विरुद्धानां चरन्तीनां मिथो वने ॥ यासुत्पत्य वृको हन्यात्पालस्तत्र किल्बिषी ॥ २४ ॥ संरुद्धासु तथैवासु वृकः पाले त्वनायति ॥ यासुत्पत्य वृको हन्यात्पाले तत्किल्विषं भवेत् ॥ २५ ॥ गोवधेन नरो याति नरकानेकविंशतिम् ॥ तस्मात्सर्वप्रयत्नेन कार्यं तासां तु पालनम् ॥ २६ ॥ विक्रयाच्च गवां राम न भद्रं प्रतिपद्यते ॥ तासां च कीर्तनादेव नरः पापाद्विमुच्यते ॥ २७ ॥ तासां संस्पर्शनं धन्यं सर्वकल्मषनाशनम् ॥ दानेन च तथा तासां कुलान्युपि समुद्धरेत् ॥ २८ ॥ उदक्या सूतिकां दोषो नैव तत्र गृहे भवेत् ॥ भूमिदोषास्तथान्योऽपि यत्रैका वसते तु गौः ॥ २९ ॥ गवां निश्वासवातेन परा शान्तिर्गृहे भवेत् ॥ नीराजनं तत्परमं सर्वस्थानेषु कीर्तितम् ॥ ३० ॥ गवां संस्पर्शनाद्राम क्षीयते किल्बिषं नृणाम् ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ ३१ ॥ एकरात्रोपवासं च श्वपाकमपि शोधयेत् ॥ पृथक्त्वप्रत्ययाभ्यास्तमतिसन्तपनं स्मृतम् ॥ ३२ ॥ सर्वाशुभविमोक्षाय पुरा च रितमृषिभिः ॥ प्रत्येकं च त्र्यहाभ्यस्तं चातिसांतपनं स्मृतम् ॥ ३३ ॥ सर्वकामप्रदं राम सर्वाशुभविनाशनम् ॥ कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् ॥ ३४ ॥ निर्मलास्तेन चीर्णेन भवन्ति पुरुषोत्तमाः ॥ त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं घृतं पिबेत् ॥ ॥ ३५ ॥ त्र्यहमुष्णं पयः पीत्वा वायुभक्षः परं त्र्यहम् ॥ तप्तकृच्छ्रमिदं प्रोक्तं सर्वाशुभविनाशनम् ॥ ३६ ॥ शीतकृच्छ्रस्तथैवैष क्रमाच्छीतैः