विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 454, कुल 1001 में से
संदर्भ में पढ़ेंप्रकीर्तितः ॥ सर्वाशुभविनाशाय निर्मितो ब्रह्मणा स्वयम् ॥ ३७ ॥ गोमूत्रेण चरेत्कृत्स्नं वृत्तिं कुर्याच्च गोरसैः ॥ उत्थितासुत्थितस्तिष्ठेदुपविष्टासु ना स्थितः ॥ ३८ ॥ अभुक्तवत्सु नाश्नीयात्पीतासु च नो पिबेत् ॥ त्राणं तु रामाकुर्वीत तथा देवे प्रवर्षति ॥ ३९ ॥ त्राणं नैवात्मनः कार्यं भया- त्तांश्च समुद्धरेत् ॥ आत्मानमपि सन्त्यज्य गोव्रतं तत्प्रकीर्तितम् ॥ ४० ॥ सर्वपापप्रशमनं मासेनेकेन भार्गव ॥ व्रतेनानेन चीर्णेन गोलोकं पुरुषो व्रजेत् ॥ ४१ ॥ अभीष्टमथ वा राम यावदिन्द्रश्चतुर्दश ॥ गवां निर्हारनिर्मुक्तानश्नन्नप्रतिदिनं यवान् ॥ ४२ ॥ मासेन तदवाप्नोति यत्किं- ञ्चिन्मनसेच्छति ॥ गोमतीं च तथा विद्यां सायं प्रातस्तथा जपन् ॥ ४३ ॥ गोलोकमवाप्नोति नरो नात्र कार्या विचारणा ॥ उपर्युपरि सर्वेषां गवां लोकः प्रकीर्तितः ॥ ४४ ॥ निवसन्ति सदा यत्र गावस्त्वव्रातकाशना दिवि ॥ विमानेषु विचित्रेषु वृत्तेष्वप्सरसां गणैः ॥ ४५ ॥ किङ्किणी- जालचित्रेषु वीणासुस्वननादिषु ॥ ४६ ॥ नद्यो हि यत्र क्षीरपायसकर्दमाः ॥ ४६ ॥ शीतलामलपानीयाः सुवर्णसिकतातथा ॥ पुष्कर्ण्यः शुभास्तत्र वैदूर्यकमलोत्पलाः ॥ ४७ ॥ मानसी च तथा सिद्धिः तत्र लोके भृगूत्तम ॥ तच्च लोकं नरा यान्ति गवां भक्त्या न संशयः ॥ ४८ ॥ गोमतीं कीर्तयिष्यामि सर्वपापप्रणाशिनीम् ॥ तां तु मे वदतो विप्र शृणुष्व सुसमाहितः ॥ ४९ ॥ गावः सुरभयो नित्यं गावो गुग्गुलगन्धिकाः ॥ गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं परम् ॥ ५० ॥ अन्नमेव परं गावो देवानां हविरुत्तमम् ॥ पावनं सर्वभूतानां रक्षन्ति च वहन्ति च ॥५१॥ हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि ॥ ऋषीणामग्निहोत्रेषु गावो होमे प्रयोजिताः ॥ ५२ ॥ सर्वमेव भूतानां गावः शरणमुत्तमम् ॥ गावः पवित्रं परमं गावो मङ्गलमुत्तमम् ॥ ५३ ॥ गावः स्वर्गस्य सोपानं गावो धन्यास्सनातनाः ॥ ( ॐ ) नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च ॥ ५४ ॥ नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमोनमः ॥ ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा स्थितम् ॥ ५५ ॥ एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ॥ देवब्राह्मणगोसाधुसाध्वीभिः सकलं जगत् ॥ ५६ ॥ धार्यते वै सदा तस्मात्सर्वैः पूज्यतमाः सदा ॥ यत्र तीर्थे सदा गावः पिवन्ति तृषि- ता जलम् ॥ उत्तरन्ति पथा येन स्थिता तत्र सरस्वती ॥५७॥ गवां हि तीर्थे वसतीह गङ्गा प्रतिष्ठिता तद्रजसि प्रवृद्धा ॥ लक्ष्मीः करीषे प्रणतौ च धर्मस्तासां प्रणामं सततं च कुर्यात् ॥ ५८ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० गोमाहात्म्ये गोमतीविद्या नाम द्विचत्वारिं- शत्तमोऽध्यायः ॥ ४२ ॥ ॥ पुष्कर उवाच ॥ ॥ अतः परं प्रवक्ष्यामि तव राम चिकित्सितम् ॥ संक्षेपेण गवां पुण्यं सारभूतं शृणुष्व तत् ॥ ॥ १ ॥ शृङ्गशूलेषु धेनूनां तैलं दद्यात्सतैन्दवम् ॥ शृङ्गीवराबलामूर्वाकल्कसिद्धं समाक्षिकम् ॥ २ ॥ कृमिचूर्णैर्युतं देयमथवापि तथा घृतम् ॥