विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 513, कुल 1001 में से
संदर्भ में पढ़ेंमुच्यते गुरुतल्पगः ॥ ६ ॥ एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् ॥ अवेक्ष्येदं जपेद्दूर्द्धं यत्किञ्चिदपि तानि चेत् ॥ ७ ॥ प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ॥ जपंस्तरत्समन्दीयं प्रयतो मानवऋचम् ॥ ८ ॥ सोमारौद्रं तु बहूनां जपन्सत्यस्य ऋच्छति ॥ स्रवन्त्यामाचरेत्स्नानं पर्येस्यामिति वा ऋचम् ॥ ९ ॥ अद्वा -रसानमियेतेन्त्सप्तकं जपेत् ॥ अशकाशं तु कुर्बानो मासमासीत भैक्ष्यभुक् ॥ १० ॥ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ॥ सुवर्णच्युपहन्त्येनो जप्त्वा वामन इष्यते ॥ ११ ॥ हुपुदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता ॥ अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः ॥ १२ ॥ महापातकसंयुक्तो न गच्छेदधः समाहितः ॥ स्वभ्यस्य पावमानीयं भैक्ष्याहारो विशुध्यति ॥ ॥ १३॥ अरण्ये वा विरम्यस्य प्रयतो वेदसंहिताम् ॥ मुच्यते पातकैः सर्वैः परकैः शोधितस्त्रिभिः ॥ १४॥ त्र्यहं तूपवसेद्युक्तस्त्रिरहोऽभ्युपयन्नपः ॥ मुच्यते पातकैः सर्वैर्जप्त्वा त्रिराधमर्पणम् ॥ १५ ॥ यथाश्वमेधः सुतरां सर्वपापापनोदनः ॥ तथाघमर्पणं सूक्तं सर्वपापापनोदनम् ॥ १६॥ हत्वा लोका नपीमांस्त्रीनश्नन्नपि यतस्ततः ॥ ऋग्वेदं धारयन्विप्रो नैनः प्राप्नोति किञ्चन ॥ १७॥ ऋक्संहितां समभ्यस्य यजुषां वा समाहितः ॥ साम्नां वा सरह स्यानां सर्वपापैः प्रमुच्यते॥१८॥ यथा महाह्रदं प्राप्य क्षिप्रं लोष्ठो विनश्यति ॥ तथा दुश्पूरितं सर्वं वेदे त्रिवृति मज्जति ॥ १९ ॥ ऋचो यजूंषि चाथानि सामानि विविधानि च ॥ एष ज्ञेयस्त्रिवृद्वेदो यो वै वेद स वेदवित् ॥२०॥ आद्यं वै त्र्यक्षरं ब्रह्म त्रयी यस्मिन्प्रतिष्ठिता ॥ स गृह्योऽन्यस्त्रिवृद्वेदो यो वेदैनं स वेदवित्॥२१॥वेदभ्यासोऽन्वहं शक्त्या महायज्ञक्रियासमः॥ नाशयन्त्याशु पापानि महापातकान्यपि ॥२२॥ यथैधांसि समिद्धोऽग्निर्भ स्मसात्कुरुते क्षणात ॥ तथा ज्ञानाग्निना पापं क्षिप्रं दहति वेदवित् ॥२३॥ वासुदेवं जगन्नाथमीशं भक्त्या गताः सर्वजगत्यथानम् ॥ ते पातकान्याशु विधूय लोके भवन्ति चन्द्रार्कसमप्रभावाः॥२४॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डो मा० सं० रहस्यप्रायश्चित्तो नाम चतःसततितमोऽध्यायः ॥७४॥ राम उवाच ॥ प्रेतशुद्धिं समाचक्ष्व सूतिकाशुद्धिमेव च ॥ द्रव्यशुद्धिं च भगवंस्त्वं हि वेत्सि यथा तथा ॥ १ ॥ पुष्कर उवाच ॥ दशाहे शावमा शौचं सपिण्डेषु विधीयते ॥ जनने च तथाप्येवं ब्राह्मणानां भृगूत्तम ॥ २ ॥ द्वादशाहेन राजन्यः पञ्चाहेभ्यो विशुध्यति ॥ मासेन शुद्धिमाप्नोति तथा शूद्रोऽपि भार्गव ॥ ३ ॥ आनुलोम्येन पत्नीनां दासीनां च सूतकम् ॥ स्वामितुल्यं भवेच्छौचं मृते स्वामिनि योषितम् ॥ ४ ॥ षड्भिमत्रि भिर्यत्केन क्षत्रविट्शूद्रयोनिषु ॥ ब्राह्मणः शुद्धिमाप्नोति नात्र कार्या विचारणा ॥ ५ ॥ विट्शूद्रयोनी शुद्धिः स्यात्क्षत्रियस्य तथैव च ॥ षडरात्रेण त्रिरात्रेण षड्भिः शूद्रस्तथा विशः ॥ ६ ॥ अदन्तजातबाले तु सद्यः शौचं विधीयते ॥ बाले त्वकृतचूडे च विशुद्धिनैशिकी स्मृता ॥ ७ ॥