विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 515, कुल 1001 में से
संदर्भ में पढ़ेंकार्यमश्मनि पदं दत्त्वा प्रविशेयुस्तथा गृहम् ॥ ५६॥ अक्षतां निक्षिपेषुश्च तथा वह्नौ समाहिताः ॥ विदश्य निम्बपत्राणि शर्यांरैश्च पृथक् स्थितौ ॥५६॥
क्रीतलव्ध्याशनाश्र्चैव भवेयुः सुसमाहिताः ॥ न चैव मांसमश्नीयुर्व्वर्जयेयुर्न च गोपितम् ॥ ७॥ निवर्त्तयेयुस्तच्चैवैकं पिण्डं प्रेतस्य नित्यदा ॥ अशौचं
यावदेव स्यात्तस्मिन्व्यपगते पुनः ॥८॥ श्मश्रुकर्म तदा कृत्वा स्नाताः सिद्धार्थकौस्तैलैः ॥ पूजेयुर्द्द्विजान्नाम परिवर्तितवाससः ॥९॥ अदन्तजाते
स्तनये शिशौ गर्भेच्युते तथा ॥ कार्यों नैवाग्निसंस्कारो नैव चास्योदकक्रिया ॥१०॥ चतुर्थे च दिने कार्य्यश्चास्थ्नां राम संचयः ॥ अस्थिसंचय
नादूर्ध्वं कुलस्पर्शो विधीयते ॥ ११ ॥ मृतस्य बान्धवैः सार्धं कृत्वाऽश्रुपतनं नरः ॥ अस्थिसंचयनादूर्ध्वं सद्येलं स्नानमाचरेत् ॥ १२॥ स्नात्वाञ्च
शुद्धिमाप्नोति ततः परमिति श्रुतिः ॥ अस्थां गङ्गाम्भसि क्षेपात्प्रेतस्याभ्युदयो भवेत् ॥ १३ ॥ अस्थां हि प्लावनाथार्य सागराणां महात्मनाम् ॥
गगनाद्रुमानीता गङ्गा गगनमेखला ॥ १४ ॥ भगीरथेन धर्मज्ञ तपसा महता पुरा ॥ सगरस्य सुताः सर्वे नरकस्था भृगूत्तम ॥ १५ ॥
गङ्गातोयाप्लुता राम दिवमक्षय्यमागताः ॥ गङ्गातोयेन यस्यास्थि यावत्संस्र्यं निमज्जति ॥ १६ ॥ तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ॥ १७ ॥ तेषामपि तथा गङ्गातोये स्यात्पतनं हितम् ॥ पतितानां
तु यद्दत्तं श्राद्धं चाथ जलाञ्जलिः ॥ १८ ॥ न तत्प्रेतः समाप्नोति गगने प्रविलीयते ॥ अनुग्रहेण सहिता प्रेतस्य पतितस्य
तु ॥ १९ ॥ नारायणवलिः कार्यस्तेनानुग्रह्मश्नुते ॥ अनादिनिधनो देवः शंखचक्रगदाधरः ॥ २० ॥ अक्षयः पुण्डरीकाक्षस्तन्न दत्तं
न नश्यति ॥ यथाकथंचिदुद्दद्दष्टं देवदेवे जनार्दने ॥ २१ ॥ अविनाशि तु तद्विद्धि पात्रमेको जनार्दनः ॥ परस्मात्प्रापायते यस्मात्तस्मात्पात्रं प्रकी
र्तितम् ॥ पततां त्राणदस्त्वेको देवो मधुनिषूदनः ॥ २२॥ अमितवलपराक्रमो महौजा दुरितभयापहरो हरिर्महात्मा ॥ अधशतपतिमलैर्नश्च सेव्यमा
नो भवति नृणां त्रिदिवोप वासुदेवः ॥२३॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने प्रेतनिर्हरणो नाम षट्सप्ततितमो
ऽध्यायः ॥ ७६ ॥ ॥ पुष्कर उवाच ॥ अशौचे तु व्यतिक्रान्ते स्नातः प्रयतमानसः ॥ स्नातानलङ्कृतानभक्त्या गन्धवस्त्रोज्ज्वलन्दिजान् ॥१॥
उद्दङ्मुखान्वोजयति स्वासीनान्सुसमाहितान् ॥ मन्त्रोहाश्चान कर्त्तव्यास्त्वेकवचनेन च ॥ २ ॥ उच्छिष्टसन्निधौवर्कं तथा पिण्डं निवशेयेत् ॥
कीर्त्तयेच्च तथा तस्य नामगोत्रे समाहितः ॥ ३ ॥ भुक्तवत्सु च विप्रेषु पूजितेषु तथा धनैः ॥ विसृष्ट्याक्षयतोयेषु गोत्रनामाभिकीर्तनैः ॥ ४ ॥ चतुर
ङ्गुलविस्तारमुत्खातं तावदन्तरम् ॥ वितस्तिर्दीर्घ कर्त्तव्यं कर्षणं च तथा त्रयम् ॥ ५ ॥ कर्षूणां तु समीपे च ज्वालयेज्ज्वलनत्रयम् ॥ सोमाय