विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 525, कुल 1001 में से
संदर्भ में पढ़ेंगान्धर्वराक्षसौ श्रेष्ठौ क्षत्रियस्यैव भार्गव ॥ पूर्वं विवाहात्कर्तव्यः शचीयागो भृगूत्तम ॥ २१ ॥ वैवाहिकैर्ऋक्षैः कुर्यात् कुम्भकारमृदा शचीम् ॥ सर्वलक्षणसंयुक्तां कुशलेन च शिल्पिना ॥ २२ ॥ तां नयेत्सरसस्तीरं नदीतीरमथापि वा ॥ सर्वभूषणसम्पन्ना सर्वास्त्वित्थंविवाहाः स्त्रियः ॥ २३ ॥ कौसुंभरक्तवसनाः सर्वाः स्युः शास्त्रपाणयः ॥ माल्यानुलेपनैर्गन्धैर्धूपैःपुष्पैस्तथैव च ॥ २४ ॥ कौसुंभरक्तैर्वस्त्रैश्च भूषणैश्च शक्तितः ॥ ततः प्रपूज्य ताः साध्व्यो दिक्षु दत्त्वा बलिं शुभम् ॥ २५ ॥ संयम्य केशान्प्रयता गृहीत्वा च तथा शचीम् ॥ वाद्यगीतेन महता द्विजवाचनकेन च ॥ २६ ॥ गृहे प्रवेशयेत्पुंसां शक्रपत्नीमनिन्दिताम् ॥ त्रिसन्ध्यं तत्र सा पूज्या गन्धमाल्यान्नसम्पदा ॥ २७ ॥ वन्दिनीगोदाहसमये तत्र कालं निबोध मे ॥ प्रसूते केशवे राम न तु कार्यं कथञ्चन ॥ २८ ॥ न पौषे न तथा चैत्रे न चार्ककुजवासरे ॥ कृष्णत्रिभागे नैवान्त्ये नाद्ये शुक्रस्य भार्गव ॥ २९॥ तथा रिक्तातिथौ नैव न विष्टौ करणे तथा ॥ न शुक्रोऽस्तमनं प्राप्ते तथा चास्ते बृहस्पतौ ॥३०॥ शशांकेऽन्यग्रहाक्षैव विवाहो न प्रश- स्यते ॥ अर्कर्क्षाद्भौमयुक्ते वै व्यतीपातहते तथा ॥३१॥ दिव्यान्तरिक्षभौमेन तथोत्पातेन घातिते ॥ तथा शिशिरांश्वास्ते सैंहिकेययुते तथा ॥३२॥ वैवाहिकान्यतो वक्ष्ये नक्षत्राणि भृगूत्तम ॥ सौम्यं पित्र्यं च वायव्यं सावित्रं रोहिणं तथा ॥३३॥ उत्तरात्रितयं मूलं मैत्रं पौष्णं तथैव च ॥ मुहूर्त्तांश्च तथैतेषां शुभा अभिजिता सह ॥३४॥ मातृव्याख्यास्तथा लग्ने मातृव्याख्यास्तथांशकः ॥ अमावास्यास्य लग्नेऽपि मातृव्याख्यांशको हितः ॥३५॥ तृतीये च तथा षष्ठे दशमेकादशाष्टमे ॥ अर्कार्कभोमतनयाः प्रशस्ता न कुजोत्तमः ॥ ३६ ॥ सतान्त्याष्टमयोज्ञेषु शेषाः शस्ता ग्रहोत्तमाः ॥ तेषामपि तथा सूर्यश्चन्द्रः षष्ठो न शस्यते ॥ ३७ संकल्पविधिना कार्यो विवाहस्तदनन्तरम् ॥ वैवाहिकैर्ऋक्षैः कर्तव्यास्त्वथैव च चतुर्थिके ॥ ॥ ३८ ॥ न दातव्या महात्मना चतुरोद्वाहस्तथैकगाः ॥ अतः परं गृहे गच्छेदृतुकाले सदा स्त्रियम् ॥ ३९ ॥ पर्ववर्ज्यं सदा गच्छेदृतीणां वा सं- स्मरन्भवम् ॥ सर्वकालं रतिर्दत्ता तासां सत्यं भृगूत्तम ॥४०॥ परस्परातिक्रमणं दंपत्योः परिवर्जयेत् ॥ निष्कासनं तथा राम न कार्यमर्थिविद्- नम् ॥४१॥ अप्रजा रोगिणी मूढा तथा च कलहप्रिया ॥ कन्याप्रजा तथा या च या चैवाप्रियवादिनी ॥ ४२ ॥ एताः खल्विह विवक्तव्या गृहकार्यप- राङ्मुखीः ॥ अधिविन्ना विशेषेण पालनीया सुतं भवेत् ॥४३॥ धर्मकार्येषु सर्वेषु तथा ज्येष्ठां नियोजयेत् ॥ धर्मार्थी समौ राम दम्पत्योरुभ- यात्मकौ ॥ ४४॥ पोष्या च नित्यं परिपालनीया भार्या भवेद्धर्मपरायणस्य ॥ धर्मार्थकामान्सततं द्विजेन्द्र तांश्चेत्समन्यानानया स्वान् ॥ ४५ ॥
१ 'तिथावपि तथारिक्ते' इति ख० ।