विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 527, कुल 1001 में से
संदर्भ में पढ़ेंप्राप्य भवति रूपयौवनसंयुक्तः ॥ धनधान्यवति स्फीते कुले चैव प्रसूयते ॥ २६॥ रूपौदार्यगुणोपेताः प्रियश्लाघ्यात्यनिन्दिताः ॥ धर्मे मतिश्वास्य भवेद्यशसा च विराजते ॥ २७ ॥ तस्मात्सदा धर्मपरेण राम तीर्थेषु मुख्येषु सरस्सु चैव ॥ स्नानं च कार्यं सुमलापहर्तृ नाकप्रदं कामकरं सुखाय ॥२८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करेणोपाख्याने स्नानवर्णनो नामाष्टाशीतितमोऽध्यायः ॥ ८८॥ पुष्कर उवाच॥ माल्यं लक्ष्मीकरं नाम नित्यं शिरसि धारयेत् ॥ नान्यत्र धारयेन्मालो बहिर्गन्ध्यं न धारयेत् ॥ १॥ यच्च कण्टकिसम्भूतं कृष्णं रक्तं च भार्गव ॥ कण्टकियोऽपि यज्जातं शुक्लं धार्यं तु तद्भवेत् ॥२॥ कृष्णरक्ते तथा धार्ये यदि स्यातां जलोद्भवे ॥ चन्दनेनानुलेपेन कुङ्कुमागुरुभिस्तथा ॥३॥ कर्पूरेण तथाङ्गालि शुभेन च प्रियङ्गुना ॥ वस्त्रं नान्यधृतं धार्यं न रक्तं मलिने तथा ॥४॥ जीर्णं नापदशं चैव श्वेतं धार्यं प्रयत्नतः ॥ उपानहं नान्यधृतं ब्रह्मसूत्रं च धारयेत् ॥ ५ ॥ हीनेन्द्रिरीकांश्च बालैर्वृद्धैर्बुभुक्षितैः ॥ व्यालैर्दन्तावहैश्च न ब्रजेच्च कदाचन ॥ ६ ॥ स्नानभोजनपानादि तेषामादौ न चाचरेत् ॥ नैकः प्रपद्येद्ध्वानं नाद्यान्मार्कसहायवान् ॥ ७ ॥ न रात्रौ न च मध्याह्ने न च देवे प्रवर्षति ॥ न चातिविपमे वाते सन्ध्वयोश्च तथा द्विज ॥ ८ ॥ नासन्निरूहितपाने वा न वेगान्न च सन्ततम् ॥ सातपश्छत्रदात्राणः सोष्णीषश्च तथा चरेत् ॥ ९ ॥ चतुष्पथं न सः कुर्याद्दिव्यान्तांश्च वनस्पतीन् ॥ मङ्गल्यानि च सर्वाणि पथि कुर्यात्प्रदक्षिणम् ॥ १० ॥ अमङ्गल्यानि वामानि कर्तव्यानि विजानता ॥ वस्त्रस्य भूमिपालस्य स्नातकस्याथ चक्रिणः ॥ ११॥ भारक्रान्तस्य गुर्विण्याः पन्था देयः प्रयत्नतः ॥ व्यालयुद्धं न चेक्षेत विना विषममास्थितः ॥१२॥ न पश्येच्चार्कमुद्यन्तं नास्तं यान्तं न चाम्भसि ॥ तिरस्कृतं तु वस्त्रेण न क्रुद्धस्य गुरोर्मुखम् ॥ १३॥ न स्त्रीं स्रवन्ती नोदक्यां न नग्नां नान्यसङ्ग ताम् ॥ न पत्नीं भोजनस्वप्नस्नानासक्तां विसूपणाम् ॥ १४ ॥ नाञ्जयन्तीं स्वके नेत्रे नरश्लीलं किञ्चिदेव तु ॥ नानास्थानं न पश्येच्च न पश्येच्च महानसम् ॥ १५॥ जलाशयस्तटस्थांश्च न पश्येत्तु कदाचन ॥ हीनाङ्गैरधिकाङ्गैश्च बालैर्वृद्धैर्बुभुक्षितैः ॥ १६ ॥ व्यालैर्दन्तावैश्च न ब्रजेत् कदाचन ॥ स्नानभोजनपानादि तेषामादौ न चाचरेत् ॥ १७ ॥ चतुष्पथस्तुपादाङ्गारशन्त्यवेश्मवाटवीस्तथा ॥ १८ ॥ कार्पासास्थि तथा भस्म नाक्रमेदश्व कुस्तितम् ॥ अन्तःपुरं ऋतुगृहं परदूतगृहं तथा ॥ १९ ॥ नरोहेद्विषमां नावं न वृक्षं न च पर्वतम् ॥ न लोहेन न काष्ठेन नाश्मना च फलद्रुमात् ॥ २० ॥ न पातयेत् कुर्वीत सर्वत्र च कुतूहलम् ॥ अर्धायतनशालेषु सर्वत्र स्यात्कुतूहली ॥ २१॥ दण्डेन करपातैर्वा न कुर्यान्मधु वादनम् ॥ तृणच्छेदं न कुर्वीत न च लोष्टामिम्मर्दनम् ॥ २२ ॥ नखानां भक्षणं चैव दन्तानां कट्टनं तथा ॥ छेदनं च