विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 538, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध०
॥२४५॥
द्वि० खं०
अ० ९९
॥२४५॥
द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने साधारणस्नानवर्णनन्नामाष्टनवतिमितोऽध्यायः ॥ ९८ ॥ पुष्कर उवाच ॥ कृत्तिकास्नानमुक्तं ते वह्निकर्मप्रसाधनम् ॥ तथाग्निनाशनं मुख्यं वह्नुचाद्येयप्रदं तथा ॥ १॥ रोहिणीषु तथा स्नानं प्रोक्तं पुत्रप्रदं तव ॥ ब्रह्मवर्चसकामस्य स्नानं सौम्यमिदं शृणु ॥ २ ॥ पूर्णमोद्भवैः पत्रैः कृत्वा राम घटत्रयम् ॥ पूर्णचन्द्राङ्कितैः शुक्तैः सूत्रमाल्यैरलङ्कृतम् ॥ ३ ॥ तेन संस्नापितः पश्चात्क्षौमवासा यथाविधि ॥ देवतापूजनं कृत्वा घृतं हुत्वा हुताशने ॥ ४ ॥ ओङ्कारपूतं सोमाय क्षीरं हुत्वा तथा जले ॥ निवेदनीयं सोमाय तथा पितृभ्यस्त्रयम् ॥ ५ ॥ मृगशृङ्गेण धूपं च तथा दद्यादनन्तरम् ॥ सोमेन च मणिर्धार्यो जातरूपपरिष्कृतः ॥ ६ ॥ दक्षिणा चात्र दातव्या शुभ्रधेनुः पयस्विनी ॥ कृत्वा तृप्तित्वमाप्नोति ब्रह्मवर्चससुत्तमम् ॥ ७ ॥ घृताश्रमम्बुपूर्णेन स्नातः कुम्बेन मानवः ॥ पट्टिशांलङ्कृतेनाथ रक्तचन्दनवारिणा ॥ ८ ॥ रुद्राय मांसं रुचिरं तथा च मधु पायसम् ॥ कृष्णानि वासांसि तथा धूपं गुग्गुलम्वेव च ॥ ९॥ दूत्यादृष्टेन च तथा होमो मन्त्रैर्विधीयते ॥ कृष्णानि वासांसि तथा दातव्या दक्षिणा भवेत् ॥ १० ॥ मेषाश्वनखलोमानि गर्दभस्य विशेषतः ॥ आयसी तु मणौ कृत्वा द्वारि शस्त्रांनिधापयेत् ॥ ११ ॥ आद्रास्नानमिदं राम सर्वशत्रुविनाशनम् ॥ सर्वगन्धैः फलैर्बीजैः पूर्णं कृत्वा घटत्रयम् ॥ १२ ॥ स्नापनेन तैनं कर्तव्यमादित्यैस्तदनन्तरम् ॥ नवनीतं च कुल्माषं मत्स्यांश्चैव स्वरांस्तथा ॥ १३ ॥ निवेदयेच्चैव तथा मत्स्यानि सुरभीणि च ॥ घृताक्षताभ्यां धूपेन होमश्चैव विधीयते ॥ १४ ॥ तद्दिने तु नदीं यत्र योगे गच्छतु तां मृदा ॥ सुवर्णरूप्यपञ्चञ्च धारणीयास्तथा मणिः ॥ १५ ॥ दक्षिणा चात्र दातव्या राम धेनुः पयस्विनी ॥ स्नातः पुनर्बसावेव ज्ञातिश्रैष्ठ्यमवाप्नुयात् ॥ १६ ॥ पुन्नाम्ना सुमहाभाग यदीच्छेति तदाप्नुयात् ॥ गौरसर्षपकल्केन रामोत्सादितविग्रहः ॥१७॥ गव्याज्यपूर्णकुम्बेन स्नातः स्नास्तत्तथौषधैः ॥ अह्नात्सम्बरसंवीतः पायसं विनिवेदयेत् ॥ १८ ॥ शुक्लानि चैव माल्यानि वासांस्युपहतानि च ॥ होमश्च पायसेनात्र धूपं गन्धैश्च दापयेत् ॥ १९ ॥ मणिः शिरसि धार्यश्च दण्डेाथ ब्रह्मचारिणः ॥ सुवर्णगर्भे पुष्पेण स्नानं पुष्टिकरे भवेत् ॥२०॥ दक्षिणा चात्र दातव्या घृतं कनकसंयुतम् ॥ षड्ध्वजां नीलसूत्रेण नीलपुष्पैश्च वेष्टिताम् ॥ २१ ॥ सर्पपान्वेष्वेष्टयाम नागपुष्पेण शूरिणा ॥ वल्मीकानां सहस्तस्य तथैवाग्रमृदा द्विजः ॥२२॥तैः स्नातः सर्वनागेभ्यो मधुलाजां निवेदयेत्॥गन्धोदकं तथा धानाः षट्कृत्वाथ पुनःपुनः॥२३॥ क्षीरेण होमः कर्त्तव्यो धूपः सर्वत्वचा तथा ॥ सर्पत्वङ् नागपुष्पं च सुवर्णं च मणिर्भवेत् ॥ २४ ॥ दक्षिणा चात्र दातव्या शयनीयं मनोहरम् ॥ स्नानं सार्पेण ते प्रोक्तं भोग्यं सिद्धिकरं भवेत् ॥२५॥ श्रीमद् वा महाभाग कथितं कामतस्तव ॥ पुष्यवैरितिलैः कृष्णैर्घटषट्कं तु पूरयेत् ॥२६॥