विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 537, कुल 1001 में से
संदर्भ में पढ़ेंयुक्तिस्तिलैः कृष्णैर्द्विजोत्तम ॥ ४ ॥ वह्निं कुमारं शशिनं खड्गं वरुणमेव च ॥ पूजयेत्कृत्तिकाश्चैव गन्धमाल्यान्नसम्पदा ॥ ५ ॥ पीतरक्तैस्तथा वर्णैघृतदीप्तैस्तथैव च ॥ दशा गव्येन लाजामिरिमन्थेन चाप्यथ ॥ ६ ॥ कुसम्भैरोहिणीकामिश्च अपूपैश्च पृथग्विधैः ॥ देवतानां यथोक्तानां प्रियङ्गु जुहुयात्ततः ॥ ७ ॥ चन्दनश्च मयुराणां लोमानि मनुजोत्तम ॥ अग्रिमन्व्यगृहाद्धूमं कृत्वा रुक्माङ्गदं मणिम् ॥ ८ ॥ धारये दक्षिणां दद्याच्छक्त्या कनकमेव च ॥ श्वेतवासास्ततः पश्चात्पूजयेन्मधुसूदनम् ॥ ९ ॥ कर्मैतत्सततं कृत्वा वह्नायधानमथाप्नुयात् ॥ कर्मतद्वक्तुं रिपुनाशकारि सर्वाङ्गिकर्मप्रसमृद्धिदं च ॥ धन्यं यशस्यं च तथैव काम्यं नित्यं कृतं धर्मविदां वरिष्ठ ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयकाण्डे मा० सं० रामं प्रति पुष्करोपाख्याने कृत्तिकास्नानवर्णनन्नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥ राम उवाच ॥ अग्न्य्याधानमथाप्नोति शत्रुनाशमथापि वा ॥ स्वेच्छया कर्मणा केन सदा याद्योग्यताम्परम् ॥ १ ॥ शत्रुनाशकरं कर्म कथयस्व.ततः परम् ॥ तदहं श्रोतुमिच्छामि तत्र श्रद्धा सदा मम ॥ २ ॥ पुष्कर उवाच ॥ कृत्तोपवासो याम्यर्क्षे कृत्तिकासु सदैव तु ॥ पूजयेद्वासुदेवं तु कुङ्कुमेन सुग न्धिना ॥३॥ रक्तैश्च कुसुमैर्हृद्यैर्धूपं दद्याच्च गुग्गुलम् ॥ घृतेन दीपं दद्याच्च रक्तवर्णं तथैव च ॥४॥ निवेद्नीयं देवाय तथा सर्वं निवेदयेत् ॥ हुतव्यं सुसमिद्धेऽग्नौ तथैवान्नं शुभं हविः ॥ आयुधानि च देयानि ब्राह्मणेभ्यश्च दक्षिणा ॥५ ॥ कर्मैतद्युक्तं रिपुनाशकारि धार्यं सदा शत्रुगणप्रमाथि ॥ कृत्वैतदभ्यं रिपुनाशमाशु प्राप्नोति मर्त्यो न हि संशयोऽत्र ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने शत्रुनाशकर्मवर्णनन्नाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥ राम उवाच ॥ कर्माणि त्वं समाचक्ष्व स्नानान्यन्यानि देवज ॥ केन स्नानेन धर्मज्ञ कं कं काममवाप्नुयात् ॥ १॥ पुष्कर उवाच ॥ पुरोधाः सोपवासस्तु सर्वस्नानानि कारयेत् ॥ सोपवासस्य धर्मज्ञ तथा सर्वत्र मानवः ॥ २ ॥ अका मबुलाः कलशाः कार्याः सर्वेषु भार्गव ॥ पूजा चन्द्रमसः कार्या वरुणस्य तथैव च ॥ ३ ॥ नक्षत्रदेवतानां च नक्षत्रस्य तथैव च ॥ सर्वगन्ध्याप्रमेयस्य वासुदेवस्य चाप्यथा ॥४॥येषां च पूजा कर्तव्या तेषां च जुहुयाद्धविः ॥ कार्यं स्नानं सदा कुर्यान्नक्षत्रं तु न लंघयेत् ॥ मन्त्र चेत्स्नानकलशं मन्त्रेणानेन भार्गव ॥५ ॥ मन्त्रः-“आपः सोमाद्याः संबभूवुः पवित्राभिः पावनः सोमसूर्यस्थिता वायुना नष्टदोषाश्च यौ नित्य मच्छेद्यस्ते सत्कृत्याप्सु स्युः स्वाहा शान्तिः श्रीर्निवृष्टिर्मह्यं भूयासं सर्वशिरः ॥ साऽश्रुस्वाहेति सूर्यः संस्थित।वायुनामाष्टदोषा ॥” कर्मतदुक्तं रिपु नाशकारि साधारणं स्नानमिदं पवित्रम् ॥ अतः परं ते कथयामि राम स्नानानि कार्यानि सुखप्रदानि ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे