विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 551, कुल 1001 में से
संदर्भ में पढ़ेंताम्रोदकैस्ततः ॥ तथा रत्नोदकस्नानं सङ्ग्रामविजयप्रवहम् ॥ ७ ॥ वैदूर्य्य मध्यतः कृत्वा प्रवालैः परिवारयेत् ॥ तेन पात्रेण यत्स्नानं सर्वकाम-
करं हितम् ॥ ८ ॥ स्नानं सर्वौषधैर्मुख्यं विवादे विजयप्रदम् ॥ सर्वगन्धोदकस्नानं सौभाग्यारोग्यकारकम् ॥ ९ ॥ तथा बीजोदकस्नानं
सर्वकर्मप्रसाधकम् ॥ तथैवामलकस्नानमलक्ष्मीनाशनं परम् ॥ १० ॥ तिलसिद्धार्थकैः स्नानममङ्गल्यप्रणाशनम् ॥ केवलैर्वा
तिलैः स्नानमथवा गौरसर्षपैः ॥ ११ ॥ स्नानं प्रियङ्गुना प्रोक्तं तथा सौभाग्यवर्धनम् ॥ सौभाग्यकं तथा स्नानं नागका-
न्ताप्रियङ्गुभिः ॥ १२ ॥ पुरोचारुकुकुन्धैश्च तथैव च विनिर्दिशेत् ॥ धात्रीफलेन पद्मेश्च तथामलकवारिणा ॥ १३ ॥ लक्ष्मीवृद्धिकरं
स्नानं कथितं भार्गोवित्तम ॥ पद्मोत्पलकदम्बैश्च तथा लक्ष्मीविवर्धनम् ॥ १४ ॥ बलामतिबलां चैव तथा नागबलामपि ॥ बलीं
मोचां चतुर्थी तु स्नानं वै बलवर्धनम् ॥ १५ ॥ ब्रह्मार्काकोटकीमूलं कुमारी पद्मचारिणी ॥ स्नाने रोगविनाशाय स्मृताः प्रत्येकशो द्विज ॥ १६ ॥
मांसीमुराचोरकनागपुष्पैः सेनागदानैरतिनाशकारि ॥ तुरुष्ककङ्कोलकुजातिपूगैः फलैः समस्तैः सुतरां प्रद्यात् ॥ १७ ॥ इति श्रीविष्णुधर्मोत्तरे
द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने नानाविद्वन्स्नानवर्णनन्नाम सप्तोत्तराशततमोऽध्यायः ॥ १०७॥ राम उवाच ॥ स्नानानामिह सर्वे-
षां यत्स्नानमतिरिच्यते ॥ तन्ममाचक्ष्व सकलं सर्वकल्मषनाशनम् ॥ १॥ पुष्कर उवाच ॥ शृणु पादोदकस्नानं सर्वकिल्बिषनाशनम् ॥ श्रवणक्षं
विना ह्येतद्भवत्यर्धफल यतः ॥ २ ॥ ततः कार्यं प्रयत्नेन श्रवणर्क्षे विशेषतः ॥ अथोत्तरासु पाढासु निराहारो जितेन्द्रियः ॥ ३ ॥ सर्वौषधैः सर्व-
गन्धैर्देवदेवस्य चक्रिणः ॥ पादं प्रलेपयेद्विद्वान्क्रमेण चतुरात्मनः ॥ ४ ॥ ततस्तु कलशान्कुर्याच्चतुरः सुदृढान्नरान् ॥ सौवर्णान्राजतांस्ताम्रानथ
वापि महीमयान् ॥ ५ ॥ ततोऽनिरुद्धचरणौ कूपादिश्चैः क्षालयेत्ततः ॥ ताभिस्तु कलशं पूर्णं स्थापनीयं तदग्रतः ॥ ६ ॥ ततः प्रद्युम्नचरणौ
क्षाल्यौ प्रस्रवणोदकैः ॥ कलशं पूरितं तच्च भवेत्स्थाप्यं तदग्रतः ॥ ७ ॥ संकर्षणस्य चरणौ क्षाल्यौ तोयैश्च सारसैः ॥ तैस्तु संपूर्णकलशं स्थाप्यं
तस्याग्रतो भवेत् ॥ ८ ॥ वासुदेवस्य चरणौ नादेयैः क्षाल्यदूध्रुवः ॥ कलशं पूरितं तैश्च स्थापनीयं तदग्रतः ॥ ९ ॥ ततः पूजा तु कर्तव्या यथा-
वच्चतुरात्मनः ॥ कलशान्पूजयेत्तंश्च गन्धमाल्यफलक्षतैः ॥ १० ॥ ततः प्राते द्वितीयेऽह्नि स्नातः पूर्वमुपोषितः ॥ सम्बुध्वशानिनिकुरुद्यै
स्नाप्यश्च कटुको भवेत् ॥ ११ ॥ प्रद्युम्नस्य च देवस्य ततः संकर्षणस्य च ॥ ततश्च वासुदेवस्य यथा गमस्य चक्रिणः ॥ १२ ॥ ( पवित्रमन्त्रैः
१ 'स्ततां समस्ताशुभनाशकारि' इति ख० ।
२ 'कलशो' इति पाठान्तरम् ।