विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 550, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० द्वि० खं० अ० १०७ ॥२५१॥
चेद्ब्राह्मणाद्द्वादशद्वयुग्मं गुरोरपि ॥ २६ ॥ विनायकस्नानमिदं यशस्यं रक्षोहरणं विघ्नविनाशकारि ॥ सर्वार्थमद्यं रिपुनाशनं च कर्तव्यमेतन्नियमेन राम ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने विनायकस्नानवर्णनंनाम पञ्चोत्तरशततमोऽध्यायः ॥ १०५ ॥ पुष्कर उवाच ॥ स्नानमन्यत्प्रवक्ष्यामि तवाहं दुरितापहम् ॥ दानेनेन्द्राय भुवने यज्जगादेशानः पुरा ॥ १ ॥ धन्यं यशस्यमायुष्यं सर्वशत्रुक्षयं- करम् ॥ प्रभातायां तु शर्वर्यां भास्करोऽभ्युदिते तथा ॥ २ ॥ स्नायीत भार्गवे श्रेष्ठ विधिदृष्टेन कर्मणा ॥ सौवर्णं राजतं कुम्भमथवापि महीम- यम् ॥ ३ ॥ नादेयैः सागरैस्तोयैः कल्पयित्वा यथाविधि ॥ ओषधीर्विन्यसेत्तत्र समभागाः सुवर्णिनः ॥ ४ ॥ जया च विजया चैव तथा सूक्ष्मफलानि च ॥ प्रसन्नासुखबीजानि भाण्डीरकुसुमानि च ॥ ५ ॥ क्षीरजापानिर्मात्यं देवीन्सत्सारमेव च ॥ कष्टीवराङ्गना चैव गजेन्द्रस्य च मञ्जरी ॥ ६ ॥ क्षुद्रजं करजं चैव घने द्वेद्धे विभावरी ॥ महौषं पूर्तगं चैव सुवं यक्षमुखं तथा ॥ ७ ॥ शशाङ्कमुङ्गपद्मं च दानं च करिणस्त- था ॥ ओषध्यः कथितास्तुभ्यं दाने मन्त्रमतः शृणु ॥ ८ ॥ ( ॐनमो भगवते रुद्राय धवलपाण्डुरोपविचितभस्मउल्ललितगात्राय ॥ तद्यथा ॥ जय जय विजयविजय सर्वोच्छ्रनसुकरूय कलहविग्रहविवादेषु भञ्जभञ्ज मध्यमथ सर्वत्र प्रत्यक्षिकों शोंऽसौ युगान्तकाले ध्वक्षस्तैरिमां पूजां रौद्रीं मृतिसहस्तां मुपस्त्वां रक्षत जीविकां संवर्तकाग्नितुल्यञ्च त्रिपुरांतिकरः यः सर्वदेवमयः सोऽपि तव रक्षतु जीवितं निलि निलि निलि निलि स्वाहा ॥ ) एवं स्नातस्त्वनेनैव गात्रेण तिलतण्डुलम् ॥ घृताक्तं ज्वलिते वह्नौ जुहुयात्प्रयतः सदा ॥ ९ ॥ ततः सम्पूजनं कुर्याद्देवदेवस्य शूलिनः ॥ घृतक्षीरा- भिषेकेण गन्धपुष्पफलैर्नवैः ॥ १० ॥ धूपदीपनमस्कारैस्तथा बलिना भूरिणा ॥ गीतवाद्यैः सुमधुरैर्ब्राह्मणान्स्वस्तिवाचनैः ॥ ११ ॥ माहेश्वरस्ना- नमिदं हि कृत्वा रक्षोहरणं शत्रुनिबर्हणं च ॥ कामानवाप्नोति नरस्तु सर्वान्प्रयान्न कांचिन्मनसेच्र्छतीति ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे द्विती- यखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने माहेश्वरस्नानवर्णनन्नाम षडुत्तरशततमोऽध्यायः ॥ १०६ ॥ पुष्कर उवाच ॥ स्नानान्यान्यानि ते वच्मि निबोध गदतो मम ॥ रक्षोघ्नानि यशस्यानि मङ्गल्यानि विशेषतः ॥ १ ॥ स्नानं घृतेन कथितं चायुषो वर्धनं परम् ॥ राम गोशकृता स्नानं परं लक्ष्मीविवर्धनम् ॥ २ ॥ स्नानं च कथितं दध्ना परं लक्ष्मीविवर्धनम् ॥ तथा दध्योदकस्नानं सर्वपापनिबर्हणम् ॥ ३ ॥ पलाशविश्वल्व- कमलकुशस्नानं पुरो हितम् ॥ वचा हरिद्रा मञ्जिष्ठा तगरं चारकं तथा ॥ ४ ॥ स्नानमेतद्दिनिर्दिष्टं रक्षोघ्नं पापसूदनम् ॥ वचाहरिद्रया युक्तं स्नानं रक्षोहरणं परम् ॥ ५ ॥ आयुष्यं च यशस्यं च धन्यं मेधाविवर्धनम् ॥ स्नानं पवित्रं मङ्गल्यं तथा काञ्चनवारिणा ॥ ६ ॥ क्रमादनन्तरं किञ्चिद्रूप्य-
॥२५१॥