विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 549, कुल 1001 में से
संदर्भ में पढ़ेंशततमोऽध्यायः ॥ १०४ ॥ राम उवाच ॥ स्नानमन्यत्समाचक्ष्व भगवन्दुर्गितापहम् ॥ विनायकोपसृष्टानां सर्वकर्मप्रसाधकम् ॥ १ ॥
पुष्कर उवाच ॥ विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः ॥ गणानामधिपत्ये च केशवेन पितामहैः ॥ २ ॥ तेनोपसृष्टो यस्तस्य लक्षणानि
निबोध मे ॥ स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डं च पश्यति ॥ ३ ॥ काषायवाससश्चैव क्रव्यादांश्चाधिरोहति ॥ अन्त्यजैर्गर्दभैरुष्ट्रैः
सहैकत्रावतिष्ठते ॥ ४ ॥ व्रजमानस्तथात्मानं मन्यतेऽनुगतं परैः ॥ विमना विफलारम्भः संसीदत्यनिमित्ततः ॥ ५ ॥ तेनोपसृष्टो लभते न
राज्यं राजनन्दनः ॥ न वा कुमारी च भर्त्तारमपत्यं गर्भमङ्गना ॥ ६ ॥ आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा ॥ वणिङ् न
लाभमाप्नोति न कृषिं तु कृषीवलः ॥ ७ ॥ स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् ॥ हस्त्यृक्षपुष्याश्वयुक्सौम्यवैष्णवान्त्यान्तभे शुभे ॥ ८ ॥
नक्षत्रे च मुहूर्त्ते च मैत्रे वा ब्रह्मदैवते ॥ चर्मण्यानुडुहे रक्ते स्थाप्यं भद्रासनं भवेत् ॥ ९ ॥ भद्रासनोपविष्टस्य स्वस्ति वाच्यं द्विजोत्तमान् ॥ गौर
सर्षपकल्केन मेध्येनोत्सादितस्य च ॥ १० ॥ सर्वौषधैः सर्वगन्धैः प्रलिप्तशिरसस्तथा ॥ चतुर्भिः कलशैः कार्यं स्नपनं मन्त्रसंयुतम् ॥ ११ ॥ तथ
कवर्णाः कलशाः कर्तव्यास्ते हृदाम्भसा ॥ अश्वस्थानाद्गजास्थानाद्वल्मीकात्सङ्गमाद्ध्रदात् ॥ १२ ॥ मृत्तिकां रोचनं गन्धान्गुग्गुलं तेषु निक्षि
पेत् ॥ सर्वौषधीश्च बीजानि स्नानमन्त्रानतः शृणु ॥ १३ ॥ सहस्राक्षं शतधारंसुपर्णिः पावनं कृतम् ॥ तेन त्वामभिषिञ्चामः पावमानीः पुनन्तु
ते ॥ १४ ॥ भगं ते वरुणो राजा भगं शुक्रो बृहस्पतिः ॥ भगमिन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ १५ ॥ यत्ते केशेषु दौर्भाग्यं सीमन्ते
यच्च मूर्धनि ॥ ललाटकर्णयोर्हष्णोरपास्तन्दन्तु ते सदा ॥ १६ ॥ दर्भीपिञ्जलमादाय वामहस्ते ततो गुरुः ॥ स्नातस्य सार्षपं तैलं जुहुयाद्दुव्व
रेण तु ॥ १७ ॥ जुहुयान्मूर्ध्नि धर्मेण चतस्रोऽन्यैश्च नामभिः ॥ ॐकारपूर्वैर्धर्मज्ञ स्वाहाकारसमन्वितैः ॥ १८ ॥ मिताय समितायाथ सालङ्कटङ्कटाय
च ॥ कूष्माण्डराजपुत्राय तथैव च महात्मने ॥ १९ ॥ नामभिर्बलिमन्त्रैश्च वषट्कारसमन्वितैः ॥ दद्याच्चतुष्पथे शीर्षे कुशानास्तीर्य सर्वतः ॥ २० ॥
कृतशक्तोस्तण्डुलांश्च पललौदनमेव च ॥ मत्स्यान्पक्कांस्तथैवामान्मांसमेतावदेव तु ॥ २१ ॥ पुष्पं चित्रं सुगन्ध्यं तु सुरां च त्रिविधामपि ॥ मूलकं
पूरिकापूपांस्तथैवेण्डुरिकाणि च ॥ २२ ॥ एतान्सर्वांनुपाहृत्य भूमौ कृत्वा ततः शिरः ॥ विनायकस्य जननीमुपतिष्ठेत्ततोऽम्बिकाम् ॥ २३ ॥
रूपं देहि यशो देहि सौभाग्यं सुभगे मम ॥ पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ २४ ॥ ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥ भोज
१ ‘ हृदगोकुलात् ’ इति ख० ।
२ ‘ पूजार्काङ्गुरसिन्धूपास्तन्नेत्रेष्विषडकानि च ’ इति पाठान्तरम् ।