भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 548, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 548

वि० ध० ॥२५०॥

द्वि० खं० अ० १०४

परमान्नेन श्वेतमाल्यानुलेपनैः ॥ १०१ ॥ फलैः प्रसूनैश्च तथा केशवाय हरेद्बलिम् ॥ क्षीरेण परमान्नेन दध्ना सकृसरेण च ॥ १०२ ॥ फलैः का- लोद्भवैः पुष्पैः शङ्कराय हरेद्बलिम् ॥ अपूपैः परमान्नेन भक्ष्यैः क्षीरेण सर्पिषा ॥ १०३ ॥ माल्यानुलेपनैः शुक्लैर्महेन्द्राय हरेद्बलिम् ॥ यवानां च तिलानां च गोधूमानां तथा सक्तून् ॥ १०४ ॥ भक्ष्यैः सगुडसर्पिष्कैर्बलिं कुर्यात्तु वह्नये ॥ गुडेनगुडपूपांश्चपक्वंमांसं तथामिषम् ॥ १०५ ॥ यमाय च बलिं दद्यात्कृष्णमाल्यानुलेपनम् ॥ पक्वंमांसं तथा मांसं कूष्माण्डाम्लानुलेपनम् ॥ १०६ ॥ विरूपाक्षाय तु सुरां दद्यात्सोवीरकं तथा ॥ मुद्गांश्चस्तिलपूपांश्चलजान्मन्दिरंस्तथा ॥ १०७ ॥ वरुणाय बलिं दद्यात्पीतं माल्यादिकं तथा ॥ यवगोधूमचणकान्भक्तांस्त्वक्सुरसारवान् ॥ ॥ १०८ ॥ कूल्माषघृतसंयुक्तान्बलिं दद्यात्तु वायवे ॥ मत्स्यांश्च मधुसंयुक्तान्गुडमिश्रांस्तथामिषम् ॥ १०९ ॥ चित्रं माल्यं कुंकुमं च कुबेराय हरेद्बलिम् ॥ शिम्बिधान्यान्यभग्नांश्चशाल्यन्नं सगुडं दधि ॥ ११० ॥ ईशानाय बलिं दद्याच्छुक्लमाल्यानुलेपनैः ॥ शुक्लोदनं शुक्लमाल्यं मूलाद्यो- पहरेद्बलिम् ॥ १११॥ तथा पञ्चरसैः सिद्धं दद्याद्दिक्तां बलिंक्रमात् ॥ कुसरं गन्धपुष्पाढ्यं दद्याच्छुक्लाय पायसम्॥ ११२॥ फलोदनं रक्तमाल्यं दद्या- च्छुक्लये तथा बलिम् ॥ स्नानमण्डलेभ्योऽपि बलिं दद्यात्ततो वलीम्॥११३॥वालकींस्तदन्कान्भक्ष्यान्फलानि विविधानि च ॥ मत्स्यान्मिषं सहि- धिं पायसं तिलतण्डुलम् ॥ ११४ ॥ संकृन्दानि हृद्यं भूतेभ्यो बलिमाहरेत् ॥ ॐकाराद्यैश्चतुर्थ्यन्तैः स्वाहाकारसमन्वितैः ॥ ११५॥ राज्याभि- षेकमन्त्रैश्चैतद्देतानां पृथक्पृथक् ॥ नामभिर्जुहुयाद्वह्नौ यथाश्रद्धं यथाश्रुतम् ॥ ११६॥ पूर्णाहुतिं ततो दत्त्वा देया विप्रेषु दक्षिणा ॥ कनकं रजतं गावो वासांसि विविधानि च ॥ ११७ ॥ कर्त्रे च दक्षिणा देया तथा राम विशेषतः ॥ दत्तं वस्त्रादि देवेभ्यस्तथा स्नानघटादिकम् ॥ ११८ ॥ कर्ता यथेष्टं विभजेत्तस्य भागो हि स स्मृतः ॥ इत्येतच्च वदनं दृष्ट्वा नमस्कृत्य च देवताः ॥ ११९ ॥ मङ्गल्यालम्भनं कृत्वा फलपाणिर्बहिर्मुखः ॥ तस्माद्देशाद्विनिर्गत्य गृहं यायात्स्वकं ॥ १२० ॥ तत्र तिष्ठेद्धविष्याशी ब्रह्मचारी च तां निशाम् ॥ स्नापितो ब्रह्मभूतेन स्नानेनायं यथा भवेत् ॥ १२१ ॥ सर्वान्कामानवाप्नोति स्वर्गलोकं च गच्छति ॥ पुरा देवासुरे युद्धे शक्रायैतद् बृहस्पतिः ॥ १२२॥ कृतवान्पुरुहूताय ततः शक्रः सुराधिपः ॥ जघान दैत्यकुल्यानां नवतीनव भार्गव ॥ १२३ ॥ धन्यं यशस्यं रिपुनाशकारि रक्षोहनं पापहरं पवित्रम् ॥ रोगापहं विघ्नविनाशकारि स्नानं मया ते विहितं यथार्थम्॥ १२४॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखंडे मा० सं० रामं प्रति पुष्करोपाख्याने दिक्पालस्नानवर्णनं नाम चतुरूत्तर

॥२५०॥


१ 'बद्याय' पाठान्तरमेतत् । २ 'यकृद्दन्ताणि' इति पाठान्तरम् ।