विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 547, कुल 1001 में से
संदर्भ में पढ़ेंकायस्थां च वयस्थां च बृहतीं बहुपुत्रिकाम् ॥ सहस्रशतवीर्ये च त्रायमाणां कुटुम्बराम् ॥ ७८ ॥ अतिच्छत्रां तथा च्छत्रां जीवन्तीमपराजि- तां ॥ जटिलां पूतनां कीर्शा सुरां यक्षसुरां तथा ॥ ७९ ॥ अवीतराक्षसीं वीरां स्थिरां भद्रां यशोबलाम् ॥ शङ्खपुष्पीं विष्णुदन्तां नाकु- लीं गन्धनाकुलीम् ॥ ८० ॥ गोलोम्यतिबले चैव व्याघ्रीमाश्र्ववतीं तथा ॥ श्यामां ज्योतिष्मतीं चैव तेषु कुम्भेषु निक्षिपेत् ॥ ८१ ॥ चन्दनोशीरनगरकुम्भमागुरुकेसरान् ॥ त्वक्पत्रमुस्तह्रीवेरप्रियङ्गुत्वग्दलार्वसान्तथा ॥८२॥ गन्धमांसीं तथा स्पृक्कां रोचनं रामकं त्रुटिम् ॥ कशीरुकामु- त्तानं च ककुभं पद्मकं तथा ॥ ८३ ॥ कस्तूरिकां तरुष्कं च कर्पूरं नाडिकं तथा ॥ जातीफलं लवङ्गञ्च कक्कोलैः सह चूर्णिताः ॥ ८४ ॥ गन्धद्रव्याणि चान्यानि यथालाभं विनिक्षिपेत् ॥ श्र्वेता रक्ता तथा पीता कृष्णा चैव हि मृत्तिका ॥ ८५ ॥ याश्र्वान्या विविधाः शस्ता मृत्तिका- स्ता निबोध मे ॥ वृषाश्र्वशृङ्गलक्ष्मीकोद्भवतातयन्नाद्गजात् ॥ ८६ ॥ अग्न्यागाराद्धस्तिदन्तात्सुभगानिर्गणिकागृहात् ॥ राजद्वारात्पुरद्वारात्कूप- पादान्नगृहातथा ॥ ८७ ॥ कुम्भकारगृहात्तथाः पश्चिम्याः श्रोत्रियालयात् ॥ ८९ ॥ इन्द्रनीलताडागाच्च ह्रदात्प्रस्रवणादपि ॥ ८८ ॥ चतुष्पथात्तसप्तथान्मृत्तिकाशर्करात्तथा ॥ गजाश्र्वगणशालाभ्यस्तथाचर्यणवेश्मनः ॥ ८९ ॥ अजाविकान्वितागाराज्ज्ञकोशान्महासनात् ॥ अशोकात्काश्र्वित्थवृक्षाणां समीपात्सफलस्य च ॥ ९० ॥ सदाध्ययनशालातो यज्ञभूमेश्च मृत्तिकाः ॥ प्रगृह्य सर्वाः सम्भृत्य पञ्चगव्यसमन्विताः ॥ ॥ ९१ ॥ सर्वबीजैः समायोज्य स्नानकुम्भेषु निक्षिपेत् ॥ ततः कुम्भान्नव प्रतिष्ठाप्य स्नाप्यं संस्थापयेद्द्बिजः ॥ ९२ ॥ मण्डलेषु क्रमेणैव दिशासु विदिशासु च ॥ पूर्वे मण्डलके स्नाप्यः श्र्वेतमाल्यानुलेपनः ॥ ९३ ॥ श्र्वेतैरेव घटै धार्यश्चतुर्भिर्ब्राह्मणैर्भवेत् ॥ एवं दक्षिणतस्तस्य सर्वं नीलं प्रकल्पयेत् ॥ ९४ ॥ कृष्णं च कल्पयेत्सर्वं तथा दक्षिणपश्चिमे ॥ ( पीतं प्रकल्पयेत्सर्वं तथा भागे तु पश्चिमे ॥ ) पश्चिमोत्तरयोः सर्वं शुक्लं प्रकल्पयेत् ॥ ९५ ॥ तथैवोत्तरदिग्भागे पञ्चवर्णं प्रकल्पयेत् ॥ प्रागुत्तरे तथा भागे चित्रं सर्वं प्रकल्पयेत् ॥ ९६ ॥ राज्याभिषेकविधि- तो मन्त्रश्चात्र विधीयते ॥ प्रत्येकमथ कुम्भेषु दिशासु विदिशासु च ॥ ९७ ॥ एवं स्नाप्यो महाभाग शङ्खपुण्याहनिस्वनैः ॥ स्नातः शुक्लाम्ब- रधरः श्र्वेतमाल्यानुलेपनः ॥ ९८ ॥ मण्डले तु विविधानां सुराणां पूजनं ततः ॥ कुर्वीत प्रयतः शुद्धि गन्धमाल्यार्घसम्पदा ॥ ९९ ॥ धूपैर्दीपेर्न- मस्कारैर्वस्त्राभरणैस्तथा ॥ अपूपान्पायसं भक्ष्याञ्छुक्लमाल्यानुलेपनम् ॥ १०० ॥ विविधं च फलं क्षीरं ब्राह्मणेभ्यो निवेदयेत् ॥ दशा च
१ बहुपुस्तके पाठान्तरम् ।