विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 576, कुल 1001 में से
संदर्भ में पढ़ेंवि० सं० ॥२६४॥ द्वि० सं० अ० १२३
एतच्च प्रत्याख्यातं महासान्तपनं स्मृतम् ॥ ३८ ॥ कृच्छ्रं पराकसंज्ञं स्याद्द्वादशाहमभोजनम् ॥ एकभक्तेन नक्तेन तथैवायाचितेन च ॥ ३९ ॥ उपवासेन चैकेन कृच्छ्रपादः प्रकीर्तितः ॥ एतदेव त्रिभ्यस्तं शिशुकृच्छ्रं प्रकीर्तितम् ॥ ४० ॥ त्र्यहं सायं त्र्यहं प्रातरहन्मह्यायाचितम् ॥ त्र्यहं परं च नाश्नीयात्प्राजापत्यं ऋन्दिजः ॥ ४१ ॥ पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् ॥ एकैकमुपवासं च सौम्यकृच्छ्रं प्रकीर्तितम् ॥ ४२ ॥ अम्बुभक्षिदैस्तथा मासः केवलैर्व्वारुणं समैः ॥ फलैर्मासेन कथितं फलकृच्छ्रं मनीषिभिः ॥ ४३ ॥ श्रीकृच्छ्रं श्रीफलैः प्रोक्तं पद्माक्षैरपरं तथा ॥ मासमामलकैरेव श्रीकृच्छ्रमपरं स्मृतम् ४४ ॥ पत्रैर्मतं पत्रकृच्छ्रं पुष्पैस्तूक्तं पुच्छ्रमुच्यते ॥ मूलकृच्छ्रं तथा मूलैस्तोयकृच्छ्रं जलेन तु ॥ ४५ ॥ दध्ना क्षीरेण तक्रेण पिण्याकेन कणेस्तथा ॥ शाकैर्मासं क्वाणपि चुनानानि विचक्षणैः ॥ ४६ ॥ सायं प्रातस्तु भुञ्जानो नरो यो नान्तरा पिबेत् ॥ पद्म॑विर्षोरिदं प्रोक्तं कृच्छ्रं नित्यपोवासिता ॥ ४७ एकभक्तेन मासेन कथितं चैकभक्तिकम् ॥ न तु कृच्छ्रं तु नक्तेन महत्संवत्सराद् वेत् ॥ ४८ ॥ नक्ताशिनस्तु धर्मज्ञ एकभुक्त्वा या पुनः ॥ त्र्यहं वोपवसेद्युक्तिः स्नायीत सवनत्रयम् ॥४९॥निम्बपत्रेषु तोयेषाप्सु त्रिः पठेद्घमर्पणम् ॥ देवताभाववृत्तस्तुच्छुन्द्वाश्चैवाप्यनुत्तमम् ॥ ५० ॥ संस्मरेत्सूर्य्यं च तथा ऋषिं चैवाघमर्पणम् ॥ चतुर्थेऽहनि दातव्या ब्राह्मणाय तपस्विने ॥ ५१ ॥ त्र्यहं जपेद्यथाशक्ति शुचिर्ब्रह्माद्यघमर्षणम् ॥ भाववृत्तस्तथा देवस्तथा च पुरुषः परः ॥ ५२ ॥ तदैवत्यं विजानीयात्सूक्तं तदघमर्षणम् ॥ यथाश्व मेधः क्रतुराट् सर्वपापापनोदनः ॥ ५३ ॥ तथाघमर्षणं सूक्तं सर्वकल्मषनाशनम् ॥ कृष्णाजिनं वा कुतपं परिधायथ वल्कलाम् ॥५४॥ संवत्सरं व्रतं कुर्य्यात्स्मितं नाम भार्गव ॥ गृहं न प्रविशेत्तत्र भवेदवकाशाशायकः ॥ ५५ ॥ अशक्तौ वा भवेद्दाम तथा शैलगुहाशयः ॥ नित्यं त्रिपवणस्नायी तथा स्याद्विजसत्तमा॥५६॥भैक्ष्यशाकफलाहारः कामं स्याद्दिजपुङ्गव ॥ वीरासनं तथा कुर्य्यात्खाट्वामौने तथैव चा॥५७॥ सर्वकामप्रदःह्येतत्संवत्सरमल्प नाशनम् ॥ वायव्यं कृच्छ्रमूलैस्तु पाणिपूराग्रभोजिनः ॥ ५८ ॥ मासेनैनैक धर्मज्ञ सर्वकल्मषनाशनम् ॥ तिलैर्द्वादशरात्रेण कृच्छ्रमायसु च्यते ॥ ५९ ॥ लाजामृतमित्येकं कनकैन समन्वितम् ॥ सुज्ञानस्य तथा मासं कृच्छ्रं धनदमुत्तमम् ॥ ६० ॥ गवां निहारनिर्मुक्तिर्यवैः सक्तून्स मन्ततः ॥ ग्राम्यं कृच्छ्रं विनिर्दिष्टं मासेन भृगुनन्दन ॥ ६१ ॥ गोमूत्रेण चरेत्स्नानं वृत्तिं गोमयमाचरेत् ॥ गवां मध्ये सदा तिष्ठेद्रात्रौपरीषं च संवसेत्॥६२॥ गोधृतमास्तु न पिबेदुक्तं भृगुनन्दन ॥ असुक्तेषु तु नाश्रीयाद्विधृतास्त्वितिष्ठतो भवेत्॥६३॥ज्ञात्वा चैवोपविष्टासु सर्वांस्तूपविशेश्वरः ॥ मासेनेकेन कथितं गोमन्त्रं कल्मषापहम् ॥ ६४ ॥ अजाकृच्छ्रं तथैवैतदजामध्ये तु वर्ततः ॥ तृणानां भक्षणेनेह समतुल्यफले उभे ॥ ६५ ॥ द्वाद ॥२६४॥