विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 575, कुल 1001 में से
संदर्भ में पढ़ेंसर्वकामप्रदं तथा ॥ १२ ॥ स्नपयेदात्मनोऽथाय पावकं भृगुनन्दन ॥ वह्नौ ततोऽऽजुहुयाद्द्वादशञ्च कस्यचित् ॥ १३ ॥ ब्रह्म देवेति मन्त्रेण साध्यमाने विचक्षणः ॥ दर्भास्तु खलु बध्नीयाद्ब्राह्मार्थमिति नः श्रुतिः ॥ १४ ॥ घृतं च. आप्यमानं च भाण्डे न्यस्तं तथा पुनः ॥ अनेन राम मन्त्रेण नरस्त्विभिमन्त्रयेत् ॥ १५ ॥ यवोऽसि धान्यराजोऽसि वरुणो मधुसंयुतः ॥ निर्णेदः सर्वपापानां पवित्रमृषिभिः स्मृतम् ॥ १६ ॥ घृतं यवा मधु यवा आपो वा अमृतं यवाः ॥ सर्वं पुनीतं मे पापं यन्मया दुष्कृतं कृतम् ॥ १७ ॥ वाचा कृतं कर्मकृतं दुःस्वप्नं दुर्विचिन्तितम् ॥ अलक्ष्मीं नाशय तथा सर्वं पुनीत मे यवाः ॥ १८ ॥ श्वसूकरावलीढं च ह्युच्छिष्टोपहतं च यत् ॥ मातृगोगुरुशुश्रूषां सर्वं पुनीत मे यवाः ॥ १९ ॥ गणानां गणिकान्नं च शूद्वान्नं च तथा विशाम् ॥ चौरस्यान्नं नवश्राद्धं सर्वं पुनीत मे यवाः ॥ २० ॥ बालवृद्धगणान्नं च राजधर्मकृतं च यत् ॥ सुवर्णस्तेयव्रात्यात्मयाज्यास्य च याजनम् ॥ २१ ॥ ब्राह्मणानां परीवादं सर्वं पुनीत मे यवाः ॥ भाण्डेऽन्यस्तस्य पञ्चोऽड्यं ततस्तु परिकीर्तयेत्॥२२॥ (ये देवा मनोजाता मनोजुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यः स्वाहा) अनेनात्मनि धर्मज्ञ जुहुयात्प्रयतः सदा ॥ नकुर्यादितिसौहित्यं व्रतमेतद्धि यावकम् ॥ २३ ॥ मेधाथिनिकरात्रं तु षडूरात्रमतिपापिनः ॥ उपपातकिनः प्रोक्तं सप्तरत्नमरिन्दम ॥२४॥ महापातकितश्चैव षडूात्रं द्विगुणं स्मृतम् ॥ एकविंशतिरात्रेण कामानामोत्यभीप्सितान् ॥ २५ ॥ मासेन सर्वपापेभ्यो मोक्षमाप्नोत्यसंशयम् ॥ गवां निहारैर्मुक्तेस्तु यवैः कुर्वीतदेव र् ॥ २६ ॥ फलं प्राप्नोति धर्मज्ञ तथा दशगुणं ध्रुवम् ॥ मासेन साक्षाद्विशदाम्देवान्विप्रश्च पश्यति ॥ २७ ॥ वरशापसमर्थस्तु तथा भवति भार्गव ॥ शुक्लपक्षमसमारम्भादारभेत्प्रत्यहं नरः ॥ २८ ॥ एकैकवृद्ध्या ऽश्नीयात्पिण्डांऽस्त्रींश्चण्डसंयुतान् ॥ एकैकं ह्रासयेत्कृष्णे प्रतिपत्प्रभृति क्रमात् ॥ २९ ॥ हविष्यस्य महाभाग नाश्नीयाच्चन्द्रसंक्षये ॥ एतच्चान्द्रायणं प्रोक्तं यवमध्यं महात्मभिः ॥ ३० ॥ एतदेव विपर्यस्तं वज्रमध्यं प्रकीर्तितम् ॥ अष्टभिः प्रत्यहं ग्रासैर्वर्तयिताचान्द्रायणं स्मृतम् ॥ ३१ ॥ प्रातश्चतुर्भिः सायं च शिशुचान्द्रायणं स्मृतम् ॥ यथाकथांचित्पिण्डानां चत्वारिंशच्छतद्वयम् ॥ ३२ ॥ मासेन भक्षयेत्तत्तुसुरचान्द्रायणं स्मृतम् ॥ गोक्षीरं सप्तरात्रं तु पिवेत्तत्तनचतुष्टयम् ॥३३॥ स्तनद्वयात्सप्तरात्रं स्तनद्वयात् ॥ स्तनात्तथैव षड्रात्रं त्रिरात्रं वायुभुग्भवेत् ॥ ३४ ॥ एतत्सौमायनं नाम व्रतं कल्मषनाशनम् ॥ त्र्यहं पिबे दपस्तूह्णार्यहमुष्णं पयः पिवेत् ॥ ३५ ॥ त्र्यहमुष्णं घृतं पीत्वा वायुभक्ष्यो भवेत्त्र्यहम् ॥ तप्तकृच्छ्रमिदं प्रोक्तं शीतैः शीतं प्रकीर्तितम् ॥ ३६ ॥ कृच्छ्रातिकृच्छ्रं पयसा दिवसानेकविंशतिम् ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ॥ ३७ ॥ एकरात्रोपवासश्च कृच्छ्रं सान्तपनं स्मृतम् ॥