विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 574, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥२६३॥
द्वि० खं० अ० १२३
ण्यतितरन्ति ते॥२३॥यात्रार्थं भोजनं येषां सन्तानार्थं च मैथुनम् ॥ वाक् सत्यवचनार्थाय दुर्गाण्यतितरन्ति ते ॥२४॥ तडागारामाकर्त्तारस्तथान्ये वृक्षरोपकाः ॥ कूपानां ये च कर्त्तारो दुर्गाण्यतितरन्ति ते ॥ २५॥ गवां ग्रासप्रदातारो गवां कण्डूयकाश्च ये ॥ भक्तिमन्तो गवां ये च दुर्गाण्यति तरन्ति ते ॥ २६ ॥ पूजयन्ति सदा विप्रान्नाधुनी युक्तरुत्तथा ॥ तपस्विनश्च धर्मज्ञा दुर्गाण्यतितरन्ति ते ॥ २७ ॥ गायत्रीजापिनिरतास्तीर्थ यात्रारताश्च ये ॥ ये चैकमाश्रितास्तीर्थ दुर्गाण्यतितरन्ति ते ॥ २८ ॥ ये चैकमाश्रिता देवं सर्वभावेन भार्गव ॥ धर्मज्ञाश्च विनीताश्च दुर्गाण्यति तरन्ति ते ॥ २९ ॥ सायं प्रातश्च भुञ्जानाः पिबन्तश्चाप्सु ये नराः ॥ सदोपवासिनो राम दुर्गाण्यतितरन्ति ते ॥ ३० ॥ उपवासरता नित्यं नित्यं व्रतपरायणाः॥ नित्यं संयतचित्ताश्च दुर्गाण्यतितरन्ति ते॥३१॥दुर्गाणितरणं ये च पठन्ति श्रावयन्ति च ॥ कथयन्ति च विप्रेभ्यो दुर्गाण्यति तरन्ति ते ॥ ३२॥ ईश्वरः सर्वभूतानां जगतां प्रभवेोऽव्ययः ॥ भक्त्या नारायणं चैव दुर्गाण्यतितरन्ति ते ॥ ३३ ॥ भक्तानां केशवे राम न भयं विद्यते क्वचित् ॥ तथा गीतश्च श्लोकोऽयं यमेन शृणु भार्गव ॥ ३४ ॥ पृथवीशतस्करसुजङ्गदुराशयाद्विमुह्यस्वप्नेऽनुतश्चातुलसत्फलजातपु ॥ संविद्यते न हि भयं भुवनेकभर्त्तुर्भक्ताश्च ये मधुरिपोर्मनुजेषु तेषु ॥ ३५ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने दुर्गातितरणवर्णनन्नाम द्वाविंशत्युत्तरशततमोऽध्यायः॥ १२२ ॥ राम उवाच ॥ भूय एव समाचक्ष्व कर्मणा येन मानवाः ॥ दुर्गाण्यतितरन्त्याशु सर्वधर्मभृतां वर ॥ १ ॥ पुष्कर उवाच ॥ दुर्गाण्यतितरन्त्याशु ये नराः कृच्छ्रकारिणः ॥ प्राप्नुवन्ति तथा कामान्सर्वान् मनसिप्सितान् ॥ २ ॥ राम उवाच ॥ कृच्छ्राणां श्रोतुमिच्छामि नामानि च विधंस्तथा ॥ एवं मे ब्रूहि धर्मज्ञ त्वं हि वेत्सि यथातथम् ॥ ३ ॥ पुष्कर उवाच ॥ कृच्छ्राण्येतानि कार्याणि राम वर्णेणयेण च ॥ कृच्छ्रेष्वेतेषु शूद्रस्य नाधिकारो विधीयते ॥ ४ ॥ आदौ तु मुण्डनं कार्यं सर्वकृच्छ्रे भार्गव ॥ नित्यं त्रिषवणस्नानं केशवस्य च पूजनम् ॥ ५ ॥ होमः पवित्रमन्त्रैश्च तथान्ते जाप्य एव च ॥ स्त्रीशूद्रपतितानां च तथालापं विवर्जयेत् ॥ ६॥ एतत्कृच्छ्रेषु सर्वेषु कर्तव्यं चाविशेषतः ॥ वीरासनं च कर्तव्यं कामतोऽप्यथवा न वा ॥७॥ वीरासनेन सहितं कृच्छ्रं बहुगुणं भवेत् ॥ वीरासनेन रहितं विधिहीनं प्रकीर्तितम् ॥ ८ ॥ राम उवाच ॥ वीरासनमहं त्वत्तः श्रोतुमिच्छामि सुव्रत ॥ वीरासनेन सहितं कृच्छ्रं बहुगुणं यतः ॥ ९ ॥ पुष्कर उवाच ॥ उत्थितस्तु दिवा तिष्ठेदुपविष्टस्तथा निशि ॥ एतद्वीरासनं प्रोक्तं महापातकनाशनम् ॥ १० ॥ आमिक्षया तु द्वौ मासौ पक्षं तु पयसा तथा ॥ अष्टरात्रं तथा दध्ना चिरागमथ सर्पिषा ॥ ११ ॥ निराहारस्त्रिरात्रं तु कुर्याद्वा बालकेश्वरम् ॥ सर्वपापप्रशमनं
॥२६३॥