विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 573, कुल 1001 में से
संदर्भ में पढ़ेंशक्यं न कार्त्स्न्येन मया प्रवर्त्तुं या यातनाश्चैव नराधमानाम् ॥१३॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० नारकिचिह्नवर्णनन्नामैकविंश- त्युत्तरशततमोऽध्यायः ॥ १२१ ॥ मार्कण्डेय उवाच ॥ एतच्छ्रुत्वा यदुश्रेष्ठ रामो रतिकरः पितुः ॥ पपात भुवि निश्चेष्टश्छिन्नमूल इव द्रुमः ॥ ॥ १ ॥ तं विसंज्ञं महाभागं पीनोन्नतपयोधराः ॥ सचन्दनैः शीतजलैः सिषिचुर्देवयोषितः ॥ २ ॥ वारुणेराज्ञया चान्यास्तालवृन्तैर्मनोरमैः ॥ वीजयन्ति महाभागं रामं धर्मभृतां वरम् ॥ ३ ॥ लब्धसंज्ञं मुहूर्तेन भार्गवं चित्तविह्वलम् ॥ आश्वासयामास तदा वारुणिः परवीरहा ॥ ४ ॥ समाश्र्वस्तस्ततो रामः पप्रच्छ वरुणात्मजम् ॥ दुर्गार्णवतरणं वीरो रामो धर्मभृतां वरः ॥ ५ ॥ राम उवाच ॥ ॥ किञ्चि- न्मानेषु श्रुतेषु तैस्तैर्भावैस्ततस्ततः ॥ दुर्गाण्यतितरेद्येन ब्रूहि मे वरुणात्मज ॥ ६ ॥ पुष्कर उवाच ॥ आश्रमेषु यथोक्तेषु यथोक्तं ते द्विजा- तयः ॥ वर्तन्ते संयतात्मानो दुर्गाण्यतितरन्ति ते ॥ ७ ॥ ये दृन्मात्रं जहतीह येषां वृत्तिश्च संहृता ॥ विपर्यांश्च न गृह्णन्ति दुर्गाण्यतितरन्ति ते ॥ ८ ॥ वासयन्त्यतिथिं नित्यं नित्यं ये चानसूयकाः ॥ नित्यं स्वाध्यायशीलाश्च दुर्गाण्यतितरन्ति ते ॥ ९ ॥ मातापित्रोश्च ये वृत्तिं वर्तन्ते धर्मकोविदाः ॥ वर्जयन्ति दिवास्वापं दुर्गाण्यतितरन्ति ते ॥ १० ॥ स्वेषु दारेषु वर्तन्ते न्यायवृत्तिमुतावृत्तौ ॥ अग्निहोत्रपराः सन्तो दुर्गाण्यति- तरन्ति ते ॥ ११ ॥ आहवेषु च ये शूरास्त्यक्त्वा मरणजं भयम् ॥ धर्मेण जयमिच्छन्ति दुर्गाण्यतितरन्ति ते ॥ १२ ॥ ये पापानि न कुर्वन्ति कर्मणा मनसा गिरा ॥ निक्षिप्तदण्डा भूतानां दुर्गाण्यतितरन्ति ते ॥ १३ ॥ कर्माण्यकुहकानीह येषां वाचश्च सूनृताः ॥ येषामर्थश्च साध्वर्थो दुर्गाण्यतितरन्ति ते ॥ १४ ॥ ये तपश्च तपस्यन्ति कौमारब्रह्मचारिणः ॥ विद्यावेदव्रतस्नाता दुर्गाण्यतितरन्ति ते ॥ १५ ॥ येषां न कश्चित्त्रसति त्रस्यन्ति न च कस्यचित् ॥ येषामात्मसमो लोको दुर्गाण्यतितरन्ति ते॥१६॥ परश्रिया न तप्यन्ते सन्तः पुरुषसत्तमाः ॥ ग्राम्यान्वाद निवृत्ताश्च दुर्गाण्यतितरन्ति ते॥१७॥ सर्वान्देवान्नमस्यन्ति सर्वान्धर्मांश्च शृण्वते ॥ ये श्रद्दधानाः पुरुषा दुर्गाण्यतितरन्ति ते॥१८॥ ये न लोभात्प्रयन्त्यर्थान्ना- जानो रजसा वृताः ॥ विषयानपरिरक्षन्तो दुर्गाण्यतितरन्ति ते॥१९॥ये न मानितिमिच्छन्ति मानयन्ति च ये नरान् ॥ मान्यानानात्मन्यस्यन्ति दुर्गा- ण्यतितरन्ति ते ॥२०॥ ये च श्राद्धानि कुर्वन्ति तिथ्यान्तिथ्यां प्रजांर्थिनः ॥ सुविशुद्धेन मनसा दुर्गाण्यतितरन्ति ते॥२१॥ ये क्रोधं नैव कुर्वन्ति क्रोधात्तं शमयन्ति च ॥ न च कुप्यन्ति भूतानां दुर्गाण्यतितरन्ति ते॥२२॥मधु मांसं च ये नित्यं वर्जयन्तीह मानवाः॥ जन्मप्रभृति मद्यं च दुर्गा
१ 'ग्राम्यादनान्निवृत्ताश्च' इति ख० ।