भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 572, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 572

भोक्तव्यानि च तैस्तस्य राम मांसान्यसंशयम् ॥ यावन्तः प्राणिनो येन बह्विधैर्वा निपातिताः ॥ १७॥ तावत्यो योनयस्तेन गन्तव्या भृगुसत्तम ॥
योनीयोनौ च हन्तव्यस्तेनैतासो नात्र संशयः ॥ १८॥ वान्ताशी गुणपाशी च पूयस्रुतिश्चिराशिनः ॥ स्वकर्मविच्युता वर्णा जायन्ते प्रेतयोनिषु ॥ १९॥
धान्यं हत्वा भवत्याखुः कांस्यं हंसो जलेप्लवः ॥ मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥ २०॥ मांसं गृध्रो वसां मद्रुस्तैलं
तैलापगः खगः ॥ चीरीवाकस्तु लवणं बलाका शकुनिर्द्धिधु ॥ २१ ॥ कौशेयं तित्तिरिर्हत्वा क्षौमं हत्वा च दर्दुरः ॥ कार्पासं तान्तवं क्रौञ्चो गां
गोधा वागुदो गुडम् ॥ २२ ॥ छुच्छुन्दरिः शुभान्गन्धान्पत्रशाकं शिखी तथा ॥ मक्षिकान्त्तु तथैवान्नमकृतान्नं तु शल्यकः ॥ २३ ॥ भेको
भवति हत्वानिं गृहहारी च तस्करः ॥ रत्नानि हत्वा वासांसि जायते जीवजीवकः ॥ २४ ॥ वृको मृगेभं व्याघ्राश्वं जग्ध्वा चैवार्हतं हविः ॥
स्त्रियं हत्वा भवेद्यक्षो यानसूरः पशूनजः ॥ २५ ॥ यद्वा तद्वा परद्रव्यमपहृत्य बलान्नरः ॥ अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवादृतं हविः ॥
॥ २६ ॥ तिर्यक्षु दुःखं परमं विदित्वा पापानि वर्ज्यानि नरेण नित्यम् ॥ भक्तिश्च कार्या मधुसूदनस्य तया स दुःखं सकलं जहाति ॥ २७ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने तिर्यग्योनिवर्णननाम त्रिंशत्युत्तरशततमोऽध्यायः ॥ १२० ॥ राम
उवाच ॥ नरकान्भ्रान्ति तिर्यक्त्वं ततो मानुष्यमेव च ॥ तेषां चिह्नानि मे ब्रूहि मानुषत्वे वरुणात्मज ॥ १ ॥ पुष्कर उवाच ॥ मणिसुक्ताप्रवालानि
रत्नानि विविधानि च ॥ अपहृत्य नरो राम जायते हेमकूटेषु ॥ २ ॥ यद्वा तद्वा परद्रव्यमपहृत्य नरो बलात् ॥ प्राप्नोति भृगुशार्दूल मानुष्यं
भारवाहिताम् ॥ ३ ॥ यं कञ्चिद् घातयित्वापि प्राणिनां भृगुनन्दन ॥ मांसं भुक्त्वा तु धर्मज्ञ भवन्तीह गदातुराः ॥ ४ ॥ सुवर्णचोरः कुनखी
सुरापः श्यावदन्तकः ॥ ब्रह्महा क्षयरोगी स्याद्धर्म्मघ्नो गुरुतल्पगः ॥ ५ ॥ पिशुनः पूतिनासः स्यात्सूचकः पूतिक्रकचः ॥ धान्यचोरोऽङ्गहीनः
स्याद्दग्धो मिश्रिद्वेव ॥ ६ ॥ व्याधितश्चाह्रतहर्त्ता स्यान्मूको वागपहारकः ॥ वस्त्रापहारकः श्वित्री पङ्गुश्चाश्वापहारकः ॥ ७ ॥ खल्वाटो
मत्सरी राम नास्तिको वेदनिन्दकः ॥ भूय एव समाप्नोति तथा नास्तिक्यतां द्विज ॥ ८॥ अन्यो दीपापहारी स्यात्काणो निर्वापकस्तथा ॥
अन्धो भवति गोघ्नस्तु वाण्टिकस्तोलकस्तथा ॥ ९ ॥ दरिद्रः परवित्तघ्नो उन्मत्तश्च तथाभिदः ॥ प्रतिकूलो गुरोर्यस्तु सोऽपमारी प्रजापते
॥ १० ॥ मिष्टाश्येको महाभाग वातगुल्मी भवेन्नरः ॥ खगभक्ष्यस्तु कुण्ठाशी दीर्घरोगा च पीठकः ॥ ११ ॥ भवतीह सुगन्ध्याश्वस्त्वग्विक्रे
यस्य विक्रयात् ॥ श्रीपदी चावकोर्णी स्यान्मूर्खश्चाक्रोशको भवेत् ॥ १२॥ उक्तस्त मुख्य हि मया तिरश्चां या योनयो यानि च लक्षणानि ॥