विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 571, कुल 1001 में से
संदर्भ में पढ़ेंशस्त्राण्यान्यानि जातानि सुखस्पर्शसमानि च ॥४७॥ सुखदुःखे तु मानुष्ये त्रिदिवे केवलं सुखम् ॥ नरके दुःखमेवैकं सततं भृगुनन्दन ॥ ४८॥ तृष्णा तत्र क्षुधा तत्र गन्धस्तीव्रो भयङ्करः ॥ यातना विविधाः प्रोक्ता भयं तत्रातिदारुणम् ॥ ४९ ॥ दुर्निष्कण्टककार्पासं तथा कुणपसंकुलम् ॥ केशास्थिबहुलं भीमं नरकं दुःखमेव तु ॥ ५० ॥ आर्तनादमहानादकाककङ्कव्याघ्रसंकुलम् ॥ कृमिकीटपतङ्गाढ्यं पूयासृग्बहुलं तथा ॥ ५१ ॥ अन्योऽन्यक्लेशसंयुक्तमन्योऽन्यपकृकारकम् ॥ अन्योऽन्यताडकं घोरं तथाऽन्योऽन्यभयङ्करम् ॥ ५२ ॥ एवमेतेषु ते पापा नरकेषु समागताः ॥ बह्व्यः खलु याप्यन्ते मानवाः पापकारिणः ॥ ५३ ॥ यावत्तेषां न पापानि क्षयं यान्ति भृगूत्तम ॥ तावते न विमुच्यन्ते नरकाद् घोरदर्श- नात् ॥ ५४ ॥ अत्यन्तभीमा नरकाः सुघोरा भयावहव्यालगणावकीर्णाः ॥ भक्तिं वहन्तः पुरुषोत्तमस्य न यान्ति ते भार्गववंशमुख्य ॥ ५५ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने नरकयातनावर्णनन्नामैकोनविंशत्यधिकशततमोऽध्यायः॥ ११९॥ राम उवाच ॥ कर्मणा केन धर्मज्ञ नरा नरकवासिनः ॥ कांकां योनिं प्रपद्यन्ते तन्मे ब्रूहि तपोमय ॥ १ ॥ पुष्कर उवाच ॥ अमेध्यमध्ये क्रूरा ये महापातकिनो जनाः ॥ भवन्ति बहुधा भूम्यां तथैव शिलासु ते ॥ २ ॥ तृणगुच्छलतागुल्मद्रुमत्वं प्राप्यते क्रमात् ॥ भवन्ति च मृगाः पश्चान्निवर्त्त्य व्याधभया- र्दिताः ॥ ३ ॥ ब्रह्मस्वहारिणो हिंस्रा रौद्राचाराः सदैव तु ॥ अटव्यां घोररूपायां जायन्ते ब्रह्मराक्षसाः ॥ ४ ॥ परदाररता मूढाः सन्तप्तायां तथा भुवि ॥ कृकलासा हि जायन्ते पिशाचाश्चाप्यनन्तरम् ॥ ५ ॥ अटव्यां घोररूपायां शुष्कद्रुमकोटरे ॥ कृष्णाऽहयो हि जायन्ते ततः पश्चान्न संशयः ॥ ६ ॥ कूटसाक्षिप्रदाः पापास्त्वमेध्ये कृमयश्चिरम् ॥ भूत्वा भवन्ति सर्पास्ते पिशाचास्तदनन्तरम् ॥ ७ ॥ गुरुमित्रद्रुहः पापा ये च स्वा- मिद्रुहो जनाः ॥ द्विजशिष्यद्रुहश्चैव कृतघ्ना नास्तिकास्तथा ॥ ८ ॥ त्यागिनो बान्धवानां च त्यागिनः शरणाथिंनाम् ॥ निक्षेपहारिणो ये च कन्यकाक्रयिणश्च ये ॥ ९ ॥ अमेध्ये कृमयः सर्पा मृगा व्यालानुगास्तथा ॥ ततो घोरनखोपेता जायन्ते जम्बुकाः खलाः ॥ १० ॥ परस्वहा- रिणः पापाः कुञ्जरास्तुरगाः खराः ॥ बलीवर्दास्तथैवोष्ट्रा जायन्ते नात्र संशयः ॥ ११ ॥ हतं यस्य तु तद्द्रव्यं तस्य भाग्यानुरूपतः ॥ आत्म- दोषाऽनुसारेण जायन्ते धनिनास्तु ते ॥ १२ ॥ चन्द्रार्कग्रहणे भुक्त्वा जायन्ते कुब्जका नराः ॥ आमश्राद्धं तथा भुक्त्वा जायन्ते गृध्रयोनिषु ॥ १३ ॥ असत्प्रतिग्रहं राम गृहीत्वा वानरास्तथा ॥ आशाभङ्गं तथा कृत्वा शृगालाश्च तथाधमाः ॥ १४ ॥ सूचकस्तु दुराचारो वागुरिर्नाम जायते ॥ बहु- कालं महाभाग भूयोभूय इति श्रुतिः ॥ १५ ॥ मांसं भुग् यावतां राम मांसमश्नाति देहिनाम् ॥ तावतां योनिमाप्नोति भूयोभूयो न संशयः ॥ १६ ॥