विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 578, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥२६६॥ दि० सं० अ० १२४
श्चैवायस्तथा ॥ १० ॥ महाव्याहृतिभिर्होमात्सर्वपापैः प्रमुच्यते ॥ महाव्याहृतयो ज्ञेयाः सप्तलोका विचक्षणैः ॥ ११ ॥ गायत्री परमा जप्या होमे व्याहृतयस्तथा ॥ अन्तर्जले तथा रात्रौ प्रोक्तञ्चैवाघमर्पणः ॥ १२ ॥ अग्निमीळे पुरोहितं सूक्तोऽयं बर्हिषद्वृतः ॥ शिरसा धारयेद्वह्निं यो जपे- त्परिवत्सरम् ॥ १३ ॥ होमं त्रिषवणं चैव तथा तेन समाचरेत् ॥ अनग्निश्चज्वलं कुर्याद्द्वादशाहारस्तं वत्सरान् ॥ १४ ॥ अतः परम्पुरुषः सप्त चाग्नेय्यः परिकीर्तिताः ॥ ता जपन्नप्रयतो नित्यमिष्टान्कामान्समश्नुते ॥ १५ ॥ मेधाकामो जपेन्नित्यं सदसस्पतिमित्यृचम् ॥ अम्बयो यान्ति याः प्रोक्ता न बन्ध्योमृतपुत्रानिर्णी ॥ १६ ॥ शुनःशेफमृषिं तद्वत्सन्निरुद्धोऽथ वा जपेत् ॥ मुच्यते सर्वपापेभ्यो गदाच्चापहृतो गदन् ॥ १७ ॥ यदीच्छेच्छु- श्रुतं काममिन्द्रात्प्लुतं पुरन्दरात् ॥ ऋग्भिः षोडशभिः स्तुयादिन्द्रमिति दिनेदिने ॥ १८ ॥ हिरण्यस्तूपमित्येतज्जपञ्छ्रुतवान्प्रजायते ॥ क्षमी भवति चाभ्याने ये ते पन्थां¹ जपन्नरः ॥ १९ ॥ रथेक्ष्मिः षड्भिराशानं स्तूयाद्यो वै दिनेदिने ॥ चरुं वा कल्पयेद्द्रोहे तस्य शान्तिः परा भवेत् ॥ २० ॥ उदिद्यद्बृहत्तमादित्यमुपतिष्ठेद्दिनेदिने ॥ क्षिपञ्जलाञ्जलीन्सप्त मनोदुःखविनाशनम् ॥ २१ ॥ द्विषन्तमित्थ्यान्थानर्च्य द्विषन्तं च जपन्स्मरेत् ॥ अग्मच्छन्मुत्तरात्रेण विदध्मधिगच्छति ॥ २२ ॥ आरोग्यकामो रोगी च प्रस्कण्वस्योत्तसं जपेत् ॥ उत्तमस्तस्य चाव-जपैर्दरिद्रविनाशने ॥ २३ ॥ ॥ उदयात्यायुरक्षय्यं तेजम्ब्यन्दिने जपेत् ॥ अस्तं व्रजति सूर्यं च द्विषन्तं प्रतिपादितम् ॥ ॥ २४ ॥ नवचेति सूक्तानि जपञ्शत्रुन्नियच्छति ॥ एकादश सुवर्णस्य सर्वकामांस्तु निर्दिशेत् ॥ २५ ॥ आध्यात्मिकैः कृ इत्येतज्जन्पन्मोक्षमवा- प्नुयात् ॥ आसन्नो रुद्रमित्येतद्घिर्मानुपराजनुयात् ॥ २६ ॥ त्वं सोमेति च सूक्तेन नवं पश्यन्निशाम्लम् ॥ उपातिष्ठेत्समिन्तान्विर्वासंस्याप्नोत्यसं- शयम् ॥ २७ ॥ आयुष्सिन्दिरिमिति कोलसक्तं यदाभ्यसेत् ॥ अपनः शोशुचदिति स्तुत्वा मध्ये दिवाकरम् ॥ २८ ॥ यथा मुञ्जाद्विपोषीका तथा पापं प्रमुञ्चति ॥ जातवेदस इत्येतज्जपेत्स्वस्त्ययनं पथि ॥ २९ ॥ भयोर्विमुच्यते सर्वैः स्वस्तिमानाप्नुयाद्गृहम् ॥ बुध्याद्यां च तथा रात्रावेत- दुःखप्ननाशनम् ॥ ३० ॥ प्रमन्दिवेति सूर्यस्य जपेद्देविप्रमोचनम् ॥ जपन्निरिन्द्रमिति स्नातो वैश्वदेवं तु सप्तकम् ॥ ३१ ॥ मुञ्चन्याज्यं तथा ऽहृतसकलं किल्बिषं नरः ॥ इमामिति जपञ्शक्त्यकामानाप्नोत्यभीप्सितान् ॥ ३२ ॥ मानस्तोक इति शम्भ्वाँ त्रिरात्रोपोषितः शुचि ॥ ओडु- म्बरैस्तु जुहुयाद्विधमवाज्यसंस्कृताः ॥ ३३ ॥ छित्वा सर्वान्मृत्युपाशाञ्जीवद्रोगविवर्जितः ॥ ऊर्ध्वबाहुर्ननेव स्तुत्वा शत्रूं तथैव च ॥ ३४ ॥ ॥२६६॥
¹ 'येन पन्था' इति ख० ।