भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 586, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 586

वि० ध० ॥२६३॥

द्वि० खं० अ० १२५

परा शान्तिः पयसेन घृतेन च ॥ ४८ ॥ कूष्माण्डैर्घृतहोमेन सर्वान्पापानपोहति ॥ सक्तूनाञ्चैकभैक्ष्याशी नक्तं मनुजसत्तम ॥ ४९ ॥ बहिः स्नानरतो मासान्मुच्यते ब्रह्महत्यया ॥ मधुवातेति मन्त्रेण हुत्वैवाज्यमतन्द्रितः ॥ ५० ॥ सहस्रशस्तु धर्मज्ञ दीर्घमाप्नोति जीवितम् ॥ हुत्वा दध्ना तथा पुत्रान्प्राप्नोति मनसेप्सितान् ॥ ५१ ॥ गुग्गुलोः कणिकामिस्तु सौभाग्यं विन्दते ध्रुवम् ॥ कृत्वाष्टापत्रं कमलं तन्मध्ये शशिनं लिखेत् ॥ ५२ ॥ लवणेन ततस्तस्य पूजां कृत्वा यथाविधि ॥ सौभाग्यं महदाप्नोति मधुवातेति वै जपन् ॥५३ ॥ जप्त्वा पुष्पवतीत्येवं मन्त्रं राम सहस्रशः ॥ देवतायै निवेद्यैव कुसुमानि शिवं भवेत् ॥ ५४ ॥ जीमूतस्यैव भवति मन्त्रं जयकरं द्विज ॥ पयस्वतीति पयसा तथा हुत्वा सहस्रशः ॥ ५५ ॥ ब्रह्मवर्चसमाप्नोति दशा वा भृगुनन्दन ॥ दधिक्राव्णेति हुत्वा तु पुत्रान्प्राप्नोत्यसंशयम् ॥ ५६ ॥ तथा घृतवतीत्येतदायुष्यं स्याद् घृतेन तु ॥ बोधश्च मेति कथितं तथा स्वस्त्ययनं परम् ॥ ५७ ॥ स्वस्ति न इन्द्रत्येतं च सर्वव्याधिविनाशनम् ॥ इह गावः प्रजायध्वमिति पृथिविवर्धनम् ॥ ५८ ॥ सूक्तेण देवस्य त्विति हुत्वापामार्गतण्डुलम् ॥ मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः ॥ ५९ ॥ बहिश्वैतन्त्यदित्येतत्कर्म व्याहृतिवद्भवत् ॥ भद्रयन्ते पलाशस्य समिद्भिः कनकं लभेत् ॥६० ॥ हंसः शुचिषदित्येतज्जपन्नेतोऽघवनाशनम् ॥ चत्वारि शृङ्गेत्येतच्च सर्वपापहरं जले ॥६१॥ देव यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ॥ जपत्वा पितृभ्य इत्येतत्तृप्तिं प्राप्नुयान्नरः ॥ ६२ ॥ वसन्त्विति च हुत्वाज्यान्मादित्यान्षड्नमा हुयात् ॥ शिवोभवस्वमन्वग्युत्पाते व्रीहिभिर्जुहुयान्नरः ॥ ६३ ॥ याम्पेन इति चैतच्च तस्करभ्यो भयावहम् ॥ दूरञ्चाम्यामिति चैतन्न व्रीहिभिर्जुहु यान्नरः ॥ ६४ ॥ यो अस्मन्ममरातीयन्हुत्वा कृष्णाजिस्तैलैर्नरः ॥ सहस्रोऽभिचारात्तु मुच्यते विकृति द्विजः ॥ ६५ ॥ अनेनाश्रपतेत्येतत्तद्हुत्वा चान्नमाप्नुयात् ॥ सुपर्णोऽसीति दैत्यस्य कर्म व्याहृतिवद्भवोत् ॥ ६६ ॥ मनः स्वस्तीति जप्त्वा च बन्धनान्मोक्षमाप्नुयात् ॥ रोपयेत वचां राज्ञो चन्द्रे ग्रस्ते जलाशये ॥ ६७ ॥ या ओषधय इत्येतज्जपात्स्तम्भिरोपनः ॥ तिरानोन्नोपोषिप्नः कृत्वा हुत्वा तां ताम्रभाजने ॥ ६८ ॥ तेनैव मन्त्रितां चन्द्रे दृष्ट्वा मासं सदा जपेत् ॥ सकापिलघृतक्षीरे पीत्वा श्रुतिचरो भवेत् ॥ ॥ ६९ ॥ एतेमौषधीपाने सदा मन्त्रं जपेद्विज ॥ सिद्धा भवन्त्योषधयो मन्त्रेणानेन मन्त्रिताः ॥ ७० ॥ द्रुपदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता ॥ अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः ॥ ७१ ॥ इह गावः प्रजायध्वं मन्त्रोऽयं पृथिवर्धनः ॥ हुतस्तु सर्पिषा दध्ना पयसा


१ 'नोपवे' इति क० ख० । २ 'राज्ञः' इति ख० ।

॥२६३॥