विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 586, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥२६३॥
द्वि० खं० अ० १२५
परा शान्तिः पयसेन घृतेन च ॥ ४८ ॥ कूष्माण्डैर्घृतहोमेन सर्वान्पापानपोहति ॥ सक्तूनाञ्चैकभैक्ष्याशी नक्तं मनुजसत्तम ॥ ४९ ॥ बहिः स्नानरतो मासान्मुच्यते ब्रह्महत्यया ॥ मधुवातेति मन्त्रेण हुत्वैवाज्यमतन्द्रितः ॥ ५० ॥ सहस्रशस्तु धर्मज्ञ दीर्घमाप्नोति जीवितम् ॥ हुत्वा दध्ना तथा पुत्रान्प्राप्नोति मनसेप्सितान् ॥ ५१ ॥ गुग्गुलोः कणिकामिस्तु सौभाग्यं विन्दते ध्रुवम् ॥ कृत्वाष्टापत्रं कमलं तन्मध्ये शशिनं लिखेत् ॥ ५२ ॥ लवणेन ततस्तस्य पूजां कृत्वा यथाविधि ॥ सौभाग्यं महदाप्नोति मधुवातेति वै जपन् ॥५३ ॥ जप्त्वा पुष्पवतीत्येवं मन्त्रं राम सहस्रशः ॥ देवतायै निवेद्यैव कुसुमानि शिवं भवेत् ॥ ५४ ॥ जीमूतस्यैव भवति मन्त्रं जयकरं द्विज ॥ पयस्वतीति पयसा तथा हुत्वा सहस्रशः ॥ ५५ ॥ ब्रह्मवर्चसमाप्नोति दशा वा भृगुनन्दन ॥ दधिक्राव्णेति हुत्वा तु पुत्रान्प्राप्नोत्यसंशयम् ॥ ५६ ॥ तथा घृतवतीत्येतदायुष्यं स्याद् घृतेन तु ॥ बोधश्च मेति कथितं तथा स्वस्त्ययनं परम् ॥ ५७ ॥ स्वस्ति न इन्द्रत्येतं च सर्वव्याधिविनाशनम् ॥ इह गावः प्रजायध्वमिति पृथिविवर्धनम् ॥ ५८ ॥ सूक्तेण देवस्य त्विति हुत्वापामार्गतण्डुलम् ॥ मुच्यते विकृताच्छीघ्रमभिचारान्न संशयः ॥ ५९ ॥ बहिश्वैतन्त्यदित्येतत्कर्म व्याहृतिवद्भवत् ॥ भद्रयन्ते पलाशस्य समिद्भिः कनकं लभेत् ॥६० ॥ हंसः शुचिषदित्येतज्जपन्नेतोऽघवनाशनम् ॥ चत्वारि शृङ्गेत्येतच्च सर्वपापहरं जले ॥६१॥ देव यज्ञेति जप्त्वा तु ब्रह्मलोके महीयते ॥ जपत्वा पितृभ्य इत्येतत्तृप्तिं प्राप्नुयान्नरः ॥ ६२ ॥ वसन्त्विति च हुत्वाज्यान्मादित्यान्षड्नमा हुयात् ॥ शिवोभवस्वमन्वग्युत्पाते व्रीहिभिर्जुहुयान्नरः ॥ ६३ ॥ याम्पेन इति चैतच्च तस्करभ्यो भयावहम् ॥ दूरञ्चाम्यामिति चैतन्न व्रीहिभिर्जुहु यान्नरः ॥ ६४ ॥ यो अस्मन्ममरातीयन्हुत्वा कृष्णाजिस्तैलैर्नरः ॥ सहस्रोऽभिचारात्तु मुच्यते विकृति द्विजः ॥ ६५ ॥ अनेनाश्रपतेत्येतत्तद्हुत्वा चान्नमाप्नुयात् ॥ सुपर्णोऽसीति दैत्यस्य कर्म व्याहृतिवद्भवोत् ॥ ६६ ॥ मनः स्वस्तीति जप्त्वा च बन्धनान्मोक्षमाप्नुयात् ॥ रोपयेत वचां राज्ञो चन्द्रे ग्रस्ते जलाशये ॥ ६७ ॥ या ओषधय इत्येतज्जपात्स्तम्भिरोपनः ॥ तिरानोन्नोपोषिप्नः कृत्वा हुत्वा तां ताम्रभाजने ॥ ६८ ॥ तेनैव मन्त्रितां चन्द्रे दृष्ट्वा मासं सदा जपेत् ॥ सकापिलघृतक्षीरे पीत्वा श्रुतिचरो भवेत् ॥ ॥ ६९ ॥ एतेमौषधीपाने सदा मन्त्रं जपेद्विज ॥ सिद्धा भवन्त्योषधयो मन्त्रेणानेन मन्त्रिताः ॥ ७० ॥ द्रुपदा नाम सा देवी यजुर्वेदे प्रतिष्ठिता ॥ अन्तर्जले त्रिरावृत्य मुच्यते सर्वकिल्बिषैः ॥ ७१ ॥ इह गावः प्रजायध्वं मन्त्रोऽयं पृथिवर्धनः ॥ हुतस्तु सर्पिषा दध्ना पयसा
१ 'नोपवे' इति क० ख० । २ 'राज्ञः' इति ख० ।
॥२६३॥