विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 585, कुल 1001 में से
संदर्भ में पढ़ेंकन्यानाम गृहीत्वा च कन्यालाभकरः परः ॥ २३ ॥ भयेषु च जपेन्नित्यं भयेभ्यो विप्रमुच्यते ॥ धत्तूरपुष्पं सघृतं तथा हुत्वा चतुष्पथे ॥ २४ ॥ शून्ये शिवालये वापि शिवालकामानवाप्नुयात् ॥ हुत्वा च गुग्गुलं रात्रौ पश्यति शङ्करम् ॥ २५ ॥ अकृत्या इति चैवाग्नौ ऋचो हुत्वा घृता द्भिभिः ॥ अन्वहं स्वापदां नाशं स्वकुले कुरुते ध्रुवम् ॥ २६ ॥ भवत्युत्तरवादी च जप्त्वा च विदुसीत्यृचम् ॥ अग्नस्तनोर्गिति तथा हुत्वा च तिल तण्डुलैः ॥ २७ ॥ सहस्रशस्तु धर्मज्ञ भवेत्सर्वार्थनिर्धनः ॥ युञ्जते मन इत्येतदनुवाकं तु वैष्णवम् ॥ २८ ॥ सायं प्रातः समासीत दीर्घमायुरवा प्नुयात् ॥ दिवो वा विष्ण इत्यस्य कर्म व्याहृतिवद्भवेत् ॥ २९ ॥ विष्णोरराटमित्येतत्सर्वव्याधिविनाशनम् ॥ श्लोकं च यशस्यं च तथैव विवर प्रदम्॥३०॥ अयन्ते यज्ञ इत्येतत्संग्रामे विजयप्रदम् ॥ इदमापः प्रवहंत स्नाने पापापनोदनम् ॥ ३१ ॥ दैवांश इति दैवतद्भिन्नांगेषु योजयेत् ॥ व्याधिघातः समिद्भिरस्तु राजिकासर्षपैस्तथा ॥ ३२॥ आभूदमाहीति तथा हुत्वा बर्हिर्गम्य मानवः॥ उपश्रुतिं तु गृह्णीयात्तसा तस्यानुरतिथा भवेत्॥३३॥ अग्ने पश्वेति हुतं ब्रह्मवर्चसकारकम् ॥ उद्दुत्यं चित्रमित्यस्य कर्म व्याहृतिवद्भवेत् ॥ ३४ ॥ यस्मात्प्रमद्राक्ष्यधिको नरो भवितुमिच्छति ॥ स्वस्ति नेन्द्रेति तु जपेत्तस्य नामान्तसंयुतम् ॥ ३५ ॥ भवत्यभ्यधिकस्तस्माद्रिया यशसा श्रिया ॥ तथा होमाद्धनेनेव ह्यमलाभववाप्नुयात् ॥ ३६ ॥ विश्वकर्म हविष्यं च सूचीं लौहीं दशाङ्गुलीम् ॥ कन्याग्रे निखनेद्धारि ततस्सास्यं प्रदीयते ॥ ३७ ॥ देवेभ्यति तर्पितं हुतनेन्वाह्वान्भवत् ॥ वाजस्यसेति चैतेन हुत्वाज्यं सप्तभिर्द्विजः ॥ ३८ ॥ यदेव जुहुयात्पश्चात्तद्देवाश्लभ्यमानुयात् ॥ अग्ने अच्छोति जुहुयाल्लक्षया द्विजोत्तमः ॥ ॥ ३९ ॥ तिलैर्वैश्व धर्मज्ञस्तथापापामार्णतंडुलैः ॥ सहस्रमन्त्रितं कृत्वा तथा गोगेचनां द्विजः ॥ ४० ॥ तिलकं च तथा कृत्वा जनस्य प्रियतां व्रजेत् ॥ पौर्णमास्यां तथा हुत्वा मेधं गजानमित्यपि ॥ ४१ ॥ उपस्थानं तथा कृत्वा दत्वा चान्नं द्विजन्मने ॥ सोमयाजी भवेद्विप्र नात्र कार्या विचारणा ॥ ४२ ॥ एष ते निर्ऋतेत्याभिर्भागचारुक्रमेण ॥ गृहाद्वैऋत्यके भागे हुत्वा स्नात्वा नदीजले ॥ ४३ ॥ कापिलेद्धामयान्नित्यं पश्यन्त्यामभिषेचितम् ॥ कृत्वा रुद्रांस्तथा जप्त्वा मैत्र्यमाप्नोति गुह्यकैः ॥ ४४ ॥ रुद्राणां च तथा जप्यं सर्वव्याधिनिपूदनम् ॥ सर्वकर्मकरं होमं तथा सर्वत्र शान्तिदम् ॥ ४५ ॥ अजाविकानामश्वानां कुञ्जराणां तथा गवाम् ॥ मनुष्याणां नरेन्द्राणां बालानां योषितामपि ॥ ४६ ॥ ग्रामाणां नगराणां च देशानामपि भार्गव ॥ अनिद्रुतानां धर्मज्ञ व्यावितानां तथैव च ॥ ४७ ॥ मरणे समुत्पन्ने रिपुजे च तथा भये ॥ रूद्रहोमः
१ ‘तस्य वित्त्या’ इति ख० । २ ‘ततो वासं’ इति ख० । ३ ‘ना सोवास्मै’ इति क० । ४ ‘वाजप्यमति’ इति क० । ‘निहते’ इति क० । ५ ‘वृणाणाम्’ इति ख० ।