भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 588, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 588

वि० ध० ॥२७०॥

द्वि० खं० अ० १२५

क्षेमेण स्वगृहान्नेति सर्वव्याधिविवर्जितः ॥ ९९ ॥ उपतिष्ठेत धर्मज्ञ सायं प्रातस्ततन्द्रितः ॥ अन्नमश्क्यय^१ माप्नोति दीर्घमायुश्च विन्दति ॥ १०० ॥ प्रसुञ्चन्ती न इत्येतत्पङ्किराद्यमन्वन्नम् ॥ रिपूणां भङ्गदं युद्धे नात्र कार्या विचारणा ॥ १०१ ॥ मानो महान्त इत्येतद्वालानां शान्तिकारकम् ॥ नमो हिरण्यबाहवे इत्यनुवाक् हपेकारकम् ॥ गोजिकां तिलतैलाक्तां जुहुयाच्छत्रुनाशनम् ॥ १०२ ॥ नमो वः किरिकेभ्यश्च पद्मदले हुते नरः ॥ राजलक्ष्मीमवाप्नोति नात्र कार्या विचारणा ॥ बिल्वानां च तथा हुत्वा कनकं बहु विन्दति ॥ १०३ ॥ इमा रुद्रायेति तिलैः कृत्वा होमं विचक्षणः ॥ शीघ्रमेव महाभाग धनमाप्नोति चिन्तितम् ॥ १०४ ॥ अनेनैव तु मन्त्रेण दूर्वाहोमं मानवः ॥ सर्वव्याधिविनिर्मुक्तो भयान्सर्वान्व्यपोहति ॥ १०५ ॥ वरेगोहेण इष्ट्वानां याते रुद्रशिवा तनूः ॥ हुत्वायुतं तु धर्मज्ञ पुत्रमाप्नोत्यभीप्सि- तम् ॥ १०६ ॥ असंख्यताः सहस्राणि मन्त्रैस्तैरभिवारकम् ॥ नमोरस्तु रुद्रभ्य इति प्रोक्ता प्रत्यङ्गिरा परा ॥ १०७॥ रक्तोष्णीषो रक्त वासा रक्तमाल्यानुलेपनः ॥ अनेनैव श्मशाने तु लोहशङ्कुं नरोत्तम ॥ १०८॥ प्रादेशमात्रं जुहुयात्सहस्रं भृगुनन्दन ॥ कृत्वाशुस्थामप्यवजातां रक्तकुम्भेन पूजयेत ॥ १०९॥ पूर्णपात्रेण च तथा सर्वकर्मकरो भवेत् ॥ आशुः शिशान इत्येतद्वायुधानां च रक्षणम् ॥११०॥ संग्रामे कथितं राम सर्वशत्रुविना- शनम् ॥ इमं सोममित्येतन्नदीं गत्वा समुद्रगाम् ॥ १११ ॥ स्नात्वास्तोत्रेष्वयुतं जप्त्वा हुत्वा दशशतं ततः ॥ साष्टं मनुजशार्दूल ग्राममाप्नोत्यभीप्सि- तम् ॥११२॥आवाजेश्च मति जुहुयात्सहस्रं पञ्चभिर्दिनै ॥ आज्याहुतीनां धर्मज्ञ चक्षुरोगाद्विमुच्यते ॥ ११३॥ मनोभवस्येति गृहे तथा हुत्वा विचक्षणः ॥ वास्तुदोषांस्ततः सर्वान्क्षिप्रमेव व्यपोहति ॥ ११४ ॥ अग्न आयूंषि चेतेन हुत्वैवाज्यमतन्द्रितः ॥ सहस्रशतन्तु धर्मज्ञ वशं नयति केनचित्॥११५॥ अपामफेनेति लाजाभिजुहुयाद्राज्यमाप्नुयात् ॥ भद्रा इतीन्द्रस्यैदीनो जपन्स्यात्सकलैन्द्रियः ॥ ११६॥ अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् ॥ अध्वनीति जपन्मन्त्रं व्यवहारे जयी भवेत् ॥ ११७॥ ब्रह्मराजभ्यामिति च कर्माऽरम्भेषु वै जपेत् ॥ सर्वेषु सर्वधर्मज्ञ तेषां सिद्धिमुपाश्रुते ॥ ११८ ॥ नृनपादोसुर इति न्यग्रोधे द्विजसत्तम ॥ अशोकपुष्पान्संपृक्ताञ्जुहुयाल्लक्षसंमितान् ॥ ११९ ॥ ततोदानवकन्यां तु स्व- यमेव पश्यति ॥ अनुवाकस्य शेषेण तस्यान्नं विनिवेदयेत् ॥ १२० ॥ ददाति सा ततो रक्तं तूष्णीं तत्रेच्छया भवेत् ॥ अनुगच्छेत्ततस्तूष्णीं पाणौ सङ्गृह्य सा नरम् ॥ १२१ ॥ बिले प्रवेशयेद्राम नात्र कार्या विचारणा ॥ शून्यायतनमासाद्य मार्गश्रममथोदनम् ॥ १२२ ॥ कृया

॥२७०॥


^१ 'भक्ष्यम्' इति ख० ।