विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 588, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥२७०॥
द्वि० खं० अ० १२५
क्षेमेण स्वगृहान्नेति सर्वव्याधिविवर्जितः ॥ ९९ ॥ उपतिष्ठेत धर्मज्ञ सायं प्रातस्ततन्द्रितः ॥ अन्नमश्क्यय^१ माप्नोति दीर्घमायुश्च विन्दति ॥ १०० ॥ प्रसुञ्चन्ती न इत्येतत्पङ्किराद्यमन्वन्नम् ॥ रिपूणां भङ्गदं युद्धे नात्र कार्या विचारणा ॥ १०१ ॥ मानो महान्त इत्येतद्वालानां शान्तिकारकम् ॥ नमो हिरण्यबाहवे इत्यनुवाक् हपेकारकम् ॥ गोजिकां तिलतैलाक्तां जुहुयाच्छत्रुनाशनम् ॥ १०२ ॥ नमो वः किरिकेभ्यश्च पद्मदले हुते नरः ॥ राजलक्ष्मीमवाप्नोति नात्र कार्या विचारणा ॥ बिल्वानां च तथा हुत्वा कनकं बहु विन्दति ॥ १०३ ॥ इमा रुद्रायेति तिलैः कृत्वा होमं विचक्षणः ॥ शीघ्रमेव महाभाग धनमाप्नोति चिन्तितम् ॥ १०४ ॥ अनेनैव तु मन्त्रेण दूर्वाहोमं मानवः ॥ सर्वव्याधिविनिर्मुक्तो भयान्सर्वान्व्यपोहति ॥ १०५ ॥ वरेगोहेण इष्ट्वानां याते रुद्रशिवा तनूः ॥ हुत्वायुतं तु धर्मज्ञ पुत्रमाप्नोत्यभीप्सि- तम् ॥ १०६ ॥ असंख्यताः सहस्राणि मन्त्रैस्तैरभिवारकम् ॥ नमोरस्तु रुद्रभ्य इति प्रोक्ता प्रत्यङ्गिरा परा ॥ १०७॥ रक्तोष्णीषो रक्त वासा रक्तमाल्यानुलेपनः ॥ अनेनैव श्मशाने तु लोहशङ्कुं नरोत्तम ॥ १०८॥ प्रादेशमात्रं जुहुयात्सहस्रं भृगुनन्दन ॥ कृत्वाशुस्थामप्यवजातां रक्तकुम्भेन पूजयेत ॥ १०९॥ पूर्णपात्रेण च तथा सर्वकर्मकरो भवेत् ॥ आशुः शिशान इत्येतद्वायुधानां च रक्षणम् ॥११०॥ संग्रामे कथितं राम सर्वशत्रुविना- शनम् ॥ इमं सोममित्येतन्नदीं गत्वा समुद्रगाम् ॥ १११ ॥ स्नात्वास्तोत्रेष्वयुतं जप्त्वा हुत्वा दशशतं ततः ॥ साष्टं मनुजशार्दूल ग्राममाप्नोत्यभीप्सि- तम् ॥११२॥आवाजेश्च मति जुहुयात्सहस्रं पञ्चभिर्दिनै ॥ आज्याहुतीनां धर्मज्ञ चक्षुरोगाद्विमुच्यते ॥ ११३॥ मनोभवस्येति गृहे तथा हुत्वा विचक्षणः ॥ वास्तुदोषांस्ततः सर्वान्क्षिप्रमेव व्यपोहति ॥ ११४ ॥ अग्न आयूंषि चेतेन हुत्वैवाज्यमतन्द्रितः ॥ सहस्रशतन्तु धर्मज्ञ वशं नयति केनचित्॥११५॥ अपामफेनेति लाजाभिजुहुयाद्राज्यमाप्नुयात् ॥ भद्रा इतीन्द्रस्यैदीनो जपन्स्यात्सकलैन्द्रियः ॥ ११६॥ अग्निश्च पृथिवी चेति वशीकरणमुत्तमम् ॥ अध्वनीति जपन्मन्त्रं व्यवहारे जयी भवेत् ॥ ११७॥ ब्रह्मराजभ्यामिति च कर्माऽरम्भेषु वै जपेत् ॥ सर्वेषु सर्वधर्मज्ञ तेषां सिद्धिमुपाश्रुते ॥ ११८ ॥ नृनपादोसुर इति न्यग्रोधे द्विजसत्तम ॥ अशोकपुष्पान्संपृक्ताञ्जुहुयाल्लक्षसंमितान् ॥ ११९ ॥ ततोदानवकन्यां तु स्व- यमेव पश्यति ॥ अनुवाकस्य शेषेण तस्यान्नं विनिवेदयेत् ॥ १२० ॥ ददाति सा ततो रक्तं तूष्णीं तत्रेच्छया भवेत् ॥ अनुगच्छेत्ततस्तूष्णीं पाणौ सङ्गृह्य सा नरम् ॥ १२१ ॥ बिले प्रवेशयेद्राम नात्र कार्या विचारणा ॥ शून्यायतनमासाद्य मार्गश्रममथोदनम् ॥ १२२ ॥ कृया
॥२७०॥
^१ 'भक्ष्यम्' इति ख० ।