विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 589, कुल 1001 में से
संदर्भ में पढ़ेंनश्वित्र इत्येतं जपस्तु जुहुयान्नरः ॥ हुते शतसहस्रे तु तस्य विद्याधरः स्वकम् ॥ १२३ ॥ सुवर्णराशिं धर्मज्ञ शीघ्रमेव प्रयच्छति ॥ संवत्सरांशी- त्यनया घृतं हुत्वा विचक्षणः ॥ १२४ ॥ यावज्जीवमरोगी स्याल्लक्षहोमेन पण्डितः ॥ केतुं कृण्वन्नित्येतत्संग्रामे जयवर्धनम् ॥१२५॥ इन्द्राम्नं वर्म इत्येतद्रणे सन्नाहवन्चनम् ॥ धन्वनागेति मन्त्रश्च धनुर्ग्रहणिकः परः ॥ १२६ ॥ वक्ष्यन्तीति तथा मन्त्रो विज्ञेयो ज्याभिम- न्त्रणे ॥ मन्त्रश्चाहिरिवेत्यूणमन्त्रः प्रकीर्तितः ॥ १२७ ॥ युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते ॥ आशुः शिशान इत्येतद्रथारम्भनमन्त्रयेत् ॥ १२८ ॥ विष्णोः क्रमेण मन्त्रश्च रथारोहणिकः परः ॥ आजन्वन्तीति चाश्वानां ताड- नीय उदाहृतः ॥ १२९ ॥ यः सेनाअभ्बीत्वेरीति परसैन्यमुखे जपेत् ॥ दुन्दुभि इति वाप्येतद् दुन्दुभिताडने भवत ॥ १३० ॥ एतैः पूर्वोदितैर्मन्त्रैः कृत्वैवं विजयो भवेत् ॥ यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ॥ १३१ ॥ रथश्रुतापदायेच्छीघ्रं संग्रामे विजयप्रदम् ॥ आकृष्णेति तथैतस्य कर्म व्याहितवद्भवेत् ॥ १३२ ॥ युवं च्यवानमेतच्च भयेषु भयनाशनम् ॥ घृताहुतिसहस्रेण नात्र कार्या विचारणा ॥ १३३ ॥ मित्रं हुवेत इत्येतन्मेधाकामस्य शस्यते ॥ स राज इति चैतेन देवताराधनं नरः ॥ १३४ ॥ कुर्याद्भागंव सर्वत्र होमजप्यैर्यथाश्रुतम् ॥ शिवसङ्कल्पजप्येन समाधिं मनसो लभेत्॥ १३५॥पञ्च नद्य इत्यनेन पद्मलक्षं घृताप्लुतम्॥हुत्वा शीघ्र मवाप्नोति श्रियं तु पद्मालिनीमिव ॥ १३६॥ उभाकवि त इत्येतद्रूपकामस्य शस्यते ॥ यदावधन्दान्दाक्षायणा मन्त्रेणानेन मन्त्रितम् ॥ १३७ ॥ सहस्रकृत्वः कनकं धारयन्निन्द्रनागवत् ॥ पुष्ट्रकामां च सर्वेषां तथा निर्वहणं परम् ॥ १३८ ॥ इमं जीवेभ्य इति च सीतलोष्टं चतुर्दिशम् १ न क्षिपेद्गृहे तदा तस्य न स्याच्चौरभयं निशि ॥ १३९ ॥ परीमेगामनेनेतेति वशीकरणमुत्तमम् ॥ हर्तुम्प्याणाततस्तस्य वशीभवति मानवः ॥ १४०॥ मध्वक्ताम्बूलपुष्पाद्यं मन्त्रितं तु प्रयच्छति ॥ यस्य धर्मरय वशगः सोऽस्य शीघ्रं भविष्यति ॥ १४१ ॥ शन्नोमित्रिति त इत्येतत्सदा सर्वत्र शान्तिदम् ॥ मनसः काममाकूतिः पुष्टिकामस्य शस्यते ॥ १४२ ॥ चमषट्कं च धर्मज्ञ सर्वकामकरं स्मृतम् ॥ पदूकेन २ च तथा होमः सर्वदेवप्रसादनः ॥ १४३ ॥ आदांयानोदकं स्पृष्ट्वा तद्दोषाद्विप्रमुच्यते ॥ विषूवतं चैतदज्येन हुतं शूलापहं भवेत् ॥ १४४ ॥ गणानां त्वा गणपतिं होमं कृत्वा चतुष्पथे ॥ वशं कुर्याज्जगत्सर्वं सर्वधान्यैरसंशयम् ॥ १४५ ॥ वैकुङ्क्रेधमहोमं च समास्त्वारथ इत्यादीपि ॥ यशसा योगमाप्नोति विपुलं नात्र संशयः ॥ १४६ ॥ अभिभूर्धैतिमन्त्रेण हुत्वेवाज्यं हुताशने ॥
१ 'कटकम्' इति ख० ।
२ 'पञ्चैके' इति पाठोऽपि ।
४६