विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
नश्वित्र इत्येतं जपस्तु जुहुयान्नरः ॥ हुते शतसहस्रे तु तस्य विद्याधरः स्वकम् ॥ १२३ ॥ सुवर्णराशिं धर्मज्ञ शीघ्रमेव प्रयच्छति ॥ संवत्सरांशी- त्यनया घृतं हुत्वा विचक्षणः ॥ १२४ ॥ यावज्जीवमरोगी स्याल्लक्षहोमेन पण्डितः ॥ केतुं कृण्वन्नित्येतत्संग्रामे जयवर्धनम् ॥१२५॥ इन्द्राम्नं वर्म इत्येतद्रणे सन्नाहवन्चनम् ॥ धन्वनागेति मन्त्रश्च धनुर्ग्रहणिकः परः ॥ १२६ ॥ वक्ष्यन्तीति तथा मन्त्रो विज्ञेयो ज्याभिम- न्त्रणे ॥ मन्त्रश्चाहिरिवेत्यूणमन्त्रः प्रकीर्तितः ॥ १२७ ॥ युञ्जन्तीति तथाश्वानां योजने मन्त्र उच्यते ॥ आशुः शिशान इत्येतद्रथारम्भनमन्त्रयेत् ॥ १२८ ॥ विष्णोः क्रमेण मन्त्रश्च रथारोहणिकः परः ॥ आजन्वन्तीति चाश्वानां ताड- नीय उदाहृतः ॥ १२९ ॥ यः सेनाअभ्बीत्वेरीति परसैन्यमुखे जपेत् ॥ दुन्दुभि इति वाप्येतद् दुन्दुभिताडने भवत ॥ १३० ॥ एतैः पूर्वोदितैर्मन्त्रैः कृत्वैवं विजयो भवेत् ॥ यमेन दत्तमित्यस्य कोटिहोमाद्विचक्षणः ॥ १३१ ॥ रथश्रुतापदायेच्छीघ्रं संग्रामे विजयप्रदम् ॥ आकृष्णेति तथैतस्य कर्म व्याहितवद्भवेत् ॥ १३२ ॥ युवं च्यवानमेतच्च भयेषु भयनाशनम् ॥ घृताहुतिसहस्रेण नात्र कार्या विचारणा ॥ १३३ ॥ मित्रं हुवेत इत्येतन्मेधाकामस्य शस्यते ॥ स राज इति चैतेन देवताराधनं नरः ॥ १३४ ॥ कुर्याद्भागंव सर्वत्र होमजप्यैर्यथाश्रुतम् ॥ शिवसङ्कल्पजप्येन समाधिं मनसो लभेत्॥ १३५॥पञ्च नद्य इत्यनेन पद्मलक्षं घृताप्लुतम्॥हुत्वा शीघ्र मवाप्नोति श्रियं तु पद्मालिनीमिव ॥ १३६॥ उभाकवि त इत्येतद्रूपकामस्य शस्यते ॥ यदावधन्दान्दाक्षायणा मन्त्रेणानेन मन्त्रितम् ॥ १३७ ॥ सहस्रकृत्वः कनकं धारयन्निन्द्रनागवत् ॥ पुष्ट्रकामां च सर्वेषां तथा निर्वहणं परम् ॥ १३८ ॥ इमं जीवेभ्य इति च सीतलोष्टं चतुर्दिशम् १ न क्षिपेद्गृहे तदा तस्य न स्याच्चौरभयं निशि ॥ १३९ ॥ परीमेगामनेनेतेति वशीकरणमुत्तमम् ॥ हर्तुम्प्याणाततस्तस्य वशीभवति मानवः ॥ १४०॥ मध्वक्ताम्बूलपुष्पाद्यं मन्त्रितं तु प्रयच्छति ॥ यस्य धर्मरय वशगः सोऽस्य शीघ्रं भविष्यति ॥ १४१ ॥ शन्नोमित्रिति त इत्येतत्सदा सर्वत्र शान्तिदम् ॥ मनसः काममाकूतिः पुष्टिकामस्य शस्यते ॥ १४२ ॥ चमषट्कं च धर्मज्ञ सर्वकामकरं स्मृतम् ॥ पदूकेन २ च तथा होमः सर्वदेवप्रसादनः ॥ १४३ ॥ आदांयानोदकं स्पृष्ट्वा तद्दोषाद्विप्रमुच्यते ॥ विषूवतं चैतदज्येन हुतं शूलापहं भवेत् ॥ १४४ ॥ गणानां त्वा गणपतिं होमं कृत्वा चतुष्पथे ॥ वशं कुर्याज्जगत्सर्वं सर्वधान्यैरसंशयम् ॥ १४५ ॥ वैकुङ्क्रेधमहोमं च समास्त्वारथ इत्यादीपि ॥ यशसा योगमाप्नोति विपुलं नात्र संशयः ॥ १४६ ॥ अभिभूर्धैतिमन्त्रेण हुत्वेवाज्यं हुताशने ॥
१ 'कटकम्' इति ख० ।
२ 'पञ्चैके' इति पाठोऽपि ।
४६
वि० ध० ॥२७१॥
द्वि० खं० अ० १२६ ।२७१॥
तत्साद्मवाप्नोति नात्र कार्या विचारणा ॥ १४७॥ एवं हि देवतालिङ्गैस्तथा राग यथा स्वकैः ॥ हुतैः प्रसाद्येद्दिष्ट्वां देवतां नात्र संशयः ॥ १४८ ॥
हिरण्यवर्णाः शुचयो मन्त्रोऽयमभिषेचने ॥ शन्न आपश्च धन्वन्त्याः सर्वपापहराः स्मृताः ॥ १४९ ॥ शन्नो देवीरभिष्टये चेति शान्तिकरः परः ॥
एकचक्रिति मन्त्रेण हुतेनाञ्चेन भार्गव ॥ १५० ॥ प्रहृष्ट्यः शीघ्रमाप्नोति प्रसादं नात्र संशयः ॥ याज्यानुवाक्यौ वृक्षाणां समाग्रे वर्ण इत्यपीषा १५१॥
तत्साद्मवाप्नोति नात्र कार्या विचारणा ॥ गावो भग इति द्वाभ्यां हुत्वैवाज्यं सहस्रशः ॥ १५२ ॥ गाः समाप्नोति धर्मज्ञ नात्र कार्या
विचारणा ॥ उद्दुत्तमं वरुण इति जुहुयाद्दानुन्दन ॥ १५३ ॥ नदीवाहात्तडागेषु सुकृतेषु द्विजोत्तम ॥ संवदतां हिरण्यकोशं रूपं कृत्वा तथैव
च ॥ १५४॥ प्रपादसां सेति चैव गृहे यज्ञो विधीयते ॥ देवेभ्यो वनस्पत इति ब्रह्मण्यो विधीयते ॥ १५५॥रात्रियामस्य इति द्वाभ्यां रात्रियज्ञाः प्रकीर्त्ति-
ताः॥ शमे शमीकं शम्यीकामञ्चत्यं पुक्षमेव च ॥ १५६॥ उदुम्बरं च न्यग्रोधमपामार्गं च गोमयम्॥ यां कुर्याद्दधिमधुजलं दूर्वां प्राचीनंगामिनीम् ॥ १५७॥
सीतां लोष्ठं सुवर्णं च तथा वल्मीकमृत्तिकाम् ॥ सं वः सृजामीति द्वाभ्यां बीजांन्यप्सु विनिक्षिपेत् ॥ १५८ ॥ या ओषधय इत्येतदुदवाके ततो
जपेत् ॥ अपामिवेद्रिति ततः प्रोक्षणं तु विधीयते॥ १५९॥ इक्षोभयामितीत्येतादृष्टं जुहुयाद्द्विजः ॥ यद्वेद्वावेहद्देवनमृचस्तिस्रस्तथैव च ॥ १६० ॥
हुत्वा सम्प्रोक्षणं कुर्याद्भूयः सर्वत्र मानवः ॥ सर्वोपपातशमनं कर्मैतत्परिकीर्त्तितम् ॥ १६१ ॥ गायत्री वैष्णवी ज्ञेया तद्विष्णोः परमं पदम् ॥
सर्वपापप्रशमनी सर्वकर्मकरी तथा ॥ १६२ ॥ एतावदुक्तं यजुषां विधानं मया हि किञ्चित्तव धर्मनिष्ठ ॥ अतः परं वच्मि नुवीर साम्नां तन्मे
शृणुष्वायतलोहिताक्ष ॥१६३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे रामं प्रति पुष्करोपाख्याने तन्त्रविधानन्नाम पञ्चविंशत्यु-
त्तरशततमोऽध्यायः ॥ १२५॥ पुष्कर उवाच ॥ संहितां वैष्णवीं जप्त्वा विष्णुं प्रीणाति मानवः ॥१ ॥ सर्वकाममवाप्नोति तथा हुत्वा च भार्गव ॥ १॥
स्कन्दस्य संहितां जप्त्वा स्कन्दकामानवाप्नुयात् ॥ आस्यदग्ने जले तिष्ठन्नाघमर्षणोनमर्त्त्यमानः ॥२ ॥ त्रिःसप्तकृत्वो जप्त्वा च सर्वान्कामानवाप्नुवेत् ॥
तथा च संहितां पित्र्यां तत्प्रसादमुपाश्नुते ॥ ३ ॥ गुरुगोब्राह्मणादीनाञ्छुत्वा नाम प्रियं नरः ॥ सोपवासो जपेत्तोये त्त्विदं विष्णुरितिचऋचम् ॥ ४ ॥
सदा गावश्च शुचयः प्रयाज्ययजने जपेत् ॥ अमेध्यदर्शने जापोः पन्था अमे दिवः ॥ ५ ॥ एतद्बिन्दूक्तवामति सर्वपापहरं जपेत् ॥ दुर्क तेऽन्य-
द्धजतं जत्वा स्याद्विशुद्ध्यते ॥ ६ ॥ चक्रानिति तथा जप्त्वा पारयायी विशुद्ध्यते ॥ सहन्तः सोममित्येतज्जप्त्वा मुच्येतातिग्रहात् ॥ ७ ॥ यत्त
त्सोम इन्दु इति हिंसादोषविनाशनम् ॥ अमेध्यमभिसम्पृञ्चेत अभिरिस्तगोमते वै जपन् ॥ ८ ॥ सर्वपापहरं ज्ञेयं परितो पिश्वातामिति ॥ पर्वाससोमे
ति जपेज्जीवितुं तु सुकर्मणा ॥ ९ ॥ अविक्रेयं च विक्रेयं जपेद् घृतवतीत्विति ॥ अप्यानानो देवसवितो ज्ञेयं दुःस्वप्ननाशनम् ॥ १० ॥ त्रातारमि- न्द्रमित्येव महिम्नीणामसौस्म्विति ॥ उदुत्तमं वरुणपाशैरायुष्याणि जपेत्सदा ॥ ११ ॥ शुक्रचन्द्रेति जाप्येन पूतो भवति मानवः ॥ १शुद्धामुद्धाीयमे- तच्च तवोचोसूक्तमेव च ॥ १२ ॥ न्यग्रोधशृङ्गमादाय शरन्मूले तथैव च ॥ त्रिवृतं तु मणिं कृत्वा जुहुयाच्च सहस्रशः ॥ १३ ॥ वांच्यांसिगिरिति मन्त्रेण घृतं राम यथाविधि ॥ अभ्यज्य घृतशेषेण मलक्लालबन्ध इष्यते ॥ १४ ॥ द्रोणां यासां तु गर्भाणि पतन्ति भृगुसत्तम ॥ २बंणिज्जातस्य बालस्य बध्नीयात्तदनन्तरम् ॥ १५ ॥ गोर्व स्वरूपवत्सायाः शुक्लाया जुहुयाद्धृतम् ॥ उग्रप्रिया तु शरणं मन्त्रज्ञानेन मन्त्रवित् ॥ १६ ॥ रक्षसा मुच्यते जन्तुर्मणिं शिरसि धारयेत् ॥ कौत्स्यं घृतं तु प्राश्नीयान्नित्यमेव विचक्षणः ॥ १७ ॥ विश्वापृतनिति मन्त्रेण व्याधिभिर्विप्रमुच्यते ॥ चर्षणीधृतमंतेन घृतं हुत्वा यथाविधि ॥ १८ ॥ ४शतायार्मिर्मां बद्धा न सर्पः परिवेष्यते ॥ समत्यायन्त्वितीति जपेन्न ध्रियेत पिपासया ॥ १९ ॥ दृष्ट्राहोत्रितयं जप्त्वा सलिले नाप्नुयाद्भयम् ॥ त्वममा ओषधींत्वन्तज्जप्त्वा व्याधिं न चाप्नुयात् ॥ २० ॥ यते पयांसि पूर्वेण ग्रासं वै प्रक्षिपेन्मुखे ॥ निर्निरेदुरितेनप्रतिरुत्यारोग्यमाप्नुयात् ॥ २१ ॥ देवव्रतेन हुत्वाज्यमुच्छेषेण विचक्षणः ॥ कण्वीं रकमध्यञ्च ३दण्डहस्तगतेन तु ॥ २२ ॥ स्वस्तिमास्तेन भवति यत्र क्वचन गच्छति ॥ पथि देवव्रतं जप्त्वा भयेभ्यो विप्रमुच्यते ॥ २३ ॥ यदिच्छ्रो अनयत्वेति हुतं सौभाग्यवर्धनम् ॥ भद्रोभो अग्निरिति च दन्तकाष्ठं च भक्षयेत् ॥ २४ ॥ संवत्सरमग्निहोत्र- न्मध्वाज्यसहितं सदा ॥ सौभाग्यं महदाप्नोति यत्र क्वचन गच्छति ॥ २५ ॥ भगो न चित्र एतेन नेत्रयोरञ्जनं स्मृतम् ॥ सौभाग्यवर्धनं राम. नात्र कार्या विचारणा ॥ २६ ॥ जपन्त्रिन्द्रेति वर्गं च तथा सौभाग्यमाप्नुयात् ॥ करिप्रियो दिवः कविः काम्यां संश्रावयेश्रियम्यः ॥ २७ ॥ सा तं कामयते राम नात्र कार्या विचारणा ॥ रयन्तरं वामदेव्यं ब्रह्मवर्चसवर्धनम् ॥ २८ ॥ यशसामेति जुहुयात्पुष्पेण तु प्रियङ्ककम् ॥ यशसा योगमाप्नोति कर्मणानेन मानवः ॥ २९ ॥ प्राशयेदङ्गुलकं नित्यं वचाचूर्णं घृताप्लुतम् ॥ इन्द्रमिन्द्राधीनं जप्त्वा भवेच्छ्रुतिधरस्त्व- सौ ॥ ३० ॥ हुत्वा रथन्तरं जप्त्वा पुत्रमाप्नोत्यसंशयम् ॥ गीर्वाणः पाहि सततं जातं स्याद्वलतारकम् ॥ ३१ ॥ मयि श्रीरिति मन्त्रेण जातव्यं श्रीविवर्धनम् ॥ द्वानावशिति देवोऽपि मन्त्रेणानेन धर्मवित् ॥ ३२ ॥ क्रीत्वा घृतं तु पुष्पेण सुषुमाणीत्यतः पिबेत ॥ अलक्ष्मीनाशनं कर्म
१ 'शुद्धामुद्धां इसे तच्च' इति क० । २ 'बोध्यङ्गिणिति' इति ख० । ३ 'पाणौ' इति ख० । ४ 'शतपारम्' इति ख० ।
| वि० ध० | द्वि० सं० | |
|---|---|---|
| ॥२७२॥ | अ० १२६ |
मयैतत्प्रकीर्तितम् ॥ ३३ ॥ पुष्येण सर्षपान्गौरांश्चूर्णयित्वा विचक्षणः ॥ इन्द्रे हिमवतस्य धर्मेति कुर्यादुत्सादनं बुधः ॥ ३४ ॥ घृतस्नानं बुधः कृत्वा सर्षपाञ्जुहुयात्ततः ॥ अदेवीर्डोसौविन्द्विति मन्त्रेणानेन मन्त्रितम् ॥ ३५ ॥ प्रदिष्टं कर्म कथितं मयैतत्त्व भार्गव ॥ मिश्रान्व्रीहियवान्बभ्रौ हुत्वा भृगुकुलोद्भव ॥ ३६ ॥ मुनीशो धाम एतेन धान्यभागी भवेत्सदा ॥ मध्वाज्यदधिमिश्राणि विप्रांणाति जुहोति यः ॥ ३७ ॥ साद्यं सहस्रं धर्मज्ञ श्रावयन्तीह मानवाः ॥ मासोपवासी लभते कनकं बहु भार्गव ॥ ३८ ॥ गव्येषुणेति च द्वाभ्यां पस्तु संवत्सरं नरः ॥ न्यग्रोधजपनिष्ट्रीवं भक्षयेद्दन्तधावनम् ॥ ३९ ॥ सहस्रमह्लयं स धनं लभते नात्र संशयः ॥ भद्रो न अद्य इत्येतत्तथा हुत्वा सहस्रशः ॥ ४० ॥ औदुम्बरेध्मोनेन मन्त्रेणानेन गां लभेत् ॥ हुत्वा श्रीरित्यावृक्षस्य धान्यमाप्नोति मानवः ॥ ४१ ॥ एवासिवैद्युतेरिति द्वादशाहमुपोषितः ॥ सर्पिषा त्वमृतं हुत्वा ग्राममाप्नोति मानवः ॥ ४२ ॥ वैरुपांक्षकवित्रियं प्रयुञ्जानः श्रियं लभेत् ॥ श्रान्ताष्टकं प्रयुञ्जानः सर्वान्कामानवाप्नुयात्त ॥ ४३ ॥ गव्येषुणेति यो नित्यं सायं प्रातरतन्द्रितः ॥ उपस्थानं गवां कुर्यात्तस्य स्युस्ताः सदा गृहे ॥ ४४ ॥ अग्नं विवस्वदुपसा मन्त्रेणानेन मन्त्रवित् ॥ भाजनस्योपनीतस्य यत्सत्त्वं जुहुयात्सदा ॥ ४५ ॥ उत्तरेण बलिं दत्त्वा सर्वान्कामानवाप्नुयात् ॥ क्षीरवृक्षसमाश्राय मणिभद्राय मानवः ॥ ४६ ॥ अष्टरात्रोषितः पूजां कृत्वा दद्यात्ततो बलिम् ॥ सुसंस्कृतेन मांसेन कृष्णपक्षे षष्ठ्यधुः ॥ ४७ ॥ एपस्यतेति मधुमद्भिन्द्र एतेन भार्गव ॥ सुवर्णमाप्नोति नरो यावदिच्छति शुद्धधीः ॥ ४८ ॥ शुक्लपक्षचतुर्दश्यां त्रिरात्रोपोषितो नरः ॥ मौनं मांसं पायसं च रसत्रयं समन्वितम् ॥ ४९ ॥ सप्तधेनवो दुहुर्मन्त्रेणानेन मन्त्रवित् ॥ कृष्णपक्ष चतुर्दश्यां त्रिरात्रोपोषितस्तथा ॥ ५० ॥ मत्स्यान्पुष्पोदकाश्चावासुरीमाञ्जायाच्छियम ॥ बहुपुत्रीक्ष भवति दीततेजास्तथैव च ॥ ५१ ॥ धनावन्तं करीषिणं मन्त्रेणानेन पायसम् ॥ हुत्वा दिगष्टके द्वाविदक्पालानां ततो बलिम् ॥ ५२ ॥ वास्तुदोषहरं कर्म मयैतत्परिकीर्तितम् ॥ राजा समाचरेत्स्नानं पुष्येण श्रवणेन च ॥ ५३ ॥ आप्मातुव्य इति सदा रहस्यं स्नानमाचरेत् ॥ स्वेच्छापतितजीवन्तीगवां शृङ्गसमुद्भवैः ॥ ५४ ॥ कार्शमीद्व्वाज्यसम्यर्गैर्दधिक्षीरयुतैस्तथा ॥ निःसपत्नमवाप्नोति राज्यं निर्गतकण्टकम् ॥ ५५ ॥ घृताक्तं तु यवक्षोणं वात आवतेर्भेषजम् ॥ अनेन हुत्वा विविधत्सर्वान्दोषानप्यपोहति ॥५६॥ प्राद्देवो दास एतेन कृष्णान्हुत्वा तथा तिलान् ॥ कृत्वा कर्माणि तीर्थादैः स्तेय्यात्किल्विषं विमुच्यते ॥५७॥
॥२७२॥
१ 'इन्द्राग्निधर्मानो' इति ख० ।
२ 'तिलानि च' इति ख० ।
३ 'वैश्यान्मातृनवि' इति ख० ।
४ 'अग्निनावि' इति ख० ।
५ 'रत्नत्रयं' इति ख० ।
६ 'अन्नं द्रव्यम्' इति ख० ।
अभि त्वा पूर्वपीतं ये वषट्कारसमन्वितम् ॥ बाधैकैधम् सहस्रं तु हुतं युद्धे जयप्रदम् ॥ ५८ ॥ हस्त्यश्वरूपाण्युत्कुर्याद् बुधः पिष्टमया- ञ्जुहुयान् ॥ परकीयानथोद्दिश्य प्रधानपुरुषांस्तथा ॥ ५९॥ स्वस्त्यश्नापिष्टपचने सुरेणोत्कृत्य भागशः ॥ अभिभूरसि शूर नो तमो मन्त्रेणानेन मन्त्र- वित् ॥ ६० ॥ कृत्वा सर्षपतैलाक्तान्क्रोधेन जुहुयात्ततः ॥ एतत्कृत्वा बुधः कर्म संग्रामे जयमाप्नुयात् ॥ ६१ ॥ आषाढ्यां पौर्णमास्यां तु सोप- वासो विचक्षणः ॥ सायं धान्यानि वस्त्राणि सस्यानि तोलयेद् बुधः ॥६२ ॥ इध्ममिद्धेवतामन्त्रे मन्त्रेणामन्त्रयेत्तु ताम् ॥ पूजितां वासयेद्रात्रौ देशे परमपूजिते ॥ ६३ ॥ देशानां भूमिपालानां तथा देवचतुष्पदाम् ॥ मृन्मयानां तु कर्तव्यं तथा राज्याधिवासनम् ॥ ६४ ॥ तुलितानां द्वितीयोऽह्नि तत्तद्वृद्धि प्रवर्धने ॥ हीनस्य क्षयमादेश्यं समस्य समता तथा॥६५॥ गोव्रतं तु बुधः कुर्यादादौ मासचतुष्टयम् ॥ ततस्त्वरण्यं प्रविशेत्तत्र कुर्याज्जपं शुभम् ॥६६॥ तपः सहस्रमासाद्य जाहूतेतिदिति वै सदा ॥ सहस्रकृत्वस्तु जपेत्सप्तरात्रये गते॥ ६७॥मनसा कांक्षितान्कामानवाप्नोति मानवः॥ अन्तरिक्षेण वा याति रूपान्यत्वं करोति वा ॥६८॥ अदृश्यत्वमवाप्नोति दैत्यत्वमय वा पुनः ॥ तंतं काममवाप्नोति यंयं वा मनसेच्छति ॥६९॥ सामस्तु देवतां ज्ञात्वा तेन साम्ना तु देवताम् ॥ आराधयेत्सुप्रसन्ना साम्ना स्यात्संशयं विना॥७०॥अमुष्मु पूर्व तु सदा मन्त्रमावर्तयंच्छुचिः ॥ चन्दने- नाङ्गुलितांगो जातिपुष्पधरस्तथा ॥ ७१ ॥ श्वेतोष्णीषः श्वेतवासाः सर्वान्कामानवाप्नुयात् ॥ एवं दुर्द्दुकैंत्येतत्सोपवासस्तु यो जपेत् ॥ ७२ ॥ अक्षतैः सुमनोभिश्च तथा वा गौरसर्षपैः ॥ अवकीर्य शुभं देशं त्वेककी प्रजपेन्निशि ॥ ७३ ॥ वाग्यतस्तु तथा स्वप्ने पश्यतीति शुभाशुभम् ॥ यथावद्भृगुशार्दूल भविष्यद्भूतमेव वा ॥ ७४ ॥ भारुण्डं वामदेव्यं च रथन्तरबृहद्रथौ ॥ सर्वपापप्रशमनाः कथिताः संशयं विना ॥ ७५ ॥ साम्नां विधिरिते कथितो नृवीर संक्षेपतः कर्मकरो मयैषः ॥ आथर्वणं वच्मि निबोध तन्मे चेतः समाधाय महानुभाव ॥ ७६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने सामविधिकथनन्नाम षड्विंशत्युत्तरशततमोऽध्यायः ॥ १२६ ॥ ॥ पुष्कर उवाच ॥ शान्तातितं गणं हुत्वा शान्तिमाप्नोति मानवः ॥ भेषज्यं च गणं हुत्वा सर्वान्रोगान्प्रव्यपोहति ॥ १ ॥ त्रिषस्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते ॥ क्वचिन्नाप्नोति च भयं हुत्वा चैवाभयं गणम् ॥ २ ॥ न क्वचिज्जायते राम गणं हुत्वा पराजयः ॥ आयुष्यं च गणं हुत्वा चापमृत्युन्वपोहति॥३॥ एते दशगुणाश्चैव होतव्याः स्युर्यथाक्रमम् ॥ अष्टादशसु धर्मज्ञ दशशान्तिषु भार्गव ॥ ४ ॥ वैष्णवी च तथा चैन्द्री ब्राह्मी रौद्री तथैव च ॥
१ 'तः' इति क० ख० ।
२ 'र्भिदेवताम्' इति ख० ।
वायव्या वारुणी चैव कौबेरी भार्गवी तथा ॥ ५ ॥
प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता ॥
मारुणी च गान्धारी शान्तिर्वै रुदती तथा ॥ ६ ॥
शान्तिर्नागिरसी याम्या पार्थिवी च भृगूत्तम ॥
एतास्तु शान्तयः प्रोक्ताः सर्वकर्महिताः सदा ॥ ७ ॥
यस्त्वामृषुरितीत्यूचैर्जप्तं दुःस्वप्ननाशनम् ॥
हुत्वा च मातृनामानि कामानेवामवाप्नुयात् ॥ ८ ॥
सुपर्णोऽस्विति हुत्वा च भुजंगेनैव बाध्यते ॥
यस्येदं भूमिरिति च भूमिकामो जपेत्सदा ॥ ९ ॥
पृथिव्यामुत्तमोसीति हुतं श्रेष्ठप्रदं सदा ॥
औदुम्बरं यो न इति तथा वीर्यविवर्धनम् ॥ १० ॥
इन्द्रेण दत्तमित्येतत्सर्वबाधाविनाशनम् ॥
हिरण्यवर्ण इति च स्नानं पापहरं भवेत् ॥ ११ ॥
असितस्येति सर्वाणि विषघ्नानि भृगूत्तम ॥
सारस्वतीति मन्त्रांश्च विषघ्नांस्त्रिविधोद्बुधः ॥ १२ ॥
शरभादीनि सर्वाणि पिशाचशमनानि च ॥
यमस्य लोकादित्येतद्दुःस्वप्ननाशनं परम् ॥ १३ ॥
अभयं इति चाप्येतत्कथितं मन्युनाशनम् ॥
ऊर्ध्वो भवति विज्ञेयः कृत्वा स्थानकरः परः ॥ १४ ॥
इन्द्रं वयं वाणिजामिति पण्यलाभकरं परम् ॥
कामो मे राज्ञीति हुतं स्त्रीणां सौभाग्यवर्धनम् ॥ १५ ॥
भद्राय कर्णमित्येतत्कर्णप्रत्यन्दे जपेत् ॥
भद्रासाक्षित्वचे जाता कर्णप्रस्र्न्दने तथा ॥ १६ ॥
तुभ्यमेवाजरिति आयुष्यं तु हुतं भवेत् ॥
आयातु पितमित्येतान्रिमन्त्रल्लव्धिकरं हुतम् ॥ १७ ॥
आसासनामिन्र्द जना मिश्रधान्येन होमयेत् ॥
आधिपत्यमवाप्नोति सर्वत्र मनुजोत्तम ॥ १८ ॥
अधिरिशिभिरित्येतद्गवां वृद्धिकरं परम् ॥
द्वादशाहं तु जुहुयात्परकेण विशेषतः ॥ १९ ॥
शान्तो हविरितीत्यूदृहामस्वास्थ्यकरं भवेत् ॥
तस्माह्रामान्दृढा कृत्वा वेदिंसाम्यं समश्नुते ॥ २० ॥
विधाय स्वेति सर्वाणि राष्ट्रस्वीकरणानि तु ॥
त्रिभ्यो भद्रेभू इत्येतद्वास्तोष्पत्यमुदाहृतम् ॥ २१ ॥
ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् ॥
अच्युतोपस्तथा राग कथितं स्थानलाभदम् ॥ २२ ॥
पयो देवीष्विति हुतं रायस्पोषकरं परम् ॥
पुनक्तु सरीति शुना कृषिलाभकरं भवेत् ॥ २३ ॥
अयं ते योनिरित्येतत्पुत्रलाभकरं भवेत् ॥
शुने वत्सा तथा ह्येतद्गवां वृद्धिकरं हुतम् ॥ २४ ॥
... ...... मेति कथितं सर्वत्र श्रेष्ठ्यकारकम् ॥
यद्भूमे इति चाप्येतद्वन्ध्यान्मोक्षकारकम् ॥ २५ ॥
यो न स्व इति चाप्येतच्छत्रुनाशनकरं परम् ॥
सवनहविरीति तथा नात्र कार्या विचारणा ॥ २६ ॥
(त्वमत्वममितोयेत्यशसो वर्धनं परम् ॥
यथा वृषिमितीत्येतत्स्त्रीणां सौभाग्यवर्धनम् ॥ २७ ॥
आनो अग्न इत्येतच्च कथितं पतिलाभदम् ॥
येन वहति मां चैव गर्भलाभकरं भवेत् ॥ २८ ॥
इमं तपस्विन्निति तथा भवेत्सौभाग्यवर्धनम् ॥
यत्सुपिव्यमानावृतं हुतमेतद्भवोविधि ॥ २९ ॥
कृत्वा तु संशनं ज्ञेय नात्र कार्या विचारणा ॥ ......................................... ॥ ३० ॥)
शिवं शिवाभिरित्येतद्रद्वेच्छ्रेयस्करं परम् ॥
दूत्या दूषणमित्येतत्कृत्वा दूषणमुच्यते ॥ ३१ ॥
बृहस्पतिः परिपातु पथि स्वस्त्ययनं भवेत् ॥
मनो विवस्त्रं भयहं वापि स्वस्त्ययनं भवेत् ॥ ३२ ॥ अग्नौ अग्निरध्यक्षो भवेदग्निप्रसादतः ॥ संवत्सरं तु शिरसा धारयेद्यो हुताशनम् ॥ ३३ ॥ मन्त्रमेतज्जपेन्नित्यमाश्रयाशासुखः स्थितः ॥ अनाग्निश्चज्वलं कुर्याद्द्वामंसंवत्सरे गते ॥३४॥ हुत्वा दूतिरसीत्येतज्ज.. पञ्चमन्त्रमनुत्तमम् ॥ कुर्यात्यादि- सराविन्द्यं सर्वदोषनिबर्हणम्॥३५॥प्राणसूक्तेश्च कथितं तथा प्राणविवर्धनम् ॥ सुआप्ति त्विति कथितमपमृत्युकविमोक्षणम् ॥३६॥ अथर्वशिरसोऽध्येता सर्वपापैः प्रमुच्यते ॥ परमं पावनं तद्धि सर्वकल्मषनाशनम्॥३७॥ एवमेते शुभा मन्त्राः प्रतिवेदं मया तव ॥ समासात्कथिता राम समुद्धृत्य प्रधा- नतः ॥ ३८ ॥ एकैकस्य च मन्त्रस्य विनियोगाः सहस्रशः ॥ कथिता भृगुशार्दूल पुराणेः सुमहानिभिः ॥ ३९ ॥ न ते शक्या महाभाग वक्तुं वर्षशतैरपि ॥ प्राधान्येन तु मन्त्राणां किंचित्कर्म तवेरितम् ॥ ४० ॥ होमे यत्र न निर्दिष्टं मया द्रव्यं पुरा तव ॥ हवींषि तत्र वक्ष्यामि तानि मे गदतः शृणु ॥ ४१ ॥ वृक्षाणां यज्ञियानान्तु समिधः प्रथमं हविः ॥ आज्यञ्च व्रीहयश्चैव तथा वै गौरसर्षपाः ॥ ४२ ॥ अक्षतानि तिलाश्चैव दधि क्षीरञ्च भार्गव ॥ दर्भास्तथैव दूर्वाश्च बिल्वानि कमलानि च ॥ ४३ ॥ शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि भार्गव ॥ तैलेन्धनानि धर्माङ्ग राजिकां रुधिरं विषम् ॥ ४४ ॥ समिधः कण्टकोपेता अभिचारेषु योजयेत् ॥ आर्षं वै दैवतं छन्दस्तत्त्वविज्ञाय भृगुत्तम ॥ ॥ ४५ ॥ मन्त्रस्य तेन मन्त्रेण जप्यहोमौ न कारयेत् ॥ छन्दसि ब्राह्मणे सूक्ते यद्व्यक्तं प्रदृश्यते ॥ ४६ ॥ विप्रैस्तु सह निश्चित्य तद्यज्ञमवतारयेत् ॥ सम्भारा ये यथा यत्र यानि द्रव्याणि यो विधिः ॥ ४७ ॥ शाखां प्रति तथा तत्र तस्य माणमिति स्थितिः ॥ यः स्वसूत्रमतिक्रम्य परसूत्रेण वर्तते ॥ ४८ ॥ अप्रमाणमपि कृत्वा सोऽप्यधर्मेण युज्यते ॥ तस्मात्सर्वप्रय- त्नेन स्वसूत्रं न विलंघयेत् ॥ ४९ ॥ प्राप्तन्तूत्तरतन्त्रे तु स्वशाखाप्राप्तयथा द्विज ॥ सर्वकर्मसु कर्तव्ये मध्ये कर्म विधीयते ॥ ५० ॥ अथर्वणोऽस्य कथितो विधिस्ते संक्षेपतो भार्गववंशमुख्य ॥ अतः परं किं कथयामि तुभ्यं तन्ये वड्वावायतलोहिताक्ष ॥ ५१ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीय खण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्यानेऽथर्वविधिकथनननाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥ १२७ ॥ राम उवाच ॥ एकं मन्त्रं समाचक्ष्व देव लक्ष्मीविवर्धनम् ॥ प्रतिवेदं जगन्नाथ याद्येणगणपत्वात्मज ॥ १ ॥ पुष्कर उवाच ॥ श्रीसूक्तं प्रतिवेद्दञ्च ज्ञेयं लक्ष्मीविवर्धनम् ॥ अस्मिँल्लोके परे वापि यथाकामं द्विजस्य तु॥२॥राम उवाच ॥ प्रतिवेदं समाचक्ष्व श्रीसूक्तं पुष्टिवर्धनम् ॥ श्रीसूक्तस्य तथा कर्म सर्वधर्मभृतां वर॥ ॥३॥ पुष्कर उवाच ॥ हिरण्यवर्णां हरिणीमृचः पञ्चदश द्विज ॥ श्रीसूक्तं कथितं पुण्यमृग्वेदे पुष्टिवर्धनम् ॥४॥रथे अक्षेषु वाजेति चतस्रस्तु तथा
ऋचः ॥ श्रीसूक्तं तु यजुर्वेदे कथितं पृथिवचनम् ॥ ५ ॥ आप्यन्तीयं तथा मासं सामवेदे प्रकीर्तितम् ॥ श्रियं दातुमयि देहि प्रोक्तमथर्वणे तथा ॥ ६ ॥
श्रीसूक्तं योजयेद्गत्या तस्याल्लक्ष्मीर्निविश्यति ॥ जुहुयाच्च धर्मज्ञ हविष्येण विशेषतः ॥ ७ ॥ श्रीसूक्तेन तु पद्मानांकृतान्नानं भुङ्क्तम् ॥ अयुतं होमये-
द्यस्तु वह्नौ भक्तियुतो नरः ॥ ८ ॥ पद्महस्तद्वया लक्ष्मीस्तं नरं तूपतिष्ठति ॥ दशायुतं तु पद्मानांकुर्याद्यस्तथा जले ॥ ९ ॥ नापैति तत्कुलाल्लक्ष्मी-
र्विष्णोर्वक्षोगता यथा ॥ घृताक्तानान्तु बिल्वानां कृत्वा रामायुतं तथा ॥ १० ॥ बहुवित्तमवाप्नोति स यावन्मनसेच्छति ॥ बिल्वानां लक्षहोमेन
कुले लक्ष्मीरुपाऽश्नुते ॥ ११ ॥ पद्मानामथ बिल्वानां कोटिहोमं समाचरेत् ॥ श्रद्दधानः समाप्नोति देवेन्द्रत्वमपि ध्रुवम् ॥ १२ ॥ संपूज्य देवीं वरदां
यथावद्वस्त्रैः सितैर्वा कुसुमैस्तथान्यैः ॥ क्षीरेण धूपैः परमान्नभक्ष्यैर्लक्ष्मीमवाप्नोति विधानतश्च ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे
मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने श्रीसूक्तमाहात्म्यकथनन्नामद्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १२८ ॥ राम उवाच ॥ एकं मन्त्रं
समाचक्ष्व सर्वकर्मकरं शिवम् ॥ ऐहिकं सर्वधर्मिष्ठं पारलौकिकमेव च ॥ १ ॥ पुष्कर उवाच ॥ प्रतिवेदं महाभाग यत्सूक्तं पौरुषं स्मृतम् ॥ सर्वकर्म-
करं ज्ञेयं पवित्रं मधुसूदनम् ॥ २ ॥ एकैकया ऋचा राम स्नातो दत्त्वा जलाञ्जलीः ॥ पौरुषेण च सूक्तेन मुच्यते सर्वकिल्बिषैः ॥ ३ ॥ अन्तर्जलगती
जप्त्वा तथा सूक्तं तु पौरुषम् ॥ सर्वकल्मषनिर्मुक्तो यथेष्टं लभते गतिम् ॥ ४ ॥ एकैकया ऋचा स्नातः पुष्पं पुष्पं निवेदयेत् ॥ पुरुषाय जले राम
सर्वपापैर्विमुच्यते ॥ ५ ॥ एकैकया ऋचा स्नातो दत्त्वा राम फलैःफलम् ॥ सर्वान्कामानवाप्नोति यान्कांश्चिन्मनसेच्छति ॥ ६ ॥ पौरुषेण च
सूक्तेन प्राणायामो महाफलः ॥ जपोहोमो तथा राम सर्वकल्मषनाशनौ ॥ ७ ॥ सुरापो ब्रह्महा स्तेनस्तथैव गुरुतल्पगः ॥ पापेभ्यो विप्रमुच्येत जप्त्वा
सूक्तं तु पौरुषम् ॥ ८ ॥ कृच्छ्रैर्वैशोधितः पूर्वं मध्याह्ने सलिलाशयः ॥ स्नात्वा तु पौरुषं सूक्तं जपेत्त्रितयमतन्द्रितः ॥ ९ ॥ संवत्सरेण देवेशं वासु-
देवं प्रपश्यति ॥ स्वयमेव महाभाग शाकमूलफलाशनः ॥ १० ॥ तस्मात्काममवाप्नोति यद्राम मनसेच्छति ॥ श्रियमग्र्यां तथा रूपं जीवितं दीर्घ-
मेव च ॥ ११ ॥ अणिमां लघिमां प्राप्तिं महिमां च भृगूत्तम ॥ ईशित्वञ्च वशित्वञ्च प्राकाम्यञ्च भृगूत्तम ॥ १२ ॥^१ यत्र कामवसायित्वं तस्मात्प्राप्नोति
मानद ॥ दुर्वापमप्यन्यद्या यत्किञ्चिन्मनसेच्छति ॥ १३ ॥ अकामः पौरुषं सूक्तं जप्त्वा नित्यमतन्द्रितः ॥ तत्र याति महाभाग यद्विष्णोः परमं
पदम् ॥ १४ ॥ मांगल्यमेतत्परमं पवित्रं संसारदुःखौघविनाशकारि ॥ सुखप्रदं धर्मविधं नराणां मनोरमावाप्तिकरं प्रदिष्टम् ॥ १५ ॥ इति श्रीविष्णु-
^१ अणिमामित्यादिष्वबन्तताऽऽर्षत्वात् ।
धर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुरुषसूक्तमाहात्म्यवर्णनन्नामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥ १२९ ॥ राम उवाच ॥ पुरा धर्माणि प्रोक्तानि ब्रह्मचारिगृहस्थयोः ॥ कर्माप्युक्तानि च ब्रूहि शिष्टमप्याश्रमद्वयम् ॥ १ ॥ (गृहस्थवन्माश्रित्य काम्यानि सुसत्सम ॥ कर्माणि तानि मे ब्रूहि शिष्टान्यप्याश्रमद्वये ॥ २ ॥ पुष्कर उवाच ॥ सुखं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ॥ वने वसेत्तु नियतो यथावद्विजितेन्द्रियः ॥ ३ ॥ गृहस्थस्तु यदा पश्येद्दलीपलितमात्मनः ॥ अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ ४ ॥ संत्यज्य ग्राम्यमाहारं सर्व्वैश्व परिच्छदम् ॥ पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ ५ ॥ अग्निहोत्रं समादाय गृह्यं चाग्निं परिच्छदम् ॥ ग्रामादरण्यं निःसृत्य निवसेद्विजितेन्द्रियः ॥ ६ ॥ मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ॥ सर्वानेव महायज्ञानिर्व्वपेद्विधिवत्क्रमात् ॥ ७ ॥ वसीत चर्म चीरं वा सायं स्नायात्तृणे तथा ॥ जटाश्च विभृयान्नित्यं श्मश्रुलोमनखांस्तथा ॥ ८ ॥ यद्यच्च स्यात्ततो दद्याद्बलिं भिक्षांश्च शक्तितः ॥ समूलफलभिक्षाभिर्चय्येदाश्रमागतान् ॥ ९ ॥ स्वाध्यायनित्युक्तः स्याद्दान्तो मैत्रः समाहितः ॥ दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥ १० ॥ वैतानिकञ्च जुहुयादग्निहोत्रं यथाविधि ॥ दर्शमन्वेस्कन्दन्यवं पौर्णमासीञ्च योगतः ॥ ११ ॥ ऋक्षेष्ट्याग्रयणञ्चैव चातुर्मास्यान्यथापि चाहरेत् ॥ उत्तरायणञ्च क्रमशो दक्षिणायनमेव च ॥ १२ ॥ वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः सुसमाहृतैः ॥ पुरोडाशांश्चरुंश्चैव विधिवन्निर्वपेत्पृथक् ॥ १३ ॥ देवताभ्यस्तु तद्धुत्वा वन्यं मध्यतरं हविः ॥ शेषमात्मनि युञ्जीत लवणञ्च स्वयं कृतम्॥ १४॥ स्थलजोदकशाकानि पुष्पमूलफलानि च ॥ मध्वृक्षोद्भवन्वान्यात्स्नेहा॑श्च फलसंयुतान् ॥ १५ ॥ वर्जयेन्मधुमांसानि भौमानि कवकानि च ॥ भूस्तृणं शिग्रुकञ्चैव भडातकफलानि च ॥ १६॥ त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् ॥ जीर्णानि चैव वासांसि पुष्पमूलफलानि च ॥ १७ ॥ न फाल्कृष्टमश्नीयादुत्सृष्टमपि केनचित् ॥ न ग्रामजातमन्रञ्च पुष्पाणि च फलानि च ॥ १८ ॥ अप्प्रविष्कारणो वा स्यात्कालपक्वभुगेव वा ॥ अश्मविद्धो भवेद्वापि दन्तोलूखलिकस्तथा ॥ १९ ॥ सद्यः प्रक्षालिको वा स्यान्माससञ्चयिकोऽपि वा ॥ षण्मासनिनचयो वा स्यात्सम्प्राप्तनिचय एव वा॥२०॥ नक्तं वाऽनं समश्नीयाद्दिवा चाहृत्य शक्तितः॥ चतुर्थकालिको वा स्यात्स्याद्वा चाष्टमकालिकः ॥ २१ ॥ चान्द्रायणविधानैर्व्वा शुक्ले कृष्णे च वर्त्तयेत् ॥ पक्षान्तयोर्वाप्यश्नीयाद्यवागूं कथितां सकृत् ॥ २२ ॥ पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत्सदा ॥ कालपक्वः स्वयं शीर्णैर्वनवानपि स्थितिः ॥ २३ ॥ भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदेन्दिनम् ॥ स्थानासनाभ्यां विहरेत्सवनेषुपयन्नपः ॥ २४ ॥ ग्रीष्मे पञ्चतपास्तु स्याद्वर्षासु भावकाशकः ॥ आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ २५ ॥
१ 'स्नात्सारणमवेत्' इति पुस्तकान्तरे पाठः।
वि० ध० ॥२७६॥ द्वि० सं० अ० १३१ ॥२७५॥
उपस्पृशिंस्त्रिपवणं पितृन्देवांश्च तर्पयेत् ॥ तपश्चांश्चोग्रतरं शोषयेद्देहमात्मनः ॥ २६ ॥ अग्नीनात्मनि वैतानन्समारोप्य यथाविधि ॥
अनग्निरनिकेतश्च मुनिर्मूलफलाशनः ॥ २७ ॥ अप्रयत्नः सुखायैषु ब्रह्मचारी धराशयः ॥ शरणेषु समश्चैव वृक्षमूलनिकेतनः ॥ २८ ॥
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ गृहमेध्येषु चान्येषु द्विजेषु वनवासिषु ॥ २९ ॥ ग्रामादाहृत्य नाश्नीयादष्टौ ग्रासान्वने वसन् ॥
विविधाश्चौपनिषदो ह्यात्मसंसुद्धये श्रुतीः ॥ ३० ॥ ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः ॥ विद्यातपोभिवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ ३१ ॥
अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः ॥ आनिपाताच्छरीरस्य युक्तो वार्यनिलाशनम् ॥ ३२ ॥ त्यक्त्वा तनुं सम्यगथोदितस्य
विधेरेकस्य वने निवासी ॥ प्राप्नोति लोकं स पितामहस्य त्यक्ता भयं नात्र विचारमस्ति ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे
मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने वानप्रस्थाश्रमकथनन्नाम त्रिंशदुत्तरशततमोऽध्यायः ॥ १३० ॥ ॥ छ ॥
पुष्कर उवाच ॥ वनेषु च विहृत्यैवं तृतीयं भागमायुषः ॥ चतुर्थमायुषो भागं त्यक्तसङ्गः परिव्रजेत् ॥ १ ॥ आश्रमादाश्रमं गत्वा हुतहोमो जि-
तेन्द्रियः ॥ भिक्षावलपरिश्रान्तः प्रव्रजद्गतवार्जितः ॥ २ ॥ ऋणामि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ॥ अनपाकृत्य च ऋणं मोक्षमिच्छु-
र्व्रजत्यधः ॥ ३ ॥ अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः ॥ इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ४ ॥ अनधीत्य द्विजो वेदान्
उत्पाद्य तथा सुतान् ॥ अनिष्द्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधः ॥ ५ ॥ प्राजापत्यां निरूप्येष्टिं सर्ववेदां सदक्षिणाम् ॥ आत्मन्यग्नीन्समारोप्य
प्रव्रजत्युभयं गृही ॥ ६ ॥ तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥ यस्मादणुर्वापि भूतानां द्विज नोत्पद्यते भयम् ॥ तस्य देहाद्विमुक्तस्य
भयं नास्ति कथञ्चन ॥ ७ ॥ अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः ॥ समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ८ ॥ एक एव चरे-
न्नित्यं सिद्ध्यर्थमसहायवान् ॥ सिद्धिमेकस्य तां पश्यन्न जहाति न हीयते ॥ ९ ॥ अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् ॥ १० ॥
उपेक्षकोऽसञ्चयको मुनिर्भावसमाहितः ॥ कपालं वृक्षमूलानि कुचेलमसहायता ॥ ममता नैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥ ११ ॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ कालमेव प्रतीक्षेत निर्देशंभृतको यथा ॥ १२ ॥ (दृष्टिपूर्तं न्यसेत्पादं वस्त्रपूतं जलं पिवेत ॥ सत्य-
पूतां वदेद्वाचं मनःपूतं समाचरेत् ॥१३॥ अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ॥ १४ ॥) न चैनं गृहाश्रित्य वैरं कुर्वीत केनचित् ॥
क्रुद्ध्यन्तं न प्रतिक्रुद्ध्येदाकृष्टः कुशलं वदेत् ॥ १५ ॥ सप्तद्वारावकीर्णाञ्च न वाचमनृतां वदेत् ॥ अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ॥ १६ ॥
आत्मनैव सहायेन चरेद्धर्ममतन्द्रितः ॥ १७ ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ॥ नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ १८॥ न तापसैर्ब्राह्मणैर्वा वयोभिरथवायसैः ॥ आकीर्णं भिक्षुकैर्वाऽन्यैरागारमुपसंव्रजेत् ॥१९॥ कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ॥ विचरन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥ २०॥ अतेजसानि पात्राणि तस्य स्युर्निर्व्रणानि च ॥ तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ २१ ॥ अलाबुं दारुपात्रञ्च मृन्मयं वैदलं तथा ॥ एतानि यतिपात्राणि विज्ञेयानि मनीषिभिः ॥ २२ ॥ सौवर्णमणिपात्रेषु कांस्यरौप्यायसेषु च ॥ भिक्षां दद्यान्न धर्मज्ञ गृहीत्वा नरकं व्रजेत् ॥ २३ ॥ एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरे ॥ भैक्ष्ये प्रसक्तस्य मतिर्विषयेष्वपि सज्जते ॥ २४॥ विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ॥ वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ २५ ॥ अलाभी न विषादी स्याल्लाभे चापि न हर्षयेत् ॥ प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ अभिपूजितलाभांस्तु यतिर्मुक्तोऽपि बध्यते ॥ २६ ॥ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ॥ ह्रियमाणानि विषयेन्द्रियाणि निवर्तयेत् ॥ २७ ॥ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ॥ अहिंसया च भूतानाममृतत्वाय कल्पते ॥ २८ ॥ अवेक्षेत गतिं नृणां कर्मदोषसमुद्भवाम् ॥ निरये चैव पतनं यातनाश्चैव याम्यिकाः ॥ २९ ॥ देहादुत्क्रमणं चास्मात्पुनर्गर्भे च सम्भवम् ॥ योनिकोटिसहस्रेषु मृतौ चास्यान्तरात्मनः [^1] ॥ ३० ॥ अधर्मप्रभवं चैव दुःखसंयोगं शरीरिणाम् ॥ धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ ३१ ॥ सूक्ष्मतां चानुवीक्षेत योगेन परमात्मनः ॥ देहेषु चैव पतितानुत्तमेष्वधमेषु च ॥ ३२॥ दूषितोऽपि चरेद्धर्मं यत्र कुत्राश्रमे रतः ॥ समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ३३ ॥ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ॥ न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ३४ ॥ संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ॥ शरीरस्यात्यये वापि समीक्ष्य वसुधां चरेत् ॥ ३५॥ अह्नोरात्र्या च याञ्जन्तून्हिनस्त्यज्ञानतो यतिः ॥ तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत् ॥ ३६ ॥ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः ॥ व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ ३७ ॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ॥ तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ ३८ ॥ प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ॥ प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ३९ ॥ उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः ॥ ज्ञानयोगेन सम्पश्येद्गतिमस्यान्तरा
द्वि० खं० अ० १३२ वि० ध० ॥२७६॥
अहिंसयेन्द्रियासङ्गैर्वैदिकैश्च कर्मभिः ॥ तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम् ॥ ४२ ॥ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ॥ चर्माव- नद्धं दुर्गन्धि पात्रं मूत्रपुरीषयोः ॥ ४३ ॥ जराशोकसमाविष्टं रोगायतनमातुरम् ॥ रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥ ४४ ॥ नदीकूले यथा वृक्षो वृक्षे वा शकुनिर्यथा ॥ तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते ॥ ४५ ॥ प्रियेषु स्वेषु सुकृतं चाप्रियेषु च दुष्कृतम् ॥ विसृज्याध्यात्म- योगेन ब्रह्माभ्येति सनातनम् ॥४६॥ यदा भावेन भवति सर्वभावेषु निःस्पृहः ॥ तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम्॥४७॥ अनेन विधिना सर्वान्कामांस्त्यक्त्वा शनैःशनैः ॥ सर्वद्वन्द्वैर्विनिर्मुक्तो ब्रह्मण्येवावतिष्ठति ॥ ४८ ॥ ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम् ॥ न ह्यध्यात्म- कविः कश्चित्क्रियाफलमुपाश्नुते ॥ ४९॥ अधियज्ञं ब्रह्म जपेत्साधिवैदिकमेव च ॥ आध्यात्मिकं च सततं वेदान्ताभिहितं फलम् ॥ ५० ॥ इदं शरणमज्ञानामिदं देवं विजानताम् ॥ इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥ ५१ ॥ अनेन क्रमयोगेन परिव्रजति यो द्विजः ॥ स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥ ५२ ॥ एष धर्मोऽनुशिष्टस्ते यतीनां नियतात्मनाम् ॥ एवं संन्यासकानान्तु कर्मयोगं निबोध मे ॥ ५३ ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥ एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥ ५४ ॥ सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः ॥ यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ ५५ ॥ सर्वेषामेव चैतेषां वेदश्रुतिविधानतः ॥ गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्बिभर्ति हि ॥ ५६ ॥ यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ॥ तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्॥५७॥ चतुर्भिरपि यतव्यं नित्यमाश्रमिभिर्द्विजैः ॥ दशलक्षणिको धर्मः सेवितव्यः प्रयत्नतः ॥५८॥ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ॥ धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्॥५९॥ दश चिह्नानि धर्मस्य ये विप्राः समधीयते ॥ अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ६० ॥ दशलाक्षणिकं धर्ममनुतिष्ठन्समाहितः ॥ वेदान्तं विधिवच्छ्रुत्वा मुच्यतेऽनृणो द्विजः ॥६१॥ संन्यस्य सर्वकर्माणि सर्वान्दोषानपानुदेत् ॥ नियमो धर्ममभ्यस्य पुत्रैः सह सुखं वसेत् ॥६२॥ एवं संन्यस्य कर्माणि स्वकार्ये परमोऽस्पृहः ॥ संन्यासेनापहृत्यैनः प्राप्नोति परमां गतिम् ॥ एष तेऽभिहितो धर्मो द्विजातीनां चतुर्विधः ॥ ६३ ॥ स्वल्पोऽपि धर्मश्चरितो यथायं महाफलः स्यात्सततं द्विजानाम् ॥ तस्मात्प्रयत्नेन ह्ययमेव कार्यः सर्वं समुत्सृज्य महानुभावः ॥ ६४ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने चतुर्थाश्रमवर्णनकर्म द्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १३१ ॥
राम उवाच ॥ अष्टादशभ्यः शान्तेभ्यः शान्तयो याः सुरोत्तम ॥ भिद्यन्ते वा न भिद्यन्ते तन्ममाचक्ष्व पुष्कर ॥ १ ॥ पुष्कर उवाच ॥
अमृता चामया सौम्यास्तिस्रोत्याः सन्ति भार्गव ॥ एकापि विज्ञेया सर्वकर्मफलप्रदा ॥ २ ॥ सर्वोत्पातप्रशमनी मङ्गल्या सिद्धिकारिका ॥ पूर्वोक्ताः कथितेष्वेव कर्तव्या अद्भुतेषु च ॥ ३ ॥ राम उवाच ॥ शान्तीनां मे त्वमाचक्ष्व स्वरूपणि महाभुज ॥ पितामहसमो लोके सर्वज्ञोऽपि मतो मम ॥४॥ पुष्कर उवाच ॥ अमृता शर्वदैवत्या अभया ब्रह्मदैवता ॥ सौम्या च सोमदैवत्या कथिता भृगुनन्दन ॥ ५ ॥ अन्यासां देवता ज्ञानं नाम्नैव कथितं तव ॥ आथर्वणानां शान्तीनां निर्दोष गदतो मम ॥ ६ ॥ अमृता चित्रवर्णा स्यादभया तु शरिप्रभा ॥ सौम्या शुक्ला विज्ञेया नीला भवति वैष्णवी ॥ ७ ॥ बालार्कसदृशा रौद्री ब्राह्मी शंखसमप्रभा ॥ रुक्मवर्णा तथैन्द्री वायव्या हरिता भवेत् ॥ ८ ॥ शुक्ला च वारुणी ज्ञेया कौबेरी पद्मसुप्रभा ॥ भार्गवी शुक्लवर्णा स्यात्प्राजापत्या च पीतिका ॥ ९ ॥ त्वाष्ट्री शुक्ला च विज्ञेया कौमारी ताम्रसुप्रभा ॥ आग्नेय्याग्निशि वर्णा स्याच्छुक्ला मातङ्गिनी भवेत् ॥ १० ॥ प्रवालाभा च गान्धर्वी कृष्णा वै नैऋता तथा॥गोचनाभा चाङ्गिरसी याम्या कृष्णा तथा भवेत् ॥ ११ ॥ पार्थिवी च मयूराभा वर्णतः कथितास्तव ॥ अतः परं प्रवक्ष्यामि स्थानान्यासां यथाविधि ॥ १२ ॥ अमृता चामया सौम्या तिस्रस्तु भृगुनन्दन ॥ तासां सर्वत्र संस्थानं कथितन्तु पुरातनैः ॥ १३ ॥ प्राजापत्या तथामेयी याम्या वै नैऋती तथा ॥ कौवेरी पार्थिवी चेति पृथिव्यां परिकीर्तिताः ॥ १४ ॥ वायव्या चैवं कौमारी वैष्णवी रुद्रदेवता ॥ अन्तरिक्षे विनि र्दिष्टाः शान्तयो द्विजसत्तम ॥ १५ ॥ ऐन्द्री मातङ्गिनी त्वाष्ट्री दिव्या ब्राह्मी तथोन्नता ॥ वारुणी चैव गान्धारी भार्गव्याङ्गिरसी तथा ॥ १६ ॥ आद्यास्तु कथितास्तूम्यं कर्तव्याश्च विजानता ॥ यथा स्वदेशजातेषु चाद्भुतेषु यथाविधि ॥ १७ ॥ तद्देवतास्तथा मन्त्राः सर्वासां गणे उच्यते ॥ मणीनाञ्च तथा गर्भाः सर्वासां मन्त्र उच्यते ॥ १८ ॥ मणीनाञ्च तथा मन्त्रा ज्ञातव्या मन्त्रलिङ्गतः ॥ सर्वासाञ्चैव शान्तीनां होतव्याश्च गणा दश ॥ १९ ॥ शान्त्यातितीन्तनु भैषज्यं विसतीत्यं तथैव च ॥ अभया च तथा गम तथा चैवापराजिता ॥ २० ॥ आयुष्यं च स्वस्त्ययनं सर्ववर्मगणं तथा ॥ वास्तोष्पत्यं तथा रौद्रं गणाः प्रोक्तास्तथा दश ॥ २१ ॥ होमस्त्वेषां मन्तव्यः सर्वाशान्तिषु भार्गव ॥ पृथक्प्रवचनातः पूर्वाः प्रकीर्तिताः॥२२॥ गणेगणे तु गां दद्याद्द्वां गमे गां तथा मणौ ॥ अजाजा भूमिपालस्तु दद्याद्दश दशैव तु ॥२३॥ निस्कामः सद्भुवं चैव तथा दद्यात्पुरोधसे ॥ अभयाया मणिः कार्यों वारुणस्य भृगूत्तम ॥२४॥ शतकाण्डोऽमृतायाश्च सौम्यायाः शङ्खजो मणिः॥ वैष्णव्यास्त्रिवृतः प्रोक्तः स्नातो रौद्र्यास्तथा मणिः ॥ २५ ॥ ब्रह्मरक्षस्तथा ब्राह्मया मैत्र्याः स्यात्कनको मणिः ॥ वायव्याश्चाङ्गिरः प्रोक्तो वायव्यः
४७
वि० ध० ॥२७७॥
द्वि० खं० अ० १३२
शङ्खजो भवेत् ॥ २६ ॥ औदुम्बरश्च कौबेर्यां भार्गव्यायाः शतावरीम् ॥ प्राजापत्या बिल्वमणिरुत्त्वाग्र्याः संस्तुतो मणिः ॥ २७ ॥ दाक्षाय- णश्च कौमार्यां आग्नेय्याञ्च तथैव तु ॥ मातङ्गिन्त्या जिनितजं गान्धर्व्यां अजशृङ्गकम् ॥ २८ ॥ नैर्ऋत्यामामयसं चैव आङ्गिरस्यान्तथाञ्जनम् ॥ शतकाण्डश्च याम्यायाः पार्थिव्या अपि पार्थिवम् ॥ २९ ॥ अद्भुतस्य बलं ज्ञात्वा कृच्छ्रं कुर्यात्तु रोहितः ॥ प्रागेव कुर्याच्छमनमादावेवाद्भु- तस्य तु ॥ ३० ॥ कृतकृच्छ्रस्तु कुर्वीत ततः शान्तिमुपोषितः ॥ अरण्यां पातयेद्वह्निं सर्वोषधितासु शान्तिषु ॥ ३१ ॥ ध्रुवेण उपवासिदिनस्यान्ते वह्निमुत्पाद्य यत्नतः ॥ उल्लूखलं विभजेत्कन्याद् सौम्यमेव च ॥ ३२ ॥ कृत्वा कपाले ऋष्याईं ध्रुवेण नैर्ऋतीं दिशम् ॥ शान्त्यागारे स्थापयेच्च शान्त्यर्थं सौम्यमेव वा ॥ ३३ ॥ कृष्णोषणीषः कृष्णवासाः कृष्णमाल्यानुलेपनः ॥ पुरोहितः प्रदेशं तु गत्वा वै नैर्ऋतों यजेत् ॥ ३४ ॥ मृन्मयं जीर्णशीर्षं तु गन्धमाल्यानुसम्पदा ॥ कृष्णवत्सैस्तु संछाद्य ततस्त्वपहरंङ्गलैम् ॥ ३५ ॥ वाद्यघोषेण महता तथा कोलाहलैः शुभैः ॥ ततोऽग्नौ जुहुयात्सम्पङ््मद्भिःप्रभृति वै द्विज ॥ ३६ ॥ ये पिशाचाश्चतुर्भक्तं दर्पिकां शर्करीं ततः ॥ केवले जुहुयाद्धोता कराञ्जुत्तया अवामया ॥ ३७॥ फलीकरणमग्नौ च हुत्वा मुक्त्वा च पावकम् ॥ अश्वत्थस्वस्थं यायात्तन्मात्स्नात्वा श्वेताम्बरस्ततः ॥ ॥ ३८ ॥ अहोमुखं शान्तिकं च जप्त्वा तिष्ठेत्त्वरान्वितः ॥ रात्रौ त्रिभागशेषाय शान्तिकर्म समापयेत् ॥ ३९ ॥ शान्तिकल्पाविधानाज्ञः सदस्यैः सहितस्ततः ॥ एकः कर्मणि युक्तः स्यादेको मन्त्रस्य निश्चये ॥४०॥ एष शान्तिविधिः प्रोक्तः समासात्सर्वशान्तिषु ॥ विस्तरे विस्तरः प्रोक्तः शान्तिकर्म हयर्षभः ॥४१॥अनेन पूज्योऽथ पुरोहितः स्यात्तथोपदेष्टा गुरुरप्रमत्तः ॥ सर्वोत्सरो वस्तु ततः सदस्याः पूज्यास्ततो विप्रवराश्च सर्वे॥४२॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० राम प्रति पुष्करोपाख्याने शान्तिकर्मवर्णनोनाम द्वात्रिंशादुत्तरशतमोऽध्यायः ॥ १३२ ॥ ॥ राम उवाच ॥ काका शान्तिर्भवेत्का वा कस्मिन्कस्मिंस्तथाद्भुते ॥ एतन्मे संशयं छिन्धि द्विजवरिवलसूदन ॥ १ ॥ पुष्कर उवाच ॥ सर्वात्पातमश- मनी हृद्युता चामया स्मृता ॥ सौम्या चैव महाशान्तिः सर्वकर्मफलप्रदा ॥ २ ॥ विशेषण० तु भौमेषु शान्तिः कार्याभ्रता भवेत् ॥ अभया चान्तरे- क्षेषु सौम्या दिव्येषु भार्गव ॥ ३ ॥ विजिगीषुः पराज्ञाज्ञा भूमिकामश्च योजयेत् ॥ आरोग्यचनकामश्च सौम्यां तां कार्यत्सदा ॥ ४ ॥ विजि- गीषुः परानेवमभियुक्तस्तथा परैः ॥ तथाभिचाराशङ्कायां शत्रूणामपि शासने ॥ ५॥ भये महति च प्राप्ते तमथा शान्तिरिष्यते ॥ राज्यक्षामि- भूतस्य क्षतक्षीणस्य चाप्यथ ॥ ६॥ सौम्या प्रशस्यते शान्तिर्यक्षकामस्य चैव हि ॥ भूमिकम्पे समुत्पन्ने प्राप्ते चान्नेक्षय तथा ॥ ७॥ आति-
॥२७७॥
वृष्ट्यामानादृष्ट्यां शल्याग्निभयेषु च ॥ प्रपन्नेषु च चौरेषु वैष्णवीशान्तिरिष्यते ॥ ८ ॥ पशूनां मरणे प्राप्ते नराणामपि दारुणे ॥ भूतेषु दृश्य मानेषु रौद्री शान्तिस्तथेष्यते ॥ ९ ॥ भविष्यत्यभिषेके च परचक्रमभयेषु च ॥ स्वराष्ट्रभेदैडरिोधे शान्तिर्नैन्द्री प्रशाम्यते ॥ १० ॥ व्यहातिरेके पवने रूक्षे सर्वदिगुत्थिते ॥ वैकृते वातजे व्याधौ वायवी शान्तिरिष्यते ॥ ११ ॥ अनावृष्टिभये जाते जाते विकृतवर्षणे ॥ जलाशयाविकारे च वारुणी शान्तिरिष्यते ॥ १२ ॥ अभिशापभये प्राप्ते भार्गवी च तथा द्विज ॥ जाते प्रसववैकृत्य प्राजापत्या महाभुज ॥ १३ ॥ उपस्कराणां वैकृत्ये त्वाष्ट्री भार्गवनन्दन ॥ बालानां शान्तिकामस्य कौमारी च तथा शुभा ॥ १४ ॥ आग्नेयी कार्येच्छान्ति सम्प्राप्ते बह्निवैकृते ॥ कार्या मारूष्णी शान्तिर्दुर्बलेन महीक्षिता ॥ १५ ॥ आज्ञाभंगे तथा जाते भूतव्याधिसंशये ॥ अश्वानां शान्तिकामस्य तद्विकारे तथोत्थिते ॥ १६ ॥ गजान्कामयमानस्य गान्धर्वी शान्तिरिष्यते ॥ गजानां शांतिकामस्य तद्विकारे तथोत्थिते ॥ १७ ॥ गजान्कामयमानस्य शान्तिरार्द्धजिरसी भवेत् ॥ पिशाचादिभये जाते शान्तिर्वै नैऋती मता ॥ १८ ॥ अपमृत्युभये जाते दुःस्वप्ने च तथा द्विज ॥ कार्या तु कार्येच्छान्तिं प्राप्ते तु मरके तथा ॥ १९ ॥ धननाशे समुत्पन्ने कौबेरी शांतिरिष्यते ॥ वृक्षाणां च तथाऽर्तानां वैकृते समुपास्थिते ॥ २० ॥ भूमिकम्पस्तथा शांतिं पार्थिवी संप्रयोजयेत् ॥ प्रथमे दिनयामे च रात्रौ च मनुजोत्तम ॥ २१ ॥ हस्ते स्वातौ च चित्रायामादित्ये चाम्विने तथा ॥ अर्यम्णे सौम्यजातेषु वायव्या त्विङ्गुतेषु च ॥ २२ ॥ द्वितीये दिनयामे च रात्रौ च भृगुनन्दन ॥ पुष्याग्नेयविशाखासु पित्र्यासु भरणीषु च ॥ २३ ॥ उत्पातेषु तथा भाग्ये त्वाग्नेयी शान्तिरिष्यते ॥ तृतीयेऽहिनयामे च रात्रौ च भृगुनन्दन ॥ २४ ॥ रोहिण्यां वैष्णवे ब्राह्मे वासवे विश्वदैवते ॥ ज्येष्ठायां च तथा मैत्रे ये भवन्त्युत्पाताः क्वचित् ॥ २५ ॥ ऐन्द्री तेषु प्रयोक्तव्या शान्तिर्भृगुकुलोद्भव ॥ चतुर्थे दिनयामे वा रात्रौ च भृगुनन्दन ॥ २६ ॥ सार्पे पौष्णे तथार्द्रायां त्वाहिवुध्न्ये च दारुणे ॥ मूले वारुणदैवत्ये ये भवन्त्युत्पातास्तथा ॥ २७ ॥ वारुणी तेषु कर्तव्या महाशान्तिर्मिहीक्षिता ॥ भिन्नमण्डलवेलासु ये भवन्त्युत्पाताः क्वचित् ॥ २८ ॥ तेषु शांतिद्वयं कार्यं निमित्ते सति नान्यथा ॥ निर्निमित्ता कृता शांति र्निमित्तायोपजायते ॥ २९ ॥ बाणप्रहारा न भवंति यद्धन्तॄणां रणे सब्रह्मनेर्तॄणानाम ॥ दैवोपाघाता न भवंति तद्बर्द्धमात्मनां शांतिपगयणानाम् ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अद्भुतेषु शान्तिकर्मवर्णनो नाम त्रयस्त्रिंशदुत्तराशततमोऽध्यायः ॥ १३३॥ राम उवाच ॥ अद्भुतानां फलं देव शमनं च तथा वद ॥ त्वं हि वेत्सि विशालाक्ष ज्ञेयं सर्वमशेषतः ॥ १॥ पुष्कर उवाच ॥ अत्र ते वर्णयिष्यामि यदु-
वि० ध० ॥२७८॥
वाच महातपाः॥ अत्र यो वृद्धर्गर्गस्तु सर्वधर्मभृतां वरः॥२॥सरस्वत्यां सुखासीनं गर्गं स्रोतासि भार्गव ॥ पप्रच्छाङ्गिरसांमहातेजा गर्गं मुनिजनप्रियम्॥३॥ अग्निरुवाच ॥ नश्यतां पूर्वरूपाणि जनानां कथयस्व मे ॥ नगराणां तथा राज्ञां त्वं हि सर्वविदुच्यसे ॥४॥ गर्ग उवाच॥ पुरुषापचारान्नियतमप- ज्यन्ति देवताः ॥ ततोपरागद्देवानामुपसर्गः प्रवर्तते ॥ ५ ॥ दिव्यान्तरिक्षभौमं तत्रिविधं परिकीर्तितम् ॥ गृह्णतं वक्तुं दिव्यमन्तरिक्षं निबोध मे ॥ ६ ॥ उल्कापातो दिशां दाहः परिवेषस्तथैव च ॥ गन्धर्वनगरं चैव वृष्टिस्तु विकृता च या ॥ ७ ॥ एवमादीनि लोकेस्मिन्नभांसानि विनि र्दिशेत् ॥ चरस्थिरमयं भूमौ भूकम्पोपि भूमिजम् ॥ ८ ॥ जलाशयानां वैकृत्यं भूमौ तदपि कीर्तितम् ॥ भौमं याम्यफलं ज्ञेयं चिरेण भुवि पच्यते ॥ ९ ॥ नाभसं मध्यफलदं मध्यकालफलप्रदम् ॥ दिव्यं तीव्रफलं ज्ञेयं शीघ्रकारि तथैव च ॥ १० ॥ अद्भुते तु समुत्पन्ने यदि वृष्टिः शिवा भवेत् ॥ सप्ताहाभ्यन्तरे ज्ञेयमद्भुतं निष्फलं हि तत् ॥ ११ ॥ अद्भुतस्य विपाकश्चेद्दिना शान्तेर्न दृश्यते ॥ त्रिभिर्वर्षैस्तथा ज्ञेयं सुमहद्भयकार- कम् ॥ १२ ॥ राज्ञः शरीरे लोके च पुरदारे पुरोहिते ॥ पाकमायाति पुत्रेषु तथा वै कोशवाहने ॥ १३ ॥ दन्तस्वभावजा ये च भवन्त्यद्भुतसं ज्ञकाः ॥ शुभावहास्ते विज्ञेयास्तांश्च मे गदतः शृणु ॥ १४ ॥ वज्राशनिमहाकम्पसन्ध्यानिर्गतनिःस्वनाः ॥ परिवेषं रजो धूमं रक्तांर्कोस्तमनो दये ॥ १५ ॥ दुर्मेघो वरयक्षैश्च बहुपुष्पफलापगाः ॥ गोपक्ष्मधुवृद्धिश्च शुभानि मधुमाधवे ॥ १६ ॥ तारोल्काघातकलुषं कपिलाकं तु मण्ड लम् ॥ अनग्निज्वलनास्फोट्धूमरेष्वनिलावहम् ॥ १७ ॥ रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम् ॥ सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ १८ ॥ शक्रायुधं परिवेषं विद्युत्स्फुरणरोहणम् ॥ कम्पोद्दलैर्नवैर्वृत्यं त्रसनं दारुणं क्षितेः ॥ १९ ॥ नद्योदपानसरसां वृद्धिश्चभ्रतरुण पुष्वाः ॥ शीर्णता चाहि गेहानां वर्षासु च भविष्यति॥२०॥ दिव्यस्त्रीभूतमगन्धर्वनिमानानादृढस्तनम् ॥ ग्रहनक्षत्रा रणां दर्शनं च दिवाकरे॥२१॥ गीतवादित्रनिर्घोषो वनपर्वतसानुषु ॥ रसवृद्धिस्सौत्पत्तिः शरत्काले शुभाः स्मृताः ॥ २२ ॥ शीतोलुङ्गुलोत्पातत्वं नन्दनं गृहपक्षिणाम् ॥ रक्षौय क्षादिसत्त्वानां दर्शनं वागमानुषी ॥२३॥ दिशो धूमान्धकाराश्च शरभोचनपर्वताः ॥ उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥२४॥ हिमपा तानिलेत्पातो विष्पादुतदर्शनम् ॥ कृष्णाञ्जनाभमाकाशं तारेल्कापातपिञ्जरम्॥२५॥ चित्रगभोद्भवं स्त्रीषु गोजाश्वमृगपक्षिषु ॥ पत्राङ्कूललतानां च विकाराः शिशिरे शुभाः॥२६॥ऋतुस्वभावेन विनाद्भुतस्य जातस्य तु शीघ्रमेवा कृत्वा शमं शान्तिरनन्तरं तु कार्या यथोक्ता वसुधाधिपे न॥२७॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने नानाविधोत्पातकथनो नाम चतुरधिकशततमोऽध्यायः॥१३४॥
द्वि० सं० अ० १३४ ॥२७८॥
गर्ग उवाच ॥ देवतार्चाः नृत्यन्ति वेपन्ते प्रज्वलन्ति च ॥ आरटन्ति च रोदन्ति प्रस्विद्यन्ति हसन्ति च ॥१॥ उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति वसन्ति च ॥ भुञ्जते विक्षिपन्ते वा गात्रप्रभरणाध्वजान् ॥२॥ अवाङ्मुखावातिष्ठन्ति स्थानात्स्थानं भ्रमन्ति च ॥ वमन्त्यग्निं तथा धूमं स्नेहंरक्तं तथा वसाम्॥३॥एवमादीनि दृश्यन्ते विकारा सहसोत्थिताः॥लिङ्गायतनचित्रेषु तत्र वासं न रोचयेत्॥४॥राज्ञो वा व्यसनं तत्र सवादेशो विनश्यति॥ देवयात्रां सचित्पातां दृष्ट्वा देशभयं वदेत् ॥ ५ ॥ पितामहर्षिगंधर्वेषु यात्रिमिंतं द्विजेषु तत् ॥ गुरुशुक्रमिश्रजातानि यानि तानि पुरोहिते ॥६॥ पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम्॥ ज्ञेयं सेनापतीनां तु यत्स्यात्स्कन्दविनायकम् ॥७॥ लोकानां विष्णुवाश्विन्द्रविश्वेर्कसमुद्भवम् ॥ विनायको द्भवं ज्ञेयं गणानां ये तु नायकाः ॥ ८ ॥ देवप्रेष्यनृपप्रेष्यदेवेषु स्त्रीषु नृपस्त्रियः ॥ वास्तुदेवेषु विज्ञेयं गृहिणामेव नान्यथा ॥ ९ ॥ देवताचांर्विकारेषु श्रुतित्वेता पुरोहितः ॥ देवताचंां - ततो गत्वा स्नातामाच्छाद्य भूपयेत् ॥ १० ॥ पूजयेच्च महाभाग गन्धमाल्यान्नसम्पदा ॥ मधुपर्केण विधि वदुपहितैश्चदन्तरम् ॥ ११ ॥ तल्लिङ्गेन च मन्त्रेण स्थालीपाकं यथाविधि ॥ पुरोधा जुहुयाद्धोमौ सप्तरात्रमतन्द्रितः ॥ १२ ॥ विप्रांश्च पूज्या मधुरा न्नपानैः सदक्षिणैः सप्तदिनं द्विजेन्द्रा।प्राप्तेऽष्टमेऽह्नि क्षितिगोप्रदानैः सकाश्रनैः शांतिमुपैति पापम् ॥ १३॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने अर्चाविकारोपशमनवर्णनो नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः॥ १२६॥गर्ग उवाच॥ अनिर्माद्दीप्यते यत्र राष्ट्रे भृशसमन्वितः ॥ न दीव्यते चेन्धनं वा सराशूः पीड्यते नृपः ॥१॥प्रज्वलदाम्बुनाशं च तथार्द्रं वाति किञ्चन ॥ प्रसादस्तोरणं द्वारं नृपे श्म सुरालयम् ॥२॥ एतानि यत्र दह्यन्ते तत्र राजभयं भवेत् ॥ विद्युता वा प्रदृश्यन्ते तथापि नृपतेर्भयम् ॥३॥ अनैशानि तमांसि स्युर्दिश आबुर जांसि च ॥ धूमस्वानग्निजो यत्र तत्र विद्यान्महद्भयम् ॥ ४ रात्रावनभ्रे गगने भयं स्यादृक्षवर्जिते ॥ दिवा सतारे गगने तथैव भयमादिशेत् ॥ ५॥ ग्रहनक्षत्रवेकृत्ये ताराविकृतदर्शने ॥ प्रवाहानायनानेषु चतुष्पान्मृगपक्षिषु ॥ ६ ॥ आयुषेषु च दीप्तेषु ब्रूमाप्यत्सु तथैव च ॥ निर्यत्सु कोशेश्च तथा संग्रामस्तुलभो भवेत् ॥ ७ ॥ विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कर्हिचित् ॥ स्वभावाच्चापि पूर्वन्ते धूर्त्तपि विकृतानि च ॥ ८ ॥ विकाराश्चायुधानां स्युस्तत्र संग्राममादिशेत् ॥ त्रिरात्रोपोषितस्तत्र पुरोधाः सुसमाहितः ॥ ९ ॥ समिद्भिः क्षीरवृक्षाणां सर्पिषैश्च घृतेन च ॥ अग्मिल्लिङ्गेभ्य जुहुयाद्वह्निं श्वेताम्बरः शुचिः ॥ १० ॥ दद्यात्सुवर्णं च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवं च ॥ एवं कृते पापमुपैति नाशं यद्गद्वितैरुक्तमभवं द्विजेन्द्र ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने
वि० ध० ॥२७१॥ द्वि० सं० अ० १३८ ॥२७१॥
औत्पातिकामिधानेनो नाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३६ ॥ गर्ग उवाच ॥ पुरेषु येषु दृश्यन्ते पादपा देवचोदिताः ॥
रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून्सरान् ॥ १ ॥ पुरोगवा विना वातं शाखां मुञ्चन्त्यसंभ्रमात् ॥ फलपुष्पं तथा बाला
दर्शयन्ति विहायसाः ॥ २ ॥ सर्वावस्थां दर्शयन्ति फलपुष्पमथाभवम् ॥ क्षीरं स्नेहं सुरां रक्तं मधु तोयं स्रवन्ति च ॥ ३ ॥
शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वा पुनः ॥ उत्तिष्ठन्ति पतिताः पतन्ति च तथोत्थिताः ॥४॥ तत्र वक्ष्यामि ते ब्रह्मन्नापाके फलमेव च ॥
रोदने व्याधिमाख्याति हसने देशविप्लवम् ॥ ५॥ शाखाप्रपतने कुर्यात्संग्रामे योधपातनम् ॥ बालानां मरणे कुर्याद्बालानां फलपुष्पता ॥ ६ ॥
स्वराष्ट्रमृदं कुरुते फलपुष्पसनाततम् ॥ क्षयं सर्वत्रगे क्षीरे स्नेहे दुर्भिक्षलक्षणम् ॥ ७॥ वाहनापचयं मध्ये रक्ते संग्राममादिशेत् ॥ मधुस्रावे भवे
द्व्याधिर्जलस्रावेण वर्षति ॥ ८ ॥ अरोगशोषणाज्ज्ञेयं ब्रह्मन् दुर्भिक्षलक्षणम् ॥ शुष्केषु समरोहत्सु वीर्यमन्नं च हीयते ॥ ९ ॥ उत्थाने पतितानां च
भयं भेदकरं भवेत् ॥ स्थानात्स्थानान्तरंगणां देशभङ्गं तथादिशेत् ॥ १०॥ जलस्थापि च वृक्षेषु रुदत्स्वपि धनक्षयम् ॥ एतद्ब्रोर्जितवृक्षेषु सर्वं राज्ञो
विपच्यते ॥११॥पुष्पे फले वा विकृते राज्ञो मृत्युं तदादिशेत् ॥ अन्येषु चैव वृक्षेषु वृक्षः स्यात्केवलोद्भवतः ॥१२॥ आच्छादयित्वा तं वृक्षं गन्धमाल्यै
र्विभूषयेत् ॥ वृक्षोपरि तथा छत्रं कुर्यात्तापप्रशान्तये ॥ १३ ॥ शिवमभ्यर्चयेद्देवं पशुं चास्मै निवेदयेत् ॥ मूलस्ये इति पम्पापान्हुत्वा रुद्रं जपे
त्तथा ॥ १४ ॥ मध्वाज्ययुक्तेन तु पायसेन संपूज्य विप्रान्ध्रुवं च दद्यात् ॥ गीतेन नृत्येन तथाचेयते देवं भवं पापविनाशहेतोः ॥ १५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामे प्रति पुष्करोपाख्याने औत्पातिके वृक्षवैकृतवर्णनो नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ॥ १३७॥
॥ गर्ग उवाच ॥ अतिवृष्टिस्त्वनावृष्टिर्दुर्भिक्षायोभयं मतम् ॥ अनृते मदिने रिक्ता वृष्टिर्ज्ञेया भयावहा ॥ १ ॥ अनभ्रे विकृता चैव विज्ञेया
राजमृत्युदे ॥ शीतोष्णताविपर्यासे जन्तूनां रिपुजं भयम् ॥ २ ॥ शोणिते वर्षते यत्र तत्र शस्त्रभयं भवेत् ॥ अङ्गारपांशुवर्षेण नगरं
तद्विनश्यति ॥ ३ ॥ मज्जास्थिस्नेहमांसानां जनमारभयं भवेत् ॥ फलपुष्पे तथा धान्ये हिरण्यादि भयाय तु ॥ ४ ॥ पांसुजन्तुपलानां तु वर्षेण
रोगजं भयम् ॥ छिद्राणां तु प्रवर्षे च सस्यानामभिवर्धनम् ॥ ५॥ विरजस्के रवौ व्योम्ने यदा छाया न दृश्यते ॥ दृश्यते तु प्रतीपा वा तत्र देश
भयं भवेत् ॥ ६ ॥ निर्भ्रे चाथ रात्रौ वा श्वेतं चाम्यतोन्नरेण तु ॥ इन्द्रायुधं तदा दृष्ट्वा उल्कापातांस्तथैव च ॥ ७ ॥ दिग्दाहाहारिवैर्पा वा गन्धर्वनगरं
तथा ॥ परचक्रमयं ब्रूयाद्देशोपद्रवमेव वा ॥ ८ ॥ सूर्येन्दु पर्जन्यसमीरणानां यागस्तु कार्यो विधिवद्विजेन्द्र ॥ धान्यान्नगोकाञ्चनदक्षिणाश्च देया ॥२७१॥
द्विजानां भयनाशनैः ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने औत्पातिकेषु वृष्टिविकृत्यवर्णनो नामाष्टत्रिंशदुत्तरशततमोऽध्यायः ॥ १३८ ॥ गर्ग उवाच ॥ नगरादुपसर्पन्ति समीपमुपयन्ति वा ॥ अशोष्या अपि शुष्यन्ति समीपं प्रवहन्ति वा ॥ १ ॥ नद्यो हृदस्रवणा विसराश्च भवन्ति चेत् ॥ विवर्णं कलुषं तप्तं फेनवज्रं तु संकुलम् ॥ २ ॥ क्षीरं स्नेहं सुरां रक्तं वहन्ते वा कूलोदकाः ॥ पण्णासामन्यतरं तत्र परचक्रभयं भवेत् ॥ ३ ॥ जलाशया नदन्ते वा प्रजल्पन्ति क्षरन्ति वा ॥ विशुष्येत्तेऽथ वा भङ्गोऽल्पाम्बुरजांसि च ॥ ४ ॥ अखाते वा जलोत्पत्तिः ससत्त्वा वा जलाशयाः ॥ संगीतशब्दा दृश्यन्ते जनमारमयं वदेत् ॥ ५ ॥ जलाशयानां वैकृत्ये संयतस्तु जलाशये ॥ स्थालीपाकेन पशुना वरुणं पूजयेद्द्विज ॥ ६ ॥ दिव्यमन्त्रैः पयः सर्पिर्मधु चात्रावसेचनम् ॥ जातव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत् ॥ ७ ॥ मध्वाज्ययुक्तं परमान्नमत्र देयं द्विजानां द्विज भोजनायै ॥ गावश्च देया द्विज वस्त्रयुक्तास्तथोदकुम्भाः सकलाशान्त्यै ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने जलवैकृत्यवर्णनो नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १३९ ॥ ॥ छ ॥ गर्ग उवाच ॥ ॥ कालप्रसवना नार्यः कालातीताः प्रजास्तथा ॥ विकृतप्रसवाश्चैव युग्मप्रसविकास्तथा ॥ १ ॥ अमानुषा अषण्डाश्च सञ्जातव्यसनात्तथा ॥ हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ॥ ॥ २ ॥ पशवः पक्षिणश्चैव तथा चैव सरीसृपाः ॥ विनाशं तस्य देशस्य कुलस्यापि विनिर्दिशेत् ॥ ३ ॥ विवासयेत्तान्नृपतिः स्वराष्ट्रात्श्रियं च पूज्याश्च ततो द्विजेन्द्राः ॥ किमिच्छकैर्ब्राह्मणतर्पणं च कार्यं ततः शान्तिरुपेति पापम् ॥ ४ ॥ इतिश्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने स्त्रीप्रसववैकृत्यवर्णनो नाम चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४० ॥ गर्ग उवाच ॥ वडवा हस्तिनी गोर्वा यदि युग्मं प्रसूयते ॥ विजातं विकृतं वापि षड्भिर्मासैर्विशेद्गृहेत् वै ॥ १ ॥ वियोनिषु च गच्छन्तो मैथुनं देशनाशनाः ॥ अन्यत्र वेसरोत्पत्तेर्नृणां वाजातिमैथुनम् ॥ २ ॥ सर्पमूषकमाजरोमत्स्यश्वानो विवर्जिताः ॥ ज्ञेया दुर्भिक्षकर्तारः स्वजातिपिशिताशिनः ॥ ३ ॥ अकालजं महं घोरं चतुष्पान्पक्षिणांणम् ॥ अन्यजातिवदेत्श्वै धन्यं श्वानं विशेपतः ॥ ४ ॥ अमानुषा मानुषवज्जल्पन्ति प्राणिनो यदि ॥ विकृता वा प्रसूयन्ति परचक्रागमं वदेत् ॥ ५ ॥ त्यागो विवासनं दानं तेषां कार्यं विजानता ॥ तर्पयेद्ब्राह्मणांश्चात्र जपेन्मांह्वं कारयेत ॥ ६ ॥ मृदंगवाद्यैः पटहैः संगीतैः पूजा च कार्या त्रिदिवौकसां वै ॥ धातूस्तथेज्या विधिना च कार्या देयं तथान्नं बहुशो द्विजेभ्यः ॥ ७ ॥ इति
| वि० ध० | द्वि० खं० | |
|---|---|---|
| ॥२८०॥ | अ० १४२ |
श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने वैकृतोपशमनवर्णनो नामैकचत्वारिंशदुत्तरशततमोऽ-
ध्यायः ॥ १४१ ॥ गर्ग उवाच ॥ यानि यानान्युक्तानि युक्तानि न हि यान्ति चेत् ॥ चोद्यमानानि तस्य स्यान्महद्दुःखमु-
पस्थितम् ॥ १॥ वाह्यमाना न वाह्यन्ते वाह्यन्ते चायनाहताः ॥ अचलाश्च चलन्त्येव न चलन्ति चलास्तथा ॥ २ ॥ आकाशात्तूयनादाश्च गीतम-
न्वर्धितस्वनाः ॥ काष्ठं दार्वाविकारादि कुठारं कुरुते यदि ॥ ३ ॥ गवां लांगूलसंश्लेषित्रयं तु यदि पातयेत् ॥ उपरागं दिधुक्षूक्ता घोरं शस्त्रभयं
वदेत् ॥ ४॥ वायोस्तु पूजा द्विज सद्भिरिष्टिं कृत्वा तदुक्तोऽस्त जपेच्च मन्त्रान् ॥ दद्यात्प्रसूतं परमात्मनेभ्रं प्रदक्षिणानेन शमोऽस्य भूयात् ॥५॥ इति
श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० वज्रसंवादे रामं प्रति पुष्करोपाख्याने उपस्करवैकृतवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४२ ॥
गर्ग उवाच ॥ प्रविशन्ति यदा ग्राममरण्यं मृगपक्षिणः ॥ अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलेद्भवाः ॥ १ ॥ जलं वा स्थलजा यान्ति
घोरं वाशन्ति निर्भयाः ॥ राजद्वारे पुरद्वारे शिवाश्चाप्याशिवप्रदाः ॥ २ ॥ दिवा रात्रिश्चरा वापि रात्रौ वापि दिवाचराः ॥ ग्राम्यास्त्यजन्ति ग्रामं
वा शून्यतं तस्य निर्दिशेत् ॥ ३ ॥ दीप्ता वाशन्ति सन्ध्यासु मण्डलानि च कुर्वते ॥ वाशन्ते विस्वरं यत्र तदापत्यत्फलं वदेत् ॥ ४ ॥ प्रदोषे
कुक्कुटो वाशेद्दस्र्मते वापि कोकिलः ॥ अकोदयोऽर्कमभिमुखः श्वा वा नृपभयं भवेत् ॥ ५ ॥ गृहे कपोतः प्रविशेत्कव्यादो मूर्ध्नि लीयते ॥ मधु
वा मक्षिका कुर्यान्मृत्युं गृहपतेर्वदेत् ॥ ६ ॥ प्राकारद्वारगेहेषु तोरणपण्यवीथिषु ॥ केतुच्छत्राद्युधायधेषु क्रव्यात्संन्निपतेद्यदि ॥ ७ ॥ जायते वाथ
वल्मीको मधु वा दृश्यते यदि ॥ स देशो नाशमायाति राजा च म्रियतेऽथ वा ॥८॥ मूषकच्छागलमान्दष्टा प्रसूतान्क्रुद्धयं भवेत् ॥ काष्ठोल्लूकस्यैव
शृङ्गाद्याः श्वानो मर्कटैर्जैताः ॥ ९ ॥ श्मशानं निर्गता ग्रामाद्ग्रामश्रोष्ठविनाशनाः ॥ एकाण्डता तु काकानां यदि चैवाप्यनण्डता ॥ १० ॥
निर्मधु च निवेराश्च देशनाशकरः स्मृतः ॥ अपसव्यं भ्रमन्तश्च मण्डले रणवेदिनः ॥ ११ ॥ दुर्भिक्षवेदोनो ज्ञेयाः काका धान्यमुखे यदि ॥
जनानामभिभवन्तश्च निर्भया रणवेदिनः ॥ १२ ॥ काकौ मैथुनसक्तौ श्वेतश्च यदि दृश्यते ॥ राजा वा म्रियते तत्र स वा देशो विनश्यति ॥ १३ ॥
उलूको वाशते यत्र विपतेद्वा तथा गृहे ॥ ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥ १४ ॥ मृगापक्षिकांश्चैव कुर्याद्धोमान्सदक्षिणान् ॥ देवाः कपोत
इति च जप्तव्याः पक्षीभिर्द्विजः ॥ १५ ॥ गावश्च देया विविधद्विजानां सकाञ्चना वस्त्रयुगोत्तरीयाः ॥ एवं कृते शान्तिमुपैति पापं मृगोद्विजैर्वा विनिर्व
दितं यत् ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामंप्रति पुष्करोपाख्याने औत्पातिके मृगपक्षिवैकृतवर्णनो नाम त्रिचत्वारिंशदु-
॥२८०॥