विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 599, कुल 1001 में से
संदर्भ में पढ़ेंआत्मनैव सहायेन चरेद्धर्ममतन्द्रितः ॥ १७ ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ॥ नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ १८॥ न तापसैर्ब्राह्मणैर्वा वयोभिरथवायसैः ॥ आकीर्णं भिक्षुकैर्वाऽन्यैरागारमुपसंव्रजेत् ॥१९॥ कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ॥ विचरन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥ २०॥ अतेजसानि पात्राणि तस्य स्युर्निर्व्रणानि च ॥ तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ २१ ॥ अलाबुं दारुपात्रञ्च मृन्मयं वैदलं तथा ॥ एतानि यतिपात्राणि विज्ञेयानि मनीषिभिः ॥ २२ ॥ सौवर्णमणिपात्रेषु कांस्यरौप्यायसेषु च ॥ भिक्षां दद्यान्न धर्मज्ञ गृहीत्वा नरकं व्रजेत् ॥ २३ ॥ एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरे ॥ भैक्ष्ये प्रसक्तस्य मतिर्विषयेष्वपि सज्जते ॥ २४॥ विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ॥ वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ २५ ॥ अलाभी न विषादी स्याल्लाभे चापि न हर्षयेत् ॥ प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ अभिपूजितलाभांस्तु यतिर्मुक्तोऽपि बध्यते ॥ २६ ॥ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ॥ ह्रियमाणानि विषयेन्द्रियाणि निवर्तयेत् ॥ २७ ॥ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ॥ अहिंसया च भूतानाममृतत्वाय कल्पते ॥ २८ ॥ अवेक्षेत गतिं नृणां कर्मदोषसमुद्भवाम् ॥ निरये चैव पतनं यातनाश्चैव याम्यिकाः ॥ २९ ॥ देहादुत्क्रमणं चास्मात्पुनर्गर्भे च सम्भवम् ॥ योनिकोटिसहस्रेषु मृतौ चास्यान्तरात्मनः [^1] ॥ ३० ॥ अधर्मप्रभवं चैव दुःखसंयोगं शरीरिणाम् ॥ धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ ३१ ॥ सूक्ष्मतां चानुवीक्षेत योगेन परमात्मनः ॥ देहेषु चैव पतितानुत्तमेष्वधमेषु च ॥ ३२॥ दूषितोऽपि चरेद्धर्मं यत्र कुत्राश्रमे रतः ॥ समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ३३ ॥ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ॥ न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ३४ ॥ संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ॥ शरीरस्यात्यये वापि समीक्ष्य वसुधां चरेत् ॥ ३५॥ अह्नोरात्र्या च याञ्जन्तून्हिनस्त्यज्ञानतो यतिः ॥ तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत् ॥ ३६ ॥ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः ॥ व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ ३७ ॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ॥ तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ ३८ ॥ प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ॥ प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ३९ ॥ उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः ॥ ज्ञानयोगेन सम्पश्येद्गतिमस्यान्तरा