विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 598, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥२७६॥ द्वि० सं० अ० १३१ ॥२७५॥
उपस्पृशिंस्त्रिपवणं पितृन्देवांश्च तर्पयेत् ॥ तपश्चांश्चोग्रतरं शोषयेद्देहमात्मनः ॥ २६ ॥ अग्नीनात्मनि वैतानन्समारोप्य यथाविधि ॥
अनग्निरनिकेतश्च मुनिर्मूलफलाशनः ॥ २७ ॥ अप्रयत्नः सुखायैषु ब्रह्मचारी धराशयः ॥ शरणेषु समश्चैव वृक्षमूलनिकेतनः ॥ २८ ॥
तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥ गृहमेध्येषु चान्येषु द्विजेषु वनवासिषु ॥ २९ ॥ ग्रामादाहृत्य नाश्नीयादष्टौ ग्रासान्वने वसन् ॥
विविधाश्चौपनिषदो ह्यात्मसंसुद्धये श्रुतीः ॥ ३० ॥ ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः ॥ विद्यातपोभिवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ ३१ ॥
अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः ॥ आनिपाताच्छरीरस्य युक्तो वार्यनिलाशनम् ॥ ३२ ॥ त्यक्त्वा तनुं सम्यगथोदितस्य
विधेरेकस्य वने निवासी ॥ प्राप्नोति लोकं स पितामहस्य त्यक्ता भयं नात्र विचारमस्ति ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे
मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने वानप्रस्थाश्रमकथनन्नाम त्रिंशदुत्तरशततमोऽध्यायः ॥ १३० ॥ ॥ छ ॥
पुष्कर उवाच ॥ वनेषु च विहृत्यैवं तृतीयं भागमायुषः ॥ चतुर्थमायुषो भागं त्यक्तसङ्गः परिव्रजेत् ॥ १ ॥ आश्रमादाश्रमं गत्वा हुतहोमो जि-
तेन्द्रियः ॥ भिक्षावलपरिश्रान्तः प्रव्रजद्गतवार्जितः ॥ २ ॥ ऋणामि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ॥ अनपाकृत्य च ऋणं मोक्षमिच्छु-
र्व्रजत्यधः ॥ ३ ॥ अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः ॥ इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ ४ ॥ अनधीत्य द्विजो वेदान्
उत्पाद्य तथा सुतान् ॥ अनिष्द्वा चैव यज्ञैश्च मोक्षमिच्छन्व्रजत्यधः ॥ ५ ॥ प्राजापत्यां निरूप्येष्टिं सर्ववेदां सदक्षिणाम् ॥ आत्मन्यग्नीन्समारोप्य
प्रव्रजत्युभयं गृही ॥ ६ ॥ तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥ यस्मादणुर्वापि भूतानां द्विज नोत्पद्यते भयम् ॥ तस्य देहाद्विमुक्तस्य
भयं नास्ति कथञ्चन ॥ ७ ॥ अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः ॥ समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ८ ॥ एक एव चरे-
न्नित्यं सिद्ध्यर्थमसहायवान् ॥ सिद्धिमेकस्य तां पश्यन्न जहाति न हीयते ॥ ९ ॥ अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत् ॥ १० ॥
उपेक्षकोऽसञ्चयको मुनिर्भावसमाहितः ॥ कपालं वृक्षमूलानि कुचेलमसहायता ॥ ममता नैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥ ११ ॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ कालमेव प्रतीक्षेत निर्देशंभृतको यथा ॥ १२ ॥ (दृष्टिपूर्तं न्यसेत्पादं वस्त्रपूतं जलं पिवेत ॥ सत्य-
पूतां वदेद्वाचं मनःपूतं समाचरेत् ॥१३॥ अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ॥ १४ ॥) न चैनं गृहाश्रित्य वैरं कुर्वीत केनचित् ॥
क्रुद्ध्यन्तं न प्रतिक्रुद्ध्येदाकृष्टः कुशलं वदेत् ॥ १५ ॥ सप्तद्वारावकीर्णाञ्च न वाचमनृतां वदेत् ॥ अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ॥ १६ ॥