विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 597, कुल 1001 में से
संदर्भ में पढ़ेंधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने पुरुषसूक्तमाहात्म्यवर्णनन्नामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥ १२९ ॥ राम उवाच ॥ पुरा धर्माणि प्रोक्तानि ब्रह्मचारिगृहस्थयोः ॥ कर्माप्युक्तानि च ब्रूहि शिष्टमप्याश्रमद्वयम् ॥ १ ॥ (गृहस्थवन्माश्रित्य काम्यानि सुसत्सम ॥ कर्माणि तानि मे ब्रूहि शिष्टान्यप्याश्रमद्वये ॥ २ ॥ पुष्कर उवाच ॥ सुखं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः ॥ वने वसेत्तु नियतो यथावद्विजितेन्द्रियः ॥ ३ ॥ गृहस्थस्तु यदा पश्येद्दलीपलितमात्मनः ॥ अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ ४ ॥ संत्यज्य ग्राम्यमाहारं सर्व्वैश्व परिच्छदम् ॥ पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा ॥ ५ ॥ अग्निहोत्रं समादाय गृह्यं चाग्निं परिच्छदम् ॥ ग्रामादरण्यं निःसृत्य निवसेद्विजितेन्द्रियः ॥ ६ ॥ मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ॥ सर्वानेव महायज्ञानिर्व्वपेद्विधिवत्क्रमात् ॥ ७ ॥ वसीत चर्म चीरं वा सायं स्नायात्तृणे तथा ॥ जटाश्च विभृयान्नित्यं श्मश्रुलोमनखांस्तथा ॥ ८ ॥ यद्यच्च स्यात्ततो दद्याद्बलिं भिक्षांश्च शक्तितः ॥ समूलफलभिक्षाभिर्चय्येदाश्रमागतान् ॥ ९ ॥ स्वाध्यायनित्युक्तः स्याद्दान्तो मैत्रः समाहितः ॥ दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥ १० ॥ वैतानिकञ्च जुहुयादग्निहोत्रं यथाविधि ॥ दर्शमन्वेस्कन्दन्यवं पौर्णमासीञ्च योगतः ॥ ११ ॥ ऋक्षेष्ट्याग्रयणञ्चैव चातुर्मास्यान्यथापि चाहरेत् ॥ उत्तरायणञ्च क्रमशो दक्षिणायनमेव च ॥ १२ ॥ वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः सुसमाहृतैः ॥ पुरोडाशांश्चरुंश्चैव विधिवन्निर्वपेत्पृथक् ॥ १३ ॥ देवताभ्यस्तु तद्धुत्वा वन्यं मध्यतरं हविः ॥ शेषमात्मनि युञ्जीत लवणञ्च स्वयं कृतम्॥ १४॥ स्थलजोदकशाकानि पुष्पमूलफलानि च ॥ मध्वृक्षोद्भवन्वान्यात्स्नेहा॑श्च फलसंयुतान् ॥ १५ ॥ वर्जयेन्मधुमांसानि भौमानि कवकानि च ॥ भूस्तृणं शिग्रुकञ्चैव भडातकफलानि च ॥ १६॥ त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् ॥ जीर्णानि चैव वासांसि पुष्पमूलफलानि च ॥ १७ ॥ न फाल्कृष्टमश्नीयादुत्सृष्टमपि केनचित् ॥ न ग्रामजातमन्रञ्च पुष्पाणि च फलानि च ॥ १८ ॥ अप्प्रविष्कारणो वा स्यात्कालपक्वभुगेव वा ॥ अश्मविद्धो भवेद्वापि दन्तोलूखलिकस्तथा ॥ १९ ॥ सद्यः प्रक्षालिको वा स्यान्माससञ्चयिकोऽपि वा ॥ षण्मासनिनचयो वा स्यात्सम्प्राप्तनिचय एव वा॥२०॥ नक्तं वाऽनं समश्नीयाद्दिवा चाहृत्य शक्तितः॥ चतुर्थकालिको वा स्यात्स्याद्वा चाष्टमकालिकः ॥ २१ ॥ चान्द्रायणविधानैर्व्वा शुक्ले कृष्णे च वर्त्तयेत् ॥ पक्षान्तयोर्वाप्यश्नीयाद्यवागूं कथितां सकृत् ॥ २२ ॥ पुष्पमूलफलैर्वापि केवलैर्वर्त्तयेत्सदा ॥ कालपक्वः स्वयं शीर्णैर्वनवानपि स्थितिः ॥ २३ ॥ भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदेन्दिनम् ॥ स्थानासनाभ्यां विहरेत्सवनेषुपयन्नपः ॥ २४ ॥ ग्रीष्मे पञ्चतपास्तु स्याद्वर्षासु भावकाशकः ॥ आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ २५ ॥
१ 'स्नात्सारणमवेत्' इति पुस्तकान्तरे पाठः।