विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
आत्मनैव सहायेन चरेद्धर्ममतन्द्रितः ॥ १७ ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ॥ नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ १८॥ न तापसैर्ब्राह्मणैर्वा वयोभिरथवायसैः ॥ आकीर्णं भिक्षुकैर्वाऽन्यैरागारमुपसंव्रजेत् ॥१९॥ कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ॥ विचरन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥ २०॥ अतेजसानि पात्राणि तस्य स्युर्निर्व्रणानि च ॥ तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ २१ ॥ अलाबुं दारुपात्रञ्च मृन्मयं वैदलं तथा ॥ एतानि यतिपात्राणि विज्ञेयानि मनीषिभिः ॥ २२ ॥ सौवर्णमणिपात्रेषु कांस्यरौप्यायसेषु च ॥ भिक्षां दद्यान्न धर्मज्ञ गृहीत्वा नरकं व्रजेत् ॥ २३ ॥ एककालं चरेद्भैक्ष्यं न प्रसज्येत विस्तरे ॥ भैक्ष्ये प्रसक्तस्य मतिर्विषयेष्वपि सज्जते ॥ २४॥ विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने ॥ वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ २५ ॥ अलाभी न विषादी स्याल्लाभे चापि न हर्षयेत् ॥ प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ अभिपूजितलाभांस्तु यतिर्मुक्तोऽपि बध्यते ॥ २६ ॥ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ॥ ह्रियमाणानि विषयेन्द्रियाणि निवर्तयेत् ॥ २७ ॥ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ॥ अहिंसया च भूतानाममृतत्वाय कल्पते ॥ २८ ॥ अवेक्षेत गतिं नृणां कर्मदोषसमुद्भवाम् ॥ निरये चैव पतनं यातनाश्चैव याम्यिकाः ॥ २९ ॥ देहादुत्क्रमणं चास्मात्पुनर्गर्भे च सम्भवम् ॥ योनिकोटिसहस्रेषु मृतौ चास्यान्तरात्मनः [^1] ॥ ३० ॥ अधर्मप्रभवं चैव दुःखसंयोगं शरीरिणाम् ॥ धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ ३१ ॥ सूक्ष्मतां चानुवीक्षेत योगेन परमात्मनः ॥ देहेषु चैव पतितानुत्तमेष्वधमेषु च ॥ ३२॥ दूषितोऽपि चरेद्धर्मं यत्र कुत्राश्रमे रतः ॥ समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ३३ ॥ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ॥ न नामग्रहणादेव तस्य वारि प्रसीदति ॥ ३४ ॥ संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ॥ शरीरस्यात्यये वापि समीक्ष्य वसुधां चरेत् ॥ ३५॥ अह्नोरात्र्या च याञ्जन्तून्हिनस्त्यज्ञानतो यतिः ॥ तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत् ॥ ३६ ॥ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः ॥ व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ ३७ ॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ॥ तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ ३८ ॥ प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ॥ प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् ॥ ३९ ॥ उच्चावचेषु भूतेषु दुर्ज्ञेयमकृतात्मभिः ॥ ज्ञानयोगेन सम्पश्येद्गतिमस्यान्तरा
द्वि० खं० अ० १३२ वि० ध० ॥२७६॥
अहिंसयेन्द्रियासङ्गैर्वैदिकैश्च कर्मभिः ॥ तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम् ॥ ४२ ॥ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ॥ चर्माव- नद्धं दुर्गन्धि पात्रं मूत्रपुरीषयोः ॥ ४३ ॥ जराशोकसमाविष्टं रोगायतनमातुरम् ॥ रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥ ४४ ॥ नदीकूले यथा वृक्षो वृक्षे वा शकुनिर्यथा ॥ तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते ॥ ४५ ॥ प्रियेषु स्वेषु सुकृतं चाप्रियेषु च दुष्कृतम् ॥ विसृज्याध्यात्म- योगेन ब्रह्माभ्येति सनातनम् ॥४६॥ यदा भावेन भवति सर्वभावेषु निःस्पृहः ॥ तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम्॥४७॥ अनेन विधिना सर्वान्कामांस्त्यक्त्वा शनैःशनैः ॥ सर्वद्वन्द्वैर्विनिर्मुक्तो ब्रह्मण्येवावतिष्ठति ॥ ४८ ॥ ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम् ॥ न ह्यध्यात्म- कविः कश्चित्क्रियाफलमुपाश्नुते ॥ ४९॥ अधियज्ञं ब्रह्म जपेत्साधिवैदिकमेव च ॥ आध्यात्मिकं च सततं वेदान्ताभिहितं फलम् ॥ ५० ॥ इदं शरणमज्ञानामिदं देवं विजानताम् ॥ इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥ ५१ ॥ अनेन क्रमयोगेन परिव्रजति यो द्विजः ॥ स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥ ५२ ॥ एष धर्मोऽनुशिष्टस्ते यतीनां नियतात्मनाम् ॥ एवं संन्यासकानान्तु कर्मयोगं निबोध मे ॥ ५३ ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥ एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥ ५४ ॥ सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः ॥ यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ ५५ ॥ सर्वेषामेव चैतेषां वेदश्रुतिविधानतः ॥ गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्बिभर्ति हि ॥ ५६ ॥ यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ॥ तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्॥५७॥ चतुर्भिरपि यतव्यं नित्यमाश्रमिभिर्द्विजैः ॥ दशलक्षणिको धर्मः सेवितव्यः प्रयत्नतः ॥५८॥ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ॥ धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्॥५९॥ दश चिह्नानि धर्मस्य ये विप्राः समधीयते ॥ अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ६० ॥ दशलाक्षणिकं धर्ममनुतिष्ठन्समाहितः ॥ वेदान्तं विधिवच्छ्रुत्वा मुच्यतेऽनृणो द्विजः ॥६१॥ संन्यस्य सर्वकर्माणि सर्वान्दोषानपानुदेत् ॥ नियमो धर्ममभ्यस्य पुत्रैः सह सुखं वसेत् ॥६२॥ एवं संन्यस्य कर्माणि स्वकार्ये परमोऽस्पृहः ॥ संन्यासेनापहृत्यैनः प्राप्नोति परमां गतिम् ॥ एष तेऽभिहितो धर्मो द्विजातीनां चतुर्विधः ॥ ६३ ॥ स्वल्पोऽपि धर्मश्चरितो यथायं महाफलः स्यात्सततं द्विजानाम् ॥ तस्मात्प्रयत्नेन ह्ययमेव कार्यः सर्वं समुत्सृज्य महानुभावः ॥ ६४ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने चतुर्थाश्रमवर्णनकर्म द्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १३१ ॥
राम उवाच ॥ अष्टादशभ्यः शान्तेभ्यः शान्तयो याः सुरोत्तम ॥ भिद्यन्ते वा न भिद्यन्ते तन्ममाचक्ष्व पुष्कर ॥ १ ॥ पुष्कर उवाच ॥
अमृता चामया सौम्यास्तिस्रोत्याः सन्ति भार्गव ॥ एकापि विज्ञेया सर्वकर्मफलप्रदा ॥ २ ॥ सर्वोत्पातप्रशमनी मङ्गल्या सिद्धिकारिका ॥ पूर्वोक्ताः कथितेष्वेव कर्तव्या अद्भुतेषु च ॥ ३ ॥ राम उवाच ॥ शान्तीनां मे त्वमाचक्ष्व स्वरूपणि महाभुज ॥ पितामहसमो लोके सर्वज्ञोऽपि मतो मम ॥४॥ पुष्कर उवाच ॥ अमृता शर्वदैवत्या अभया ब्रह्मदैवता ॥ सौम्या च सोमदैवत्या कथिता भृगुनन्दन ॥ ५ ॥ अन्यासां देवता ज्ञानं नाम्नैव कथितं तव ॥ आथर्वणानां शान्तीनां निर्दोष गदतो मम ॥ ६ ॥ अमृता चित्रवर्णा स्यादभया तु शरिप्रभा ॥ सौम्या शुक्ला विज्ञेया नीला भवति वैष्णवी ॥ ७ ॥ बालार्कसदृशा रौद्री ब्राह्मी शंखसमप्रभा ॥ रुक्मवर्णा तथैन्द्री वायव्या हरिता भवेत् ॥ ८ ॥ शुक्ला च वारुणी ज्ञेया कौबेरी पद्मसुप्रभा ॥ भार्गवी शुक्लवर्णा स्यात्प्राजापत्या च पीतिका ॥ ९ ॥ त्वाष्ट्री शुक्ला च विज्ञेया कौमारी ताम्रसुप्रभा ॥ आग्नेय्याग्निशि वर्णा स्याच्छुक्ला मातङ्गिनी भवेत् ॥ १० ॥ प्रवालाभा च गान्धर्वी कृष्णा वै नैऋता तथा॥गोचनाभा चाङ्गिरसी याम्या कृष्णा तथा भवेत् ॥ ११ ॥ पार्थिवी च मयूराभा वर्णतः कथितास्तव ॥ अतः परं प्रवक्ष्यामि स्थानान्यासां यथाविधि ॥ १२ ॥ अमृता चामया सौम्या तिस्रस्तु भृगुनन्दन ॥ तासां सर्वत्र संस्थानं कथितन्तु पुरातनैः ॥ १३ ॥ प्राजापत्या तथामेयी याम्या वै नैऋती तथा ॥ कौवेरी पार्थिवी चेति पृथिव्यां परिकीर्तिताः ॥ १४ ॥ वायव्या चैवं कौमारी वैष्णवी रुद्रदेवता ॥ अन्तरिक्षे विनि र्दिष्टाः शान्तयो द्विजसत्तम ॥ १५ ॥ ऐन्द्री मातङ्गिनी त्वाष्ट्री दिव्या ब्राह्मी तथोन्नता ॥ वारुणी चैव गान्धारी भार्गव्याङ्गिरसी तथा ॥ १६ ॥ आद्यास्तु कथितास्तूम्यं कर्तव्याश्च विजानता ॥ यथा स्वदेशजातेषु चाद्भुतेषु यथाविधि ॥ १७ ॥ तद्देवतास्तथा मन्त्राः सर्वासां गणे उच्यते ॥ मणीनाञ्च तथा गर्भाः सर्वासां मन्त्र उच्यते ॥ १८ ॥ मणीनाञ्च तथा मन्त्रा ज्ञातव्या मन्त्रलिङ्गतः ॥ सर्वासाञ्चैव शान्तीनां होतव्याश्च गणा दश ॥ १९ ॥ शान्त्यातितीन्तनु भैषज्यं विसतीत्यं तथैव च ॥ अभया च तथा गम तथा चैवापराजिता ॥ २० ॥ आयुष्यं च स्वस्त्ययनं सर्ववर्मगणं तथा ॥ वास्तोष्पत्यं तथा रौद्रं गणाः प्रोक्तास्तथा दश ॥ २१ ॥ होमस्त्वेषां मन्तव्यः सर्वाशान्तिषु भार्गव ॥ पृथक्प्रवचनातः पूर्वाः प्रकीर्तिताः॥२२॥ गणेगणे तु गां दद्याद्द्वां गमे गां तथा मणौ ॥ अजाजा भूमिपालस्तु दद्याद्दश दशैव तु ॥२३॥ निस्कामः सद्भुवं चैव तथा दद्यात्पुरोधसे ॥ अभयाया मणिः कार्यों वारुणस्य भृगूत्तम ॥२४॥ शतकाण्डोऽमृतायाश्च सौम्यायाः शङ्खजो मणिः॥ वैष्णव्यास्त्रिवृतः प्रोक्तः स्नातो रौद्र्यास्तथा मणिः ॥ २५ ॥ ब्रह्मरक्षस्तथा ब्राह्मया मैत्र्याः स्यात्कनको मणिः ॥ वायव्याश्चाङ्गिरः प्रोक्तो वायव्यः
४७
वि० ध० ॥२७७॥
द्वि० खं० अ० १३२
शङ्खजो भवेत् ॥ २६ ॥ औदुम्बरश्च कौबेर्यां भार्गव्यायाः शतावरीम् ॥ प्राजापत्या बिल्वमणिरुत्त्वाग्र्याः संस्तुतो मणिः ॥ २७ ॥ दाक्षाय- णश्च कौमार्यां आग्नेय्याञ्च तथैव तु ॥ मातङ्गिन्त्या जिनितजं गान्धर्व्यां अजशृङ्गकम् ॥ २८ ॥ नैर्ऋत्यामामयसं चैव आङ्गिरस्यान्तथाञ्जनम् ॥ शतकाण्डश्च याम्यायाः पार्थिव्या अपि पार्थिवम् ॥ २९ ॥ अद्भुतस्य बलं ज्ञात्वा कृच्छ्रं कुर्यात्तु रोहितः ॥ प्रागेव कुर्याच्छमनमादावेवाद्भु- तस्य तु ॥ ३० ॥ कृतकृच्छ्रस्तु कुर्वीत ततः शान्तिमुपोषितः ॥ अरण्यां पातयेद्वह्निं सर्वोषधितासु शान्तिषु ॥ ३१ ॥ ध्रुवेण उपवासिदिनस्यान्ते वह्निमुत्पाद्य यत्नतः ॥ उल्लूखलं विभजेत्कन्याद् सौम्यमेव च ॥ ३२ ॥ कृत्वा कपाले ऋष्याईं ध्रुवेण नैर्ऋतीं दिशम् ॥ शान्त्यागारे स्थापयेच्च शान्त्यर्थं सौम्यमेव वा ॥ ३३ ॥ कृष्णोषणीषः कृष्णवासाः कृष्णमाल्यानुलेपनः ॥ पुरोहितः प्रदेशं तु गत्वा वै नैर्ऋतों यजेत् ॥ ३४ ॥ मृन्मयं जीर्णशीर्षं तु गन्धमाल्यानुसम्पदा ॥ कृष्णवत्सैस्तु संछाद्य ततस्त्वपहरंङ्गलैम् ॥ ३५ ॥ वाद्यघोषेण महता तथा कोलाहलैः शुभैः ॥ ततोऽग्नौ जुहुयात्सम्पङ््मद्भिःप्रभृति वै द्विज ॥ ३६ ॥ ये पिशाचाश्चतुर्भक्तं दर्पिकां शर्करीं ततः ॥ केवले जुहुयाद्धोता कराञ्जुत्तया अवामया ॥ ३७॥ फलीकरणमग्नौ च हुत्वा मुक्त्वा च पावकम् ॥ अश्वत्थस्वस्थं यायात्तन्मात्स्नात्वा श्वेताम्बरस्ततः ॥ ॥ ३८ ॥ अहोमुखं शान्तिकं च जप्त्वा तिष्ठेत्त्वरान्वितः ॥ रात्रौ त्रिभागशेषाय शान्तिकर्म समापयेत् ॥ ३९ ॥ शान्तिकल्पाविधानाज्ञः सदस्यैः सहितस्ततः ॥ एकः कर्मणि युक्तः स्यादेको मन्त्रस्य निश्चये ॥४०॥ एष शान्तिविधिः प्रोक्तः समासात्सर्वशान्तिषु ॥ विस्तरे विस्तरः प्रोक्तः शान्तिकर्म हयर्षभः ॥४१॥अनेन पूज्योऽथ पुरोहितः स्यात्तथोपदेष्टा गुरुरप्रमत्तः ॥ सर्वोत्सरो वस्तु ततः सदस्याः पूज्यास्ततो विप्रवराश्च सर्वे॥४२॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० राम प्रति पुष्करोपाख्याने शान्तिकर्मवर्णनोनाम द्वात्रिंशादुत्तरशतमोऽध्यायः ॥ १३२ ॥ ॥ राम उवाच ॥ काका शान्तिर्भवेत्का वा कस्मिन्कस्मिंस्तथाद्भुते ॥ एतन्मे संशयं छिन्धि द्विजवरिवलसूदन ॥ १ ॥ पुष्कर उवाच ॥ सर्वात्पातमश- मनी हृद्युता चामया स्मृता ॥ सौम्या चैव महाशान्तिः सर्वकर्मफलप्रदा ॥ २ ॥ विशेषण० तु भौमेषु शान्तिः कार्याभ्रता भवेत् ॥ अभया चान्तरे- क्षेषु सौम्या दिव्येषु भार्गव ॥ ३ ॥ विजिगीषुः पराज्ञाज्ञा भूमिकामश्च योजयेत् ॥ आरोग्यचनकामश्च सौम्यां तां कार्यत्सदा ॥ ४ ॥ विजि- गीषुः परानेवमभियुक्तस्तथा परैः ॥ तथाभिचाराशङ्कायां शत्रूणामपि शासने ॥ ५॥ भये महति च प्राप्ते तमथा शान्तिरिष्यते ॥ राज्यक्षामि- भूतस्य क्षतक्षीणस्य चाप्यथ ॥ ६॥ सौम्या प्रशस्यते शान्तिर्यक्षकामस्य चैव हि ॥ भूमिकम्पे समुत्पन्ने प्राप्ते चान्नेक्षय तथा ॥ ७॥ आति-
॥२७७॥
वृष्ट्यामानादृष्ट्यां शल्याग्निभयेषु च ॥ प्रपन्नेषु च चौरेषु वैष्णवीशान्तिरिष्यते ॥ ८ ॥ पशूनां मरणे प्राप्ते नराणामपि दारुणे ॥ भूतेषु दृश्य मानेषु रौद्री शान्तिस्तथेष्यते ॥ ९ ॥ भविष्यत्यभिषेके च परचक्रमभयेषु च ॥ स्वराष्ट्रभेदैडरिोधे शान्तिर्नैन्द्री प्रशाम्यते ॥ १० ॥ व्यहातिरेके पवने रूक्षे सर्वदिगुत्थिते ॥ वैकृते वातजे व्याधौ वायवी शान्तिरिष्यते ॥ ११ ॥ अनावृष्टिभये जाते जाते विकृतवर्षणे ॥ जलाशयाविकारे च वारुणी शान्तिरिष्यते ॥ १२ ॥ अभिशापभये प्राप्ते भार्गवी च तथा द्विज ॥ जाते प्रसववैकृत्य प्राजापत्या महाभुज ॥ १३ ॥ उपस्कराणां वैकृत्ये त्वाष्ट्री भार्गवनन्दन ॥ बालानां शान्तिकामस्य कौमारी च तथा शुभा ॥ १४ ॥ आग्नेयी कार्येच्छान्ति सम्प्राप्ते बह्निवैकृते ॥ कार्या मारूष्णी शान्तिर्दुर्बलेन महीक्षिता ॥ १५ ॥ आज्ञाभंगे तथा जाते भूतव्याधिसंशये ॥ अश्वानां शान्तिकामस्य तद्विकारे तथोत्थिते ॥ १६ ॥ गजान्कामयमानस्य गान्धर्वी शान्तिरिष्यते ॥ गजानां शांतिकामस्य तद्विकारे तथोत्थिते ॥ १७ ॥ गजान्कामयमानस्य शान्तिरार्द्धजिरसी भवेत् ॥ पिशाचादिभये जाते शान्तिर्वै नैऋती मता ॥ १८ ॥ अपमृत्युभये जाते दुःस्वप्ने च तथा द्विज ॥ कार्या तु कार्येच्छान्तिं प्राप्ते तु मरके तथा ॥ १९ ॥ धननाशे समुत्पन्ने कौबेरी शांतिरिष्यते ॥ वृक्षाणां च तथाऽर्तानां वैकृते समुपास्थिते ॥ २० ॥ भूमिकम्पस्तथा शांतिं पार्थिवी संप्रयोजयेत् ॥ प्रथमे दिनयामे च रात्रौ च मनुजोत्तम ॥ २१ ॥ हस्ते स्वातौ च चित्रायामादित्ये चाम्विने तथा ॥ अर्यम्णे सौम्यजातेषु वायव्या त्विङ्गुतेषु च ॥ २२ ॥ द्वितीये दिनयामे च रात्रौ च भृगुनन्दन ॥ पुष्याग्नेयविशाखासु पित्र्यासु भरणीषु च ॥ २३ ॥ उत्पातेषु तथा भाग्ये त्वाग्नेयी शान्तिरिष्यते ॥ तृतीयेऽहिनयामे च रात्रौ च भृगुनन्दन ॥ २४ ॥ रोहिण्यां वैष्णवे ब्राह्मे वासवे विश्वदैवते ॥ ज्येष्ठायां च तथा मैत्रे ये भवन्त्युत्पाताः क्वचित् ॥ २५ ॥ ऐन्द्री तेषु प्रयोक्तव्या शान्तिर्भृगुकुलोद्भव ॥ चतुर्थे दिनयामे वा रात्रौ च भृगुनन्दन ॥ २६ ॥ सार्पे पौष्णे तथार्द्रायां त्वाहिवुध्न्ये च दारुणे ॥ मूले वारुणदैवत्ये ये भवन्त्युत्पातास्तथा ॥ २७ ॥ वारुणी तेषु कर्तव्या महाशान्तिर्मिहीक्षिता ॥ भिन्नमण्डलवेलासु ये भवन्त्युत्पाताः क्वचित् ॥ २८ ॥ तेषु शांतिद्वयं कार्यं निमित्ते सति नान्यथा ॥ निर्निमित्ता कृता शांति र्निमित्तायोपजायते ॥ २९ ॥ बाणप्रहारा न भवंति यद्धन्तॄणां रणे सब्रह्मनेर्तॄणानाम ॥ दैवोपाघाता न भवंति तद्बर्द्धमात्मनां शांतिपगयणानाम् ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामं प्रति पुष्करोपाख्याने अद्भुतेषु शान्तिकर्मवर्णनो नाम त्रयस्त्रिंशदुत्तराशततमोऽध्यायः ॥ १३३॥ राम उवाच ॥ अद्भुतानां फलं देव शमनं च तथा वद ॥ त्वं हि वेत्सि विशालाक्ष ज्ञेयं सर्वमशेषतः ॥ १॥ पुष्कर उवाच ॥ अत्र ते वर्णयिष्यामि यदु-
वि० ध० ॥२७८॥
वाच महातपाः॥ अत्र यो वृद्धर्गर्गस्तु सर्वधर्मभृतां वरः॥२॥सरस्वत्यां सुखासीनं गर्गं स्रोतासि भार्गव ॥ पप्रच्छाङ्गिरसांमहातेजा गर्गं मुनिजनप्रियम्॥३॥ अग्निरुवाच ॥ नश्यतां पूर्वरूपाणि जनानां कथयस्व मे ॥ नगराणां तथा राज्ञां त्वं हि सर्वविदुच्यसे ॥४॥ गर्ग उवाच॥ पुरुषापचारान्नियतमप- ज्यन्ति देवताः ॥ ततोपरागद्देवानामुपसर्गः प्रवर्तते ॥ ५ ॥ दिव्यान्तरिक्षभौमं तत्रिविधं परिकीर्तितम् ॥ गृह्णतं वक्तुं दिव्यमन्तरिक्षं निबोध मे ॥ ६ ॥ उल्कापातो दिशां दाहः परिवेषस्तथैव च ॥ गन्धर्वनगरं चैव वृष्टिस्तु विकृता च या ॥ ७ ॥ एवमादीनि लोकेस्मिन्नभांसानि विनि र्दिशेत् ॥ चरस्थिरमयं भूमौ भूकम्पोपि भूमिजम् ॥ ८ ॥ जलाशयानां वैकृत्यं भूमौ तदपि कीर्तितम् ॥ भौमं याम्यफलं ज्ञेयं चिरेण भुवि पच्यते ॥ ९ ॥ नाभसं मध्यफलदं मध्यकालफलप्रदम् ॥ दिव्यं तीव्रफलं ज्ञेयं शीघ्रकारि तथैव च ॥ १० ॥ अद्भुते तु समुत्पन्ने यदि वृष्टिः शिवा भवेत् ॥ सप्ताहाभ्यन्तरे ज्ञेयमद्भुतं निष्फलं हि तत् ॥ ११ ॥ अद्भुतस्य विपाकश्चेद्दिना शान्तेर्न दृश्यते ॥ त्रिभिर्वर्षैस्तथा ज्ञेयं सुमहद्भयकार- कम् ॥ १२ ॥ राज्ञः शरीरे लोके च पुरदारे पुरोहिते ॥ पाकमायाति पुत्रेषु तथा वै कोशवाहने ॥ १३ ॥ दन्तस्वभावजा ये च भवन्त्यद्भुतसं ज्ञकाः ॥ शुभावहास्ते विज्ञेयास्तांश्च मे गदतः शृणु ॥ १४ ॥ वज्राशनिमहाकम्पसन्ध्यानिर्गतनिःस्वनाः ॥ परिवेषं रजो धूमं रक्तांर्कोस्तमनो दये ॥ १५ ॥ दुर्मेघो वरयक्षैश्च बहुपुष्पफलापगाः ॥ गोपक्ष्मधुवृद्धिश्च शुभानि मधुमाधवे ॥ १६ ॥ तारोल्काघातकलुषं कपिलाकं तु मण्ड लम् ॥ अनग्निज्वलनास्फोट्धूमरेष्वनिलावहम् ॥ १७ ॥ रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम् ॥ सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ १८ ॥ शक्रायुधं परिवेषं विद्युत्स्फुरणरोहणम् ॥ कम्पोद्दलैर्नवैर्वृत्यं त्रसनं दारुणं क्षितेः ॥ १९ ॥ नद्योदपानसरसां वृद्धिश्चभ्रतरुण पुष्वाः ॥ शीर्णता चाहि गेहानां वर्षासु च भविष्यति॥२०॥ दिव्यस्त्रीभूतमगन्धर्वनिमानानादृढस्तनम् ॥ ग्रहनक्षत्रा रणां दर्शनं च दिवाकरे॥२१॥ गीतवादित्रनिर्घोषो वनपर्वतसानुषु ॥ रसवृद्धिस्सौत्पत्तिः शरत्काले शुभाः स्मृताः ॥ २२ ॥ शीतोलुङ्गुलोत्पातत्वं नन्दनं गृहपक्षिणाम् ॥ रक्षौय क्षादिसत्त्वानां दर्शनं वागमानुषी ॥२३॥ दिशो धूमान्धकाराश्च शरभोचनपर्वताः ॥ उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥२४॥ हिमपा तानिलेत्पातो विष्पादुतदर्शनम् ॥ कृष्णाञ्जनाभमाकाशं तारेल्कापातपिञ्जरम्॥२५॥ चित्रगभोद्भवं स्त्रीषु गोजाश्वमृगपक्षिषु ॥ पत्राङ्कूललतानां च विकाराः शिशिरे शुभाः॥२६॥ऋतुस्वभावेन विनाद्भुतस्य जातस्य तु शीघ्रमेवा कृत्वा शमं शान्तिरनन्तरं तु कार्या यथोक्ता वसुधाधिपे न॥२७॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामं प्रति पुष्करोपाख्याने नानाविधोत्पातकथनो नाम चतुरधिकशततमोऽध्यायः॥१३४॥
द्वि० सं० अ० १३४ ॥२७८॥
गर्ग उवाच ॥ देवतार्चाः नृत्यन्ति वेपन्ते प्रज्वलन्ति च ॥ आरटन्ति च रोदन्ति प्रस्विद्यन्ति हसन्ति च ॥१॥ उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति वसन्ति च ॥ भुञ्जते विक्षिपन्ते वा गात्रप्रभरणाध्वजान् ॥२॥ अवाङ्मुखावातिष्ठन्ति स्थानात्स्थानं भ्रमन्ति च ॥ वमन्त्यग्निं तथा धूमं स्नेहंरक्तं तथा वसाम्॥३॥एवमादीनि दृश्यन्ते विकारा सहसोत्थिताः॥लिङ्गायतनचित्रेषु तत्र वासं न रोचयेत्॥४॥राज्ञो वा व्यसनं तत्र सवादेशो विनश्यति॥ देवयात्रां सचित्पातां दृष्ट्वा देशभयं वदेत् ॥ ५ ॥ पितामहर्षिगंधर्वेषु यात्रिमिंतं द्विजेषु तत् ॥ गुरुशुक्रमिश्रजातानि यानि तानि पुरोहिते ॥६॥ पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम्॥ ज्ञेयं सेनापतीनां तु यत्स्यात्स्कन्दविनायकम् ॥७॥ लोकानां विष्णुवाश्विन्द्रविश्वेर्कसमुद्भवम् ॥ विनायको द्भवं ज्ञेयं गणानां ये तु नायकाः ॥ ८ ॥ देवप्रेष्यनृपप्रेष्यदेवेषु स्त्रीषु नृपस्त्रियः ॥ वास्तुदेवेषु विज्ञेयं गृहिणामेव नान्यथा ॥ ९ ॥ देवताचांर्विकारेषु श्रुतित्वेता पुरोहितः ॥ देवताचंां - ततो गत्वा स्नातामाच्छाद्य भूपयेत् ॥ १० ॥ पूजयेच्च महाभाग गन्धमाल्यान्नसम्पदा ॥ मधुपर्केण विधि वदुपहितैश्चदन्तरम् ॥ ११ ॥ तल्लिङ्गेन च मन्त्रेण स्थालीपाकं यथाविधि ॥ पुरोधा जुहुयाद्धोमौ सप्तरात्रमतन्द्रितः ॥ १२ ॥ विप्रांश्च पूज्या मधुरा न्नपानैः सदक्षिणैः सप्तदिनं द्विजेन्द्रा।प्राप्तेऽष्टमेऽह्नि क्षितिगोप्रदानैः सकाश्रनैः शांतिमुपैति पापम् ॥ १३॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने अर्चाविकारोपशमनवर्णनो नाम पञ्चत्रिंशदुत्तरशततमोऽध्यायः॥ १२६॥गर्ग उवाच॥ अनिर्माद्दीप्यते यत्र राष्ट्रे भृशसमन्वितः ॥ न दीव्यते चेन्धनं वा सराशूः पीड्यते नृपः ॥१॥प्रज्वलदाम्बुनाशं च तथार्द्रं वाति किञ्चन ॥ प्रसादस्तोरणं द्वारं नृपे श्म सुरालयम् ॥२॥ एतानि यत्र दह्यन्ते तत्र राजभयं भवेत् ॥ विद्युता वा प्रदृश्यन्ते तथापि नृपतेर्भयम् ॥३॥ अनैशानि तमांसि स्युर्दिश आबुर जांसि च ॥ धूमस्वानग्निजो यत्र तत्र विद्यान्महद्भयम् ॥ ४ रात्रावनभ्रे गगने भयं स्यादृक्षवर्जिते ॥ दिवा सतारे गगने तथैव भयमादिशेत् ॥ ५॥ ग्रहनक्षत्रवेकृत्ये ताराविकृतदर्शने ॥ प्रवाहानायनानेषु चतुष्पान्मृगपक्षिषु ॥ ६ ॥ आयुषेषु च दीप्तेषु ब्रूमाप्यत्सु तथैव च ॥ निर्यत्सु कोशेश्च तथा संग्रामस्तुलभो भवेत् ॥ ७ ॥ विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कर्हिचित् ॥ स्वभावाच्चापि पूर्वन्ते धूर्त्तपि विकृतानि च ॥ ८ ॥ विकाराश्चायुधानां स्युस्तत्र संग्राममादिशेत् ॥ त्रिरात्रोपोषितस्तत्र पुरोधाः सुसमाहितः ॥ ९ ॥ समिद्भिः क्षीरवृक्षाणां सर्पिषैश्च घृतेन च ॥ अग्मिल्लिङ्गेभ्य जुहुयाद्वह्निं श्वेताम्बरः शुचिः ॥ १० ॥ दद्यात्सुवर्णं च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवं च ॥ एवं कृते पापमुपैति नाशं यद्गद्वितैरुक्तमभवं द्विजेन्द्र ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने
वि० ध० ॥२७१॥ द्वि० सं० अ० १३८ ॥२७१॥
औत्पातिकामिधानेनो नाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३६ ॥ गर्ग उवाच ॥ पुरेषु येषु दृश्यन्ते पादपा देवचोदिताः ॥
रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून्सरान् ॥ १ ॥ पुरोगवा विना वातं शाखां मुञ्चन्त्यसंभ्रमात् ॥ फलपुष्पं तथा बाला
दर्शयन्ति विहायसाः ॥ २ ॥ सर्वावस्थां दर्शयन्ति फलपुष्पमथाभवम् ॥ क्षीरं स्नेहं सुरां रक्तं मधु तोयं स्रवन्ति च ॥ ३ ॥
शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वा पुनः ॥ उत्तिष्ठन्ति पतिताः पतन्ति च तथोत्थिताः ॥४॥ तत्र वक्ष्यामि ते ब्रह्मन्नापाके फलमेव च ॥
रोदने व्याधिमाख्याति हसने देशविप्लवम् ॥ ५॥ शाखाप्रपतने कुर्यात्संग्रामे योधपातनम् ॥ बालानां मरणे कुर्याद्बालानां फलपुष्पता ॥ ६ ॥
स्वराष्ट्रमृदं कुरुते फलपुष्पसनाततम् ॥ क्षयं सर्वत्रगे क्षीरे स्नेहे दुर्भिक्षलक्षणम् ॥ ७॥ वाहनापचयं मध्ये रक्ते संग्राममादिशेत् ॥ मधुस्रावे भवे
द्व्याधिर्जलस्रावेण वर्षति ॥ ८ ॥ अरोगशोषणाज्ज्ञेयं ब्रह्मन् दुर्भिक्षलक्षणम् ॥ शुष्केषु समरोहत्सु वीर्यमन्नं च हीयते ॥ ९ ॥ उत्थाने पतितानां च
भयं भेदकरं भवेत् ॥ स्थानात्स्थानान्तरंगणां देशभङ्गं तथादिशेत् ॥ १०॥ जलस्थापि च वृक्षेषु रुदत्स्वपि धनक्षयम् ॥ एतद्ब्रोर्जितवृक्षेषु सर्वं राज्ञो
विपच्यते ॥११॥पुष्पे फले वा विकृते राज्ञो मृत्युं तदादिशेत् ॥ अन्येषु चैव वृक्षेषु वृक्षः स्यात्केवलोद्भवतः ॥१२॥ आच्छादयित्वा तं वृक्षं गन्धमाल्यै
र्विभूषयेत् ॥ वृक्षोपरि तथा छत्रं कुर्यात्तापप्रशान्तये ॥ १३ ॥ शिवमभ्यर्चयेद्देवं पशुं चास्मै निवेदयेत् ॥ मूलस्ये इति पम्पापान्हुत्वा रुद्रं जपे
त्तथा ॥ १४ ॥ मध्वाज्ययुक्तेन तु पायसेन संपूज्य विप्रान्ध्रुवं च दद्यात् ॥ गीतेन नृत्येन तथाचेयते देवं भवं पापविनाशहेतोः ॥ १५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामे प्रति पुष्करोपाख्याने औत्पातिके वृक्षवैकृतवर्णनो नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ॥ १३७॥
॥ गर्ग उवाच ॥ अतिवृष्टिस्त्वनावृष्टिर्दुर्भिक्षायोभयं मतम् ॥ अनृते मदिने रिक्ता वृष्टिर्ज्ञेया भयावहा ॥ १ ॥ अनभ्रे विकृता चैव विज्ञेया
राजमृत्युदे ॥ शीतोष्णताविपर्यासे जन्तूनां रिपुजं भयम् ॥ २ ॥ शोणिते वर्षते यत्र तत्र शस्त्रभयं भवेत् ॥ अङ्गारपांशुवर्षेण नगरं
तद्विनश्यति ॥ ३ ॥ मज्जास्थिस्नेहमांसानां जनमारभयं भवेत् ॥ फलपुष्पे तथा धान्ये हिरण्यादि भयाय तु ॥ ४ ॥ पांसुजन्तुपलानां तु वर्षेण
रोगजं भयम् ॥ छिद्राणां तु प्रवर्षे च सस्यानामभिवर्धनम् ॥ ५॥ विरजस्के रवौ व्योम्ने यदा छाया न दृश्यते ॥ दृश्यते तु प्रतीपा वा तत्र देश
भयं भवेत् ॥ ६ ॥ निर्भ्रे चाथ रात्रौ वा श्वेतं चाम्यतोन्नरेण तु ॥ इन्द्रायुधं तदा दृष्ट्वा उल्कापातांस्तथैव च ॥ ७ ॥ दिग्दाहाहारिवैर्पा वा गन्धर्वनगरं
तथा ॥ परचक्रमयं ब्रूयाद्देशोपद्रवमेव वा ॥ ८ ॥ सूर्येन्दु पर्जन्यसमीरणानां यागस्तु कार्यो विधिवद्विजेन्द्र ॥ धान्यान्नगोकाञ्चनदक्षिणाश्च देया ॥२७१॥
द्विजानां भयनाशनैः ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने औत्पातिकेषु वृष्टिविकृत्यवर्णनो नामाष्टत्रिंशदुत्तरशततमोऽध्यायः ॥ १३८ ॥ गर्ग उवाच ॥ नगरादुपसर्पन्ति समीपमुपयन्ति वा ॥ अशोष्या अपि शुष्यन्ति समीपं प्रवहन्ति वा ॥ १ ॥ नद्यो हृदस्रवणा विसराश्च भवन्ति चेत् ॥ विवर्णं कलुषं तप्तं फेनवज्रं तु संकुलम् ॥ २ ॥ क्षीरं स्नेहं सुरां रक्तं वहन्ते वा कूलोदकाः ॥ पण्णासामन्यतरं तत्र परचक्रभयं भवेत् ॥ ३ ॥ जलाशया नदन्ते वा प्रजल्पन्ति क्षरन्ति वा ॥ विशुष्येत्तेऽथ वा भङ्गोऽल्पाम्बुरजांसि च ॥ ४ ॥ अखाते वा जलोत्पत्तिः ससत्त्वा वा जलाशयाः ॥ संगीतशब्दा दृश्यन्ते जनमारमयं वदेत् ॥ ५ ॥ जलाशयानां वैकृत्ये संयतस्तु जलाशये ॥ स्थालीपाकेन पशुना वरुणं पूजयेद्द्विज ॥ ६ ॥ दिव्यमन्त्रैः पयः सर्पिर्मधु चात्रावसेचनम् ॥ जातव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत् ॥ ७ ॥ मध्वाज्ययुक्तं परमान्नमत्र देयं द्विजानां द्विज भोजनायै ॥ गावश्च देया द्विज वस्त्रयुक्तास्तथोदकुम्भाः सकलाशान्त्यै ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने जलवैकृत्यवर्णनो नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १३९ ॥ ॥ छ ॥ गर्ग उवाच ॥ ॥ कालप्रसवना नार्यः कालातीताः प्रजास्तथा ॥ विकृतप्रसवाश्चैव युग्मप्रसविकास्तथा ॥ १ ॥ अमानुषा अषण्डाश्च सञ्जातव्यसनात्तथा ॥ हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ॥ ॥ २ ॥ पशवः पक्षिणश्चैव तथा चैव सरीसृपाः ॥ विनाशं तस्य देशस्य कुलस्यापि विनिर्दिशेत् ॥ ३ ॥ विवासयेत्तान्नृपतिः स्वराष्ट्रात्श्रियं च पूज्याश्च ततो द्विजेन्द्राः ॥ किमिच्छकैर्ब्राह्मणतर्पणं च कार्यं ततः शान्तिरुपेति पापम् ॥ ४ ॥ इतिश्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने स्त्रीप्रसववैकृत्यवर्णनो नाम चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४० ॥ गर्ग उवाच ॥ वडवा हस्तिनी गोर्वा यदि युग्मं प्रसूयते ॥ विजातं विकृतं वापि षड्भिर्मासैर्विशेद्गृहेत् वै ॥ १ ॥ वियोनिषु च गच्छन्तो मैथुनं देशनाशनाः ॥ अन्यत्र वेसरोत्पत्तेर्नृणां वाजातिमैथुनम् ॥ २ ॥ सर्पमूषकमाजरोमत्स्यश्वानो विवर्जिताः ॥ ज्ञेया दुर्भिक्षकर्तारः स्वजातिपिशिताशिनः ॥ ३ ॥ अकालजं महं घोरं चतुष्पान्पक्षिणांणम् ॥ अन्यजातिवदेत्श्वै धन्यं श्वानं विशेपतः ॥ ४ ॥ अमानुषा मानुषवज्जल्पन्ति प्राणिनो यदि ॥ विकृता वा प्रसूयन्ति परचक्रागमं वदेत् ॥ ५ ॥ त्यागो विवासनं दानं तेषां कार्यं विजानता ॥ तर्पयेद्ब्राह्मणांश्चात्र जपेन्मांह्वं कारयेत ॥ ६ ॥ मृदंगवाद्यैः पटहैः संगीतैः पूजा च कार्या त्रिदिवौकसां वै ॥ धातूस्तथेज्या विधिना च कार्या देयं तथान्नं बहुशो द्विजेभ्यः ॥ ७ ॥ इति
| वि० ध० | द्वि० खं० | |
|---|---|---|
| ॥२८०॥ | अ० १४२ |
श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने वैकृतोपशमनवर्णनो नामैकचत्वारिंशदुत्तरशततमोऽ-
ध्यायः ॥ १४१ ॥ गर्ग उवाच ॥ यानि यानान्युक्तानि युक्तानि न हि यान्ति चेत् ॥ चोद्यमानानि तस्य स्यान्महद्दुःखमु-
पस्थितम् ॥ १॥ वाह्यमाना न वाह्यन्ते वाह्यन्ते चायनाहताः ॥ अचलाश्च चलन्त्येव न चलन्ति चलास्तथा ॥ २ ॥ आकाशात्तूयनादाश्च गीतम-
न्वर्धितस्वनाः ॥ काष्ठं दार्वाविकारादि कुठारं कुरुते यदि ॥ ३ ॥ गवां लांगूलसंश्लेषित्रयं तु यदि पातयेत् ॥ उपरागं दिधुक्षूक्ता घोरं शस्त्रभयं
वदेत् ॥ ४॥ वायोस्तु पूजा द्विज सद्भिरिष्टिं कृत्वा तदुक्तोऽस्त जपेच्च मन्त्रान् ॥ दद्यात्प्रसूतं परमात्मनेभ्रं प्रदक्षिणानेन शमोऽस्य भूयात् ॥५॥ इति
श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० वज्रसंवादे रामं प्रति पुष्करोपाख्याने उपस्करवैकृतवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४२ ॥
गर्ग उवाच ॥ प्रविशन्ति यदा ग्राममरण्यं मृगपक्षिणः ॥ अरण्यं यान्ति वा ग्राम्याः स्थलं यान्ति जलेद्भवाः ॥ १ ॥ जलं वा स्थलजा यान्ति
घोरं वाशन्ति निर्भयाः ॥ राजद्वारे पुरद्वारे शिवाश्चाप्याशिवप्रदाः ॥ २ ॥ दिवा रात्रिश्चरा वापि रात्रौ वापि दिवाचराः ॥ ग्राम्यास्त्यजन्ति ग्रामं
वा शून्यतं तस्य निर्दिशेत् ॥ ३ ॥ दीप्ता वाशन्ति सन्ध्यासु मण्डलानि च कुर्वते ॥ वाशन्ते विस्वरं यत्र तदापत्यत्फलं वदेत् ॥ ४ ॥ प्रदोषे
कुक्कुटो वाशेद्दस्र्मते वापि कोकिलः ॥ अकोदयोऽर्कमभिमुखः श्वा वा नृपभयं भवेत् ॥ ५ ॥ गृहे कपोतः प्रविशेत्कव्यादो मूर्ध्नि लीयते ॥ मधु
वा मक्षिका कुर्यान्मृत्युं गृहपतेर्वदेत् ॥ ६ ॥ प्राकारद्वारगेहेषु तोरणपण्यवीथिषु ॥ केतुच्छत्राद्युधायधेषु क्रव्यात्संन्निपतेद्यदि ॥ ७ ॥ जायते वाथ
वल्मीको मधु वा दृश्यते यदि ॥ स देशो नाशमायाति राजा च म्रियतेऽथ वा ॥८॥ मूषकच्छागलमान्दष्टा प्रसूतान्क्रुद्धयं भवेत् ॥ काष्ठोल्लूकस्यैव
शृङ्गाद्याः श्वानो मर्कटैर्जैताः ॥ ९ ॥ श्मशानं निर्गता ग्रामाद्ग्रामश्रोष्ठविनाशनाः ॥ एकाण्डता तु काकानां यदि चैवाप्यनण्डता ॥ १० ॥
निर्मधु च निवेराश्च देशनाशकरः स्मृतः ॥ अपसव्यं भ्रमन्तश्च मण्डले रणवेदिनः ॥ ११ ॥ दुर्भिक्षवेदोनो ज्ञेयाः काका धान्यमुखे यदि ॥
जनानामभिभवन्तश्च निर्भया रणवेदिनः ॥ १२ ॥ काकौ मैथुनसक्तौ श्वेतश्च यदि दृश्यते ॥ राजा वा म्रियते तत्र स वा देशो विनश्यति ॥ १३ ॥
उलूको वाशते यत्र विपतेद्वा तथा गृहे ॥ ज्ञेयो गृहपतेर्मृत्युर्धननाशस्तथैव च ॥ १४ ॥ मृगापक्षिकांश्चैव कुर्याद्धोमान्सदक्षिणान् ॥ देवाः कपोत
इति च जप्तव्याः पक्षीभिर्द्विजः ॥ १५ ॥ गावश्च देया विविधद्विजानां सकाञ्चना वस्त्रयुगोत्तरीयाः ॥ एवं कृते शान्तिमुपैति पापं मृगोद्विजैर्वा विनिर्व
दितं यत् ॥ १६ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं० रामंप्रति पुष्करोपाख्याने औत्पातिके मृगपक्षिवैकृतवर्णनो नाम त्रिचत्वारिंशदु-
॥२८०॥
तरशततमोऽध्यायः ॥ १४३ ॥ गर्ग उवाच ॥ प्रासादतोरणाट्टालद्वारप्राकारवेश्मनाम् ॥ अनिमित्ते तु पतनं दृष्टानां राजमृत्युवे ॥ १ ॥ रजसा वाथ धूमेन दिशो यत्र समाकुलाः ॥ आदित्यचन्द्रताराश्च दिव्वर्णा भयवृद्धये ॥२॥ रक्षसा यत्र दृश्यन्ते ब्राह्मणाश्च विधर्मिणः ॥ ऋतवश्च विपर्य्य स्ता अपूज्यः पूज्यते जनैः ॥ ३ ॥ नक्षत्राणि वियोगीनि तन्महद्भयलक्षणम् ॥ केतूदयोपरागो न च्छिद्रुता शशिसूर्य्ययोः ॥ ४ ॥ ग्रहशक्तिकृति र्यत्र तत्रापि भयमादिशेत् ॥ स्त्रियश्च कलहायन्ते बाला निघ्नन्ति बालकान्॥ ५ ॥ शौलाचारविहीनाश्च मद्यमांसासृतप्रियाः ॥ तथा पाषाणभूयि ष्ठाश्चार्य्यमार्गप्रच्युता द्विजाः ॥६॥ यत्र देशे विजायन्ते तत्र विद्यादुपद्रवम् ॥ उचितैर्नाभिपूर्ज्यन्ते यूपान्नबलिभिः सदा ॥ ७॥ क्रियाणामशुचितानां च विच्छित्तिर्यत्र जायते ॥ अग्नियंत्र न दीप्येत ह्यमानास्तु शान्तिषु ॥ ८ ॥ पिपीलिकास्तु क्रव्यादो यान्ति चातुरतस्तथा ॥ पूर्णकुम्भाः स्त्रवन्ते च हविर्वा विप्रलुप्यते ॥ ९॥ मङ्गल्याश्च गिरो यत्र न श्रूयन्ते समन्ततः ॥ श्वशृगांलारुदती चाथ प्रहसन्ति रुदन्तिवा॥ १०॥ न च देवेषु वर्त्तन्ते यथा वद्ब्राह्मणेषु च ॥ ममेदोषाणि चोच्यन्ते वाद्यन्ते विगुराणि च ॥ ११ ॥ गुरुमित्रसुहृदो यत्र शत्रुवज्जायता जनाः ॥ ब्राह्मणा-सुहृदोऽमात्याअसनो यत्राव मन्यते॥ १२॥ शान्तिमङ्गलहोमेषु नास्तिक्यं यत्र जायते ॥ राजा वा म्रियते तत्र स वा देशो विनश्यति॥१३॥राज्ञो विनाशे सम्प्राप्ते निमित्तानि निबोध मे ॥ ब्राह्मणाम्प्रथमं द्वेष्टि ब्राह्मणेक्ष विरुध्यते ॥ १४॥ ब्राह्मणेर्निन्द्यते चापि ब्राह्मणांश्च जिघांसति ॥ न तान्मरति कृत्येषु याचितश्चाभि भूयते ॥ १५॥ रमते निर्दयैश्चेषां प्रशंसां नाभिनन्दति ॥ अपूर्व्वं तु करं लोभात्तथा पातयते जने ॥ १६ ॥ एतेष्वभ्यर्च्ययेच्छक्रं सपत्नीकं द्विजो त्तम ॥ भोज्यानि चैव कार्याणि सुराणां बल्यस्तथा ॥ १७॥ गावश्च देया द्विजपुङ्गवेभ्यो सुवं तथा काञ्चनमम्बरञ्च ॥ होमश्च कार्यः सुरपूजनं च एवं कृते शान्तिमुपैति पापम् ॥ १८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने उत्पातप्रशमनं नाम चतुश्च त्वारिंशदुत्तरशततमोऽध्यायः॥१४४॥ राम उवाच ॥ किं तु कृत्यतमं राज्ञस्तन्ममाचक्ष्व पृच्छतः॥ राज्यतन्त्रं कथंराज्ञा पालनीयं विपांश्चता॥ १॥ ॥ पुष्कर उवाच ॥ सप्तांगस्य च राज्यस्य भावयुक्तैन भूभृता ॥ एतावदेव कर्त्तव्यं राज्ञा तन्त्रं सुगुप्तम् ॥ २ ॥ साम दानं तथा दुर्गं कोशो दण्ड स्तथैव च ॥ मित्रं जनपदश्चैव राज्यं सप्ताङ्गमुच्यते ॥ ३ ॥ सप्ताङ्गस्य च राज्यस्य विभ्रक्तंर्निवासयेत् ॥ अहितान्घातयेद्राज्ञा क्षिप्रमेवाविचा रयन् ॥ ४ ॥ सप्ताङ्गस्य च राज्यस्य वृद्धिः कार्या नृमण्डले ॥ मण्डलेषु च सर्वेषु कर्षणीया महीक्षिता ॥ ५ ॥ राम उवाच ॥ मण्डलानि समा चक्ष्व विजिगीषोर्यथाविधि ॥ यान्याश्रित्य नृपैः कार्यं सन्धिविग्रहचिन्तनम् ॥ ६ ॥ पुष्कर उवाच ॥ आत्ममण्डलमत्राथ प्रथमं मण्डलं
द्वि० खं० अ० १४६
वि० धं० ॥२८३॥
भवेत् ॥ समन्तात्तस्य विज्ञेया रिपवो मण्डलस्य तु ॥ ७ ॥ अधिकृत्याऽभियोक्तुं तु तत्रापि शृणु कल्पनम् ॥ अभियोज्यः स्मृतः शत्रुस्तत्प्रापि
च प्रतीहिता ॥ ८ ॥ तत्परस्तु सुहृज्ज्ञेयो मित्रं मित्रारिपुस्तथा ॥ एतत्पुरस्तात्कथितं पश्चादपि निबोध मे ॥ ९ ॥ पार्ष्णिग्राहस्ततः पश्चात्
तत्सवाक्रन्द उच्यते ॥ आसारस्तु ततोन्यस्त्वाक्रन्दसार उच्यते ॥ १० ॥ जिगीषोः शत्रुशक्तस्य विमुक्तस्य तथा द्विज ॥
निग्रहात्तनुमहे शक्तो मध्यस्थः परिकीर्तितः ॥ ११ ॥ निग्रहस्यानुग्रहे शक्तः सर्वेषामपि यो भवेत् ॥ उदासीनः स कथितो
बलवान्पृथिवीपतिः ॥ १२ ॥ एतावदेव ते राम प्रोक्तं द्वादशराजकम् ॥ नानापि निश्चयः शक्यो वक्तुं मनुजपुङ्गव ॥ १३ ॥ नास्ति
जात्या रिपुर्नाम मित्रं नाम न विद्यते ॥ सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा ॥ १४ ॥ त्रिविधा रिपवः प्रोक्ताः कुल्यानन्तर
कृत्रिमाः ॥ पूर्वः पूर्वो गुरुस्तेषां दुर्भिशक्तितमो मतः ॥ १५॥ अनन्तरोऽपि यः शत्रुः सोऽपि मे कृत्रिमो मतः॥ पाणिग्राहो भवेद्राज्ञा शत्रोर्मित्रा
भियोगितः ॥ १६ ॥ पाणिग्राहमुपायैस्तु शमयेच्च तथा स्वकम् ॥ मित्रेण शत्रोराच्छेद्यं न शंसन्ति पुरातनाः ॥ १७ ॥ मित्रं हि शत्रुतामेति
सामन्तत्वादिनन्तरम् ॥ शत्रुं जिगीषुरुच्छिन्द्व्यात्स्वयं शक्तोति चेद्यदि ॥ १८ ॥ प्रतापवृद्धौ तेनास्य न मित्राज्जायते भयम् ॥ नान्यथा पृथिवीं
जेतुं शक्त्या राम जिगीषुणा ॥ १९ ॥ प्रतापवृद्धिः कर्तव्या तस्माद्राज्ञा यथा तथा ॥ तथास्य नोद्विजेल्लोको विश्वास्यश्च यथा भवेत् ॥ २० ॥
जिगीषुर्धर्मविजयी तथा लोकं वशं नयेत् ॥ यः स्यादधर्मविजयी तस्मादुद्विजते जनः ॥ प्राप्यापि वसुधां कृत्स्नां न चिरं श्रियमश्नुते ॥
॥ २१॥ धर्मेण यज्ञो भवति बुद्धिधर्मेण वृद्धिक्ष तथापन्न ॥ धर्मेण लब्ध्वा वसुधां जितारिर्भुक्ता चिरं नाकमनुप्रयाति ॥२२॥ इति श्रीविष्णुधर्मो
त्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने राज्यमण्डलवर्णनं नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४५ ॥
॥ राम उवाच ॥ ॥ सामभेदौ तथा प्रोक्तौ दानदण्डौ तथैव च ॥ दण्डः सुदेशे कथितः परदेशे ब्रवीहि मे ॥ १ ॥ पुष्कर उवाच ॥
द्विविधः कथितो दण्डः परदेशे पुरातनैः ॥ प्रकाशाप्रकाशश्च तं निबोध द्विजोत्तम ॥२॥ लुण्ठनं ग्रामघातश्च सस्यघातस्तथैव च ॥ चतुर्गेण
दण्डेन परषां च तथा वधः ॥ ३॥ प्रकाशः कथितो दण्डः प्रत्यक्षं वन्दिदीपनम् ॥ अप्रकाशो विषं वह्निर्दूषेश्च पुरुषैर्वधः ॥ ४ ॥ दूषणं
यवसादीनामुदकानां च दूषणम् ॥ रसक्रियाश्च विविधाः सुभगा भेदनादिकम् ॥ ५ ॥ एवमादीनि कार्याणि परचक्रे महीक्षिता ॥ स्वराष्ट्रं
च द्विजश्रेष्ठ दूषणं बलिनामपि ॥ ६ ॥ चत्वार एते कथिताभ्युपायाः प्रधानभूता भुवि पार्थिवानाम् ॥ अतः परं ते कथयामि राम शेषांस्त्वस्ते न
॥२८४॥
मयेरिता ये ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० दण्डप्रणयनवर्णनो नाम षट्चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४६ ॥ पुष्कर उवाच ॥ अभिमन्येत नृपतिर्नेन मम विग्रहे ॥ अनर्थांयानुबन्धः स्यात्सन्धिना च तथा भवेत् ॥ १ ॥ साम लब्धास्पदं चात्र दानं चात्र क्षयार्थकम् ॥ भेदे दण्डोऽनुबन्धः स्यात्तदा पक्षं समाश्रयेत् ॥ २ ॥ अवज्ञोपहतस्तत्र राज्ञा कार्यो रिपुर्भवेत् ॥ उपेक्ष्यैव धर्मज्ञ श्रेयसे तत्र सा स्मृता ॥ ३ ॥ उपेक्षाया यत्र तु शक्यमर्थं क्षयव्यवाया समता न तत्र ॥ कार्यं भवेद्ब्राह्मणविद्वहेण लज्जाऽपहारेणाप्यथ सन्धिना वा ॥ ४ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रतिपुष्करोपाख्याने उपेक्षावर्णनो नाम सप्तचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४७॥ पुष्कर उवाच ॥ उत्पातैर्बहुजैः कार्यं परस्योद्वेजनं नृपैः ॥ अरातिशिविरस्यात्र वसतिर्यस्य पक्षिणः ॥ १ ॥ स्थूलस्य तस्य पृच्छयर्था हृत्वोल्कां विपुलां द्विज ॥ विसृज्यैतं ततस्तैस्तुल्कापातं प्रदर्शयेत् ॥ २ ॥ अनेनैवत्व मारेण बुद्ध्या निश्चित्य यत्नतः ॥ उत्पातानि तथान्यानि दर्शनीयानि पार्थिवैः ॥ ३ ॥ उद्वेजनं तथा कुर्यात्कूहकैर्विविधैरपाम् ॥ संवत्सरानहार्पक्ष नाशं ब्रूयुः परस्य च ॥ ४ ॥ जिगीषुः पृथिवी राज्ये तेन चोद्वेजयत्परान् ॥ देवतानां प्रसादानि कीर्तनीयानि तस्य तु ॥ ५ ॥ स स्वप्नलाभांश्च तथा जिगीषुः प्रनिकीतयेत् ॥ दुःस्वप्नलाभं च तथा परेषांमिति निश्चयः ॥ ६ ॥ आगतं नो मित्र बलं प्रहरध्वमभीतवत् ॥ एवं ब्रूयाद्वने प्राप्ते मया भग्नाः परे इति ॥ ७ ॥ ह्वग्डाः किलकिलांशब्दं मम शङ्खैस्ततस्तथा ॥ देवान्गृण्हितो राजा सन्नद्धः समरं प्रति ॥८॥ एवं प्रकारा द्विजवर्य मायाः कार्या नरेन्द्रैररिषु प्रहृष्टैः ॥ मायाहतः शत्रुश्च परस्य शक्यः सुखं हन्तुमदीनसत्त्वः ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्या ने उपाधिवर्णनं नामाष्टचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४८ ॥ पुष्कर उवाच ॥ चतुरङ्गं बलं राजा मायाजालेन दर्शयेत् ॥ महायाथैकतु प्राप्तान्ददर्शयेद्विदोकसः ॥ १ ॥ रक्तवृष्टिश्च संदृश्यां परेषां शिवरं प्रति ॥ छिन्नानि रिपुशीर्षाणि प्रासादांश्च दर्शयेत् ॥ २ ॥ आधितस्तता सन्धिसह्रीनस्तत्त कार्यं भवेद्राम महेन्द्रजालम् ॥ वक्ष्यामि तच्चोपनिषत्सु तुभ्यं योगानि चान्यानि जयावहानि ॥ ३ ॥ इति श्रीविष्णुधर्मोत्तरे मार्कण्डेयवज्रसंवादे इन्द्रजालवर्णनो नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः ॥ १४९ ॥ पुष्कर उवाच ॥ सन्धिञ्च विग्रहञ्चैव द्वैगुण्यं कथितं बुधैः ॥ यदाश्रित्य तथैवान्यैः षाड्गुण्यं परिकीर्तितम् ॥ १॥ सन्धिञ्च विग्रहञ्चैव यानमासनमेव च ॥ द्वैधीभावं संश्रयं च षाड्गुण्यं परिकीर्ति तम् ॥ २ ॥ पणबन्धः स्मृतः सन्धिर्पकारस्तु विग्रहः ॥ जिगीषोः शत्रुविषये यानं यात्रा विधीयते ॥ ३ ॥ विग्रहेऽपि स्वके देशे स्थितिरासन
वि० ध०
॥२८२॥
द्वि०खं०
अ० १६१
मुच्यते ॥ बलार्धेन प्रमाणं तु द्वैधीभावं तदुच्यते ॥ ४॥ उदासीने मध्यमे वा संश्रयात्संश्रयः स्मृतः ॥ समेन सन्धिमन्विच्छेद्धीनेन च बलीयसः ॥
॥ ५॥ हीनेन विग्रहः कार्यः स्वयं राज्ञा बलीयसा ॥ तत्रापि तस्य पार्ष्णिस्तु बलीयान्न समाश्रयेत् ॥ ६ ॥ आसीनः कर्मविच्छेदं शक्तः कर्तुं
रिपुंयदा ॥ अशुद्धपार्ष्णिर्बलवान्द्वैधीभावं समाश्रयेत् ॥ ७॥ बलिना निगृहीतस्तु यो मन्येथेन पार्थिवः ॥ संश्रयस्तेन कर्तव्यो गुणानामचषो
गुणः ॥८॥ बहुलक्ष्यव्ययायासं तेषां यानं प्रकीर्तितम् ॥ बहुलभ्रक्रमः स्यात्तदा राम समाश्रयेत् ॥ ९ ॥ सर्वशक्तिविहीनस्तु तदा कुर्यात् संश्र-
यम् ॥१०॥ एवं च बुद्ध्वा नृपतिर्गुणानां काले च देशे च तथा विभागे ॥ समाश्रयेद्भागवमर्द्दवाशुमूर्य चैतावदुक्तं नृपतेस्तु कार्यम् ॥ ११ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने पाड्गुण्यवर्णनो नाम पश्चाशदुत्तरशततमोऽध्यायः ॥ १६०॥
॥ राम उवाच ॥ ॥ अज्ञाने कर्म मे ब्रूहि राज्ञो राजीवलोचन ॥ यच्च कार्यं नरेन्द्राणां तथा च प्रतिवत्सरम् ॥ १ ॥ ॥ पुष्कर उवाच ॥
द्विसूर्हतार्वशपायां रात्रौ निद्रां त्यजेन्नृपः ॥ वेणुवीणामृदङ्गानां पदज्ञानां च निःस्वनैः ॥ २॥ वन्दिनां निःस्वनैश्चैव तथा मङ्गलवादिनाम् ॥
ततः पश्येन्महीपालो गूढांश्च पुरुषांन्निशि ॥ ३ ॥ विश्वापन्ते न ये लोके तदीया इति केनचित् ॥ आयव्ययस्य श्रवणं ततः कार्यं यथाविधि ॥
॥ ४ ॥ देवोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत्तादृशात्तुभ्यः प्रदोपे तु कल्पसूत्सादिनास्ततः ॥५॥ स्नानं कुर्यात्ततः पश्चाद्दन्तधावनपूर्वकम् ॥
सौषधैर्मन्त्रपूतैस्तु पानीयैर्विधिवैः शुभैः ॥ ६॥ सन्ध्योपास्य प्रयतः कृतजप्यः समाहितः ॥ अनन्यागारं प्रविश्याथ वह्निं पश्येन्नृपो
थसा ॥ ७ ॥ हुतान् सम्यक्ततः कुर्याद्वासुदेवस्य चार्चनम् ॥ दुःस्वप्नशमनं कर्म तत्र कुर्यात्पुरोहितः ॥८॥ स्वयं चोमस्महे वह्नो पवित्रां जुहुया
न्नृपः ॥ तर्पयेदुदकैर्देवान्पितॄंश्च यथाविधि॥ ९॥ दद्याद्विजांतये धेनुं सवत्सां च सकांचनामू॥ शक्त्या घनैः पूजयित्वा दताशीः सततं द्विजैः॥ १०॥
अङ्गुलिस्तस्तः स्रग्वी सुवासाश्चाप्यलंकृतः ॥ दर्पणे च सुखं पश्येत्सुसुवर्णं च सर्पिषि ॥ ११ ॥ आज्यं प्रसन्नं सुरभि यदि स्याद्विज्यो भवेत् ॥
दीयमाने च दुर्बन्धे पतिते च भयं भवेत्॥ १२॥ विकृतं चेन्मुखं पश्येद्राजा मृत्युमवाप्नुयात् ॥ सुभगे च यदा पश्येत्तदा तस्य शुभं भवेत् ॥१३॥
ततस्तु शृणुयाद्राजा सांवत्सरसुखोद्गतम् ॥ दिवसे तिथिनक्षत्रे सर्वाशुभनिवारनम् ॥१४॥ भिषजां च वचः कुर्यात्तत्सव्वारोग्यवर्धनम् ॥ मङ्गला
लम्भनं कृत्वा ततः पश्येद्रुरुन्नृपः ॥१५॥ कृत्याशीर्भिः पञ्चाद्राजा गच्छेत्सभन्ततः ॥ तत्रस्थान्ब्राह्मणान्पश्येदमात्यान्मन्त्रिणस्तथा ॥ १६॥
ततश्चैव महाभाग प्रतीहारनिबोधतः ॥ तत्रेतिहासश्रवणं कुर्यात्किञ्चिद्विचक्षणैः ॥ १७ ॥ ततः कार्यार्थिनां कुर्याद्धर्माधीः कार्यनिर्णयम् ॥ १८॥
॥२८२॥
व्यवहारांस्ततः पश्येत्समो भूत्वारिमित्रयोः ॥ त्यक्ता सभां ततः कुर्यान्मन्त्रं तु सह मन्त्रिभिः ॥ १९ ॥ यत्रास्य कश्चित् मन्त्रं शृणुयान्न कथञ्चन॥ एकेन सह तं कुर्यान्न कुर्याद्बहुभिः सह ॥ २० ॥ न च मूर्खेर्न चानामैस्तथा नादाम्भिकैर्नृपः ॥ मन्त्रं सुविष्ठितं कुर्याद्येनारं न धावति ॥२१॥ राज्ञां विनाशमूलस्तु कथितो मन्त्रविभ्रमः ॥ नाशयेद्धर्महन्मन्त्रः कुप्रयुक्तस्तमन्त्रवत ॥ २२ ॥ मंत्रे सुनिश्चिते सिद्धिः कथिता पृथिवीतलम् ॥ क्रियमाणानि कर्माणि यस्य वेत्ति न कश्चन ॥ २३ ॥ कृतान्येव विजानाति स राजा पृथिवीपतिः ॥ पृथक् च मन्त्रिभिर्मन्त्रं कृतं वै संहितैः पुनः ॥ २४ ॥ विचार्याप्तैस्ततः साधु पश्चात्त्र समाश्रयेत् ॥ प्रज्ञाभिमानी नृपतिर्मन्त्रिवचने रतः ॥ २५ ॥ छिद्रे विनाशमायाति तडान्गमिव काजलम् ॥ आकारगृहने राज्ञो मन्त्ररक्षा परा मता ॥ २६ ॥ आकारैरिङ्गितैः प्राज्ञा मन्त्रं जानन्ति पण्डिताः ॥ सांवत्सरगणौ वैद्यानां मन्त्रिणां वचने रतः॥२७॥ राजा विष्ठितिमाप्नोति चिरं यशसि तिष्ठति ॥ त एवं मृगयासक्तं धारयन्ति विभूषितः ॥२८॥ ह्रीषु माने तथाक्षेपु वृथा ज्यायाश्च भार्गव ॥ करणप्रयने सक्तं हिंसायां च नराधिपम् ॥ २९ ॥ तथा परोक्षनिन्दायां बलवृद्धिप्रहेष्वपि च ॥ अन्येषु चाप्यनर्थेषु प्रसक्तं वारयन्ति तम् ॥ ३० ॥ मन्त्रं कृत्वा ततः कुर्याद्व्यायामं पृथिवीपतिः ॥ रथे नागे तथैवाश्वे खड्गे धनुषि चाप्यथ ॥ ३१ ॥ अन्येषु चैव शस्त्रेषु नियुङ्क्तेषु ततः परम् ॥ पञ्चाशदर्द्धितः स्नातः पश्येद्दिष्णं सुपुजितम्॥३२॥ हुतं च पावकं पश्येद्विप्राश्चपश्येत्पूजितान्॥स्वामिनो दक्षिणाभिश्च पूजितान्भृगुन्दन ॥ ३३॥ ततोऽनुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः ॥ सुवासा भोजनं कुर्याद्धितं च भृगुसातदा ॥३४॥ आत्तं परीक्षितं वर्द्यं मृगपक्षीङ्गितैस्तथा॥ पूर्वं परीक्षितं चान्यैर्जोगुल्पा चाग्निमन्त्रितम्॥३५॥ विषघ्नंश्च मणीन्द्राजा धारयन्वीर्यवर्द्धितान्॥ भुक्त्वा ह्यतीतताम्बूलः परिक्रम्य विशेद्यतः ॥ ३६॥ शयने वामपार्थेन ततः शास्त्राणि चिन्तयेत् ॥ कोष्ठागारायुधागाराणि चाश्वं च वाहनम् ॥ ३७ ॥ योधंश्च दृष्ट्वा चाश्वांश्च ततः सन्ध्यान च पश्चिमा ॥ कार्याणि चिन्तयित्वा च प्रेषयित्वा ततश्चरान् ॥ अन्तःपुरचरो भूत्वा कुङ्कु भुक्ता तथा हितम् ॥ ३८ ॥ सर्वैस्तुवीणापटहरवेण संविशेत् निद्रां कृतपूर्वरक्षाम् ॥ एतद्भारश्यं हि नराधिपानामाजाविके ते कथितं विधानम् ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्र संवादे रामं प्रति पुष्करोपाख्याने आजलिको नामैकपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५१ ॥ ॥ पुष्कर उवाच ॥ राजा तु जन्मलग्ने प्रति मासं समाचरेत् ॥ जन्मनः क्षालनं कर्म यत्तत्पूर्व मयेरितम् ॥ १ ॥ पुष्पस्नानं ततः कुर्यात्प्रीतिमासं नराधिपः ॥ संक्रान्तौ पूजयेत्सूर्य बाल मिन्दुं तथैव च ॥२॥ ग्रहं सम्पूजयद्द्वाजा निर्गतं रविमण्डलात् ॥ अगस्त्यस्योदये कार्या तथा पूजा नराधिपैः ॥ ३॥ पूजयेश्चोत्तरो मासान्युतं
४८
द्वि० सं०
अ० १५१
॥२८३॥
मधुसूदनम् ॥ प्रौष्ठपादामले पक्षेपूजयेच्च शतक्रतुम् ॥४॥ नवम्यामश्वयुक्छुक्ले भद्रकालीं च पूजयेत् ॥ रवौ स्वातिमनुप्राप्ते कुर्यान्नीराजनं तथा॥५॥
संवत्सरात्कोटिहोमं कुर्याच्च घृतकम्बलम् ॥ राज्यसंवत्सरमथो कुर्यात्तद्वृद्धयेनृपः॥६॥ कर्माण्यैतानि नराधिपस्य नित्यानि ते राम मयोदितानि ॥
एतानि कृत्वा विविधैर्नरेंद्रैश्चिरं समाग्रां प्रशास्तिशा॥७॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामे प्रति पुष्करोपाख्याने सांवत्सरिक
वर्णनो नाम द्विपञ्चाशदुत्तरशतमोऽध्यायः ॥१५२॥ राम उवाच ॥ कथं हि चतुरो मासान्कार्यं केशवपूजनम् ॥ पार्थिवेन सुरश्रेष्ठ तन्ममाचक्ष्व
पृच्छतः ॥ १ ॥ पुष्कर उवाच ॥ उद्यतेन सदा भाव्यं राज्ञा भृगुकुलोद्वह ॥ आषाढशुक्लपक्षान्ते राजा स्थानमुपाश्रयेत् ॥ २ ॥ अभ्युत्थः परा
नृणां प्रसुतस्येहसर्व्वदम् ॥ तोयोपेतं विषंढं च प्रावृट्कालहतं तथा ॥३॥ यत्रस्थश्च स्वविषयं सर्वं शक्नोति रक्षितुम् ॥ तत्रस्थश्चतुरो मासान्नाज्ञश्च
पोषयेन्नृपः ॥ ४ ॥ स्नेहपानैर्बहुविधैः प्रतिपानैश्च भार्गव ॥ आषाढशुक्लपक्षान्ते दशम्यामूर्द्ध नराधिपः ॥ ५ ॥ उत्सवेन्तु महत्कुर्याद्देवस्य चार्चने
रतः ॥ अर्चायां वा पटे वापि कृतं देवमथार्चयेत् ॥ ६ ॥ देवभोगमयं विष्णुं श्रीसहामग्रिमन्दमम् ॥ बलिभिर्विविधाभिस्तु पुष्पधूपैः सुग
न्धिभिः ॥ ७ ॥ उत्सवं तु महत्कुर्यात्ततः प्रभृत्तिदिनं नृपः ॥ ततः प्रभृति नित्यं स्याद्वासुदेवस्य पूजनम् ॥८॥ सात्वतैर्भागवतैश्चैव सांवत्सरपुरोहितैः ॥
गीतनृत्यैस्तथा देवं विशेषाणान पूजयेत् ॥९॥ अस्मिन्नेव तथा काले कोटिहोमं समाचरेत् ॥ कार्त्तियां तत्समाप्तिस्तु यथा भवति भार्गवा॥ १०॥
शुक्लपक्षामिभागेन्त्य कार्त्तिकस्य ततो नृपः ॥ उत्सवं सुमदत्कुर्याद्देवदेववार्चनं तथा ॥ ११ ॥ वैकुण्ठं पूजयेद्देवमर्चायामथवा पटे ॥ महादानं ततो
दद्यात्श्रेयां दद्यात्तथैव च ॥ १२ ॥ महदानमथ श्लाघ्नां नटानां नर्तकैः सह ॥ यात्राविधानं सकलं तथा कुर्यान्महीपतिः ॥ १३ ॥ एतत्कृत्वा
ततो यात्रा देया भवति पार्थिवैः ॥ शरत्काले गतातंकैः पृथग्भूराथकुञ्जरैः ॥ १४ ॥ एवं च राजा चतुरो हि मासान्पूज्यो भवेद्देववरो हि हर्ता ॥
सन्त्यक्तिचिहं मधुसूदनं च संपूज्य यात्रामिभमतप्रदा स्यात् ॥ १५ ॥ इति श्रीविष्णुधम्रोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करो-
पाख्याने चातुर्मास्यविधिकथनो नाम त्रिपञ्चाशदुत्तरशतमोऽध्यायः ॥ १५३ ॥ ॥ राम उवाच ॥ शक्रसम्पूजनं कार्यं कथं राज्ञा पुरोत्तम ॥
सम्यग्भाद्रपदे मासि तन्ममाचक्ष्व पृच्छतः ॥ १ ॥ पुष्कर उवाच ॥ असुरैस्तु सुरा भग्नाः पुरा युद्धे भृगूत्तम ॥ ब्रह्माणं शरणं
जग्मुः सर्वभूतहिते रतम् ॥ २ ॥ ते तु मूढाः सुराः सर्वे निर्जिता दानवैर्भृवम् ॥ तानुवाच ततो ब्रह्मा क्षीरोदे मधुसूदनम् ॥ ३ ॥
गच्छध्वं सहिताः सर्वे स वः श्रेयः करिष्यति ॥ एवमुक्ता सुराः सर्वे क्षीरोदे केशवं ययुः ॥ ४ ॥ ददृशुश्च तदा देवं वासुदेवं जगद्गुरुम् ॥
अमृतात्माथमेघाभं शङ्खचक्रगदाधरम् ॥ ५ ॥ तुष्टुवुश्च महाभागं त्रिदशास्तं पुनःपुनः ॥ सर्वेशामीश्वरं देवं भुवनस्यैककारणम् ॥ ६ ॥ देवा ऊचुः ॥ नमस्ते पुण्डरीकाक्ष शरणागतवत्सल ॥ देवारिबलदर्पघ्न त्रिदशेन्द्रसुखप्रद ॥ ७ ॥ चामीकराभमवसन तार्क्ष्यप्रवरकेतन ॥ शेषपर्यङ्कशयन लक्ष्मीहृदयवल्लभ ॥ ८ ॥ सुरासुरशिरोरत्ननिघृष्टचरणाम्बुज ॥ उत्निद्रचारुकमलविराजितकराम्बुज ॥ ९ ॥ स चैकदेव भगवानस्माकमसुरैर्भ वान् ॥ गतिस्तेन स्म सम्प्राप्ता दैत्यभ्रान्तास्त्वदन्तिकम् ॥ १० ॥ प्रसीद देवदेवेश जहि तानसुराधमान् ॥ येऽस्माकं देवदेवेश पीडयन्ति सदा व तु ॥ ११ ॥ भगवानुवाच ॥ ध्वजमेतं प्रदास्यामि भवतामारिनाशनम् ॥ दृष्टमात्रेण येनेह विद्रविष्यन्ति दानवाः ॥ १२ ॥ श्रीपुष्कर उवाच ॥ एवमुक्त्वा ध्वजं ददौ विष्णुरुत्तमम् ॥ सौवर्णशृङ्गोच्छ्रितं दिव्यं शक्रध्वजमिति श्रुतम् ॥ १३ ॥ तमादाय सुराः सर्वे प्रययुर्दानवालयम् ॥ देवाद्युपगताञ्छ्रुत्वा दानवा निर्ययुस्ततः ॥ १४ ॥ सुसन्नद्धबलाः सर्वे प्रगृहीतायुधास्तथा ॥ दृष्ट्वा देवबलं ते च शक्रकेतुविराजितम् ॥ १५ ॥ तत्ते जसा महाभाग मूर्च्छीभूताः क्षणेन तु ॥ मूर्च्छितांस्तु ततो दैत्यान्दिशोविदिशिनिपातिताः ॥ १६ ॥ केचिद्गता दिशो जग्मुस्समूहे विविशुस्ततः ॥ ततो लब्धजयः शक्रः पूजयामास तं ध्वजम् ॥ १७ ॥ पूजयित्वा नृपतये वसवे प्रददौ तदा ॥ गर्गोक्तेन विधानेन तं च पूजितवान्वसुः ॥ १८ ॥ तेनास्य तुष्टो मघवानिदं वचनमब्रवीत् ॥ इन्द्र उवाच ॥ येऽन्ये भूमिपाः श्रेष्ठाः शक्रध्वजमहोत्सवम् ॥ १९ ॥ अद्य प्रभृति धर्मज्ञ करिष्यन्ति समाहिताः ॥ तेषां तु विविधा वृद्धिर्भविष्यति सदा द्विज ॥ २० ॥ दुर्भिक्षं मरको व्याधिः परचक्रभयं तथा ॥ सर्वाण्येतानि नश्यन्ति कृते शक्रध्वजोत्सवे ॥ ॥ २१ ॥ पुष्कर उवाच ॥ ततः प्रभृति राजानो राम शक्रमहोत्सवम् ॥ कुर्वन्ति गर्गकथितं सर्वभयविनाशनम् ॥ २२ ॥ धन्यं यशस्यं रिपुनाशकारि कीर्तिप्रदं धर्मफलप्रदं च ॥ कार्यं नरेन्द्रैर्विजयाय यत्नाच्छक्रोत्सवं तत्कथयामि तुभ्यम् ॥ २३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे रामं प्रति पुष्करोपाख्याने शक्रध्वजोत्पत्तिवर्णनो नाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५४ ॥ पुष्कर उवाच ॥ शिबिरात्पूर्वदि ग्भागे भूमिभागे तथा शुभे ॥ प्रागुदक्प्रवणे देशे शक्रार्थं भवनं शुभम् ॥ १ ॥ वासोभिः शयनैः शुद्धैर्नानारंगैस्तथैव च ॥ ततः शक्रध्वजस्थानं मध्ये संस्थाप्य यत्नतः ॥ २ ॥ मघवन्तं पटे कुर्यात्तस्य भागे तु दक्षिणे ॥ ३ ॥ वामभागे पटे कुर्यादृद्धीं देवीं तथैव च ॥ प्रतिष्ठापादसिते पक्षे प्रतिपत्प्रभृति क्रमात् ॥ ४ ॥ तयोस्तु पूजा कर्तव्या सततं वसुधाधिपैः ॥ वनप्रवेशविधिना शक्रयष्टिं ततो नृप ॥ ५ ॥ आनयेद्गोरथेनाथ वायवैः
१ 'घटम्' इत्यपि पुस्तकान्तरे पाठः ।
पुरुषेष्वथ ॥ अर्जुनस्यार्जकणैस्य प्रियकस्य वचस्य च ॥ ६ ॥ सुदारुणश्च तथा तथैवोदुम्बरस्य च ॥ चन्दनस्यथ वा राम पद्मकस्याथ वा यदि ॥ ७ ॥ अलाभे सर्वकाष्ठानां यष्टिं कुर्वीत वैणवीम् ॥ सुवर्णनद्धां घर्मांज्ञ तां च सम्यक्प्रवेशयेत् ॥८॥ प्रौष्ठपादसिते पक्षे अष्टम्यां रिपुसूदन ॥ क्रमप्रमाणा विज्ञेया शक्रयष्टिरितो नृप ॥९॥ चतुर्भिरङ्गुलैर्हीना साचे भवति शर्मदा ॥ अष्टाधिश्र्व तथा मूले छित्वा तोये यथा क्षिपेत् ॥ १० ॥ यायादुद्धृत्य नगरं सम्यग्वेप प्रवर्तते ॥ तस्याः प्रवेशे नगरं पताकाध्वजमालि च ॥ ११ ॥ सिक्तराजपथं कुर्यान्माल्यालङ्कृतबालकम् ॥ नटनर्तकसङ्कीर्णं तथा पूजितदैवतम् ॥ १२ ॥ सम्पूजितगृहं राज्ञः तथा पूजितवानरम् ॥ पौरैरनुगतो राजा सुवेशैः फलपाणिभिः ॥१३॥ अष्टम्यां वाद्यघोषेण तां तु यष्टिं प्रवेशयेत् ॥ प्राक्संस्थास्तां ततः कुर्याद्वैण्वैः संच्छादितां शुभैः ॥ १४ ॥ पूजितां पूजयेत्तान्तु यावत्सा द्वादशीफलम् ॥ एकादश्यां सोपवासो नृपः कुर्यात्प्रजागरम् ॥ १५ ॥ संवत्सरंण सहितो मन्त्रिणा सपुरोधसा ॥ रात्रौ जागरणं कार्यं नागरेण जनेन तु ॥ १६ ॥ स्वानयेत्तान् महाभाग देवा प्रक्ष्या तथा मधु ॥ पूजयेन्मृत्यगीतेन रात्रौ शक्रं नराधिपः ॥ १७ ॥ द्वादश्यां तु शिरःस्नातो नृपतिः प्रयत स्ततः ॥ यन्त्रेणोत्थापनं कुर्याच्छक्रकेतोः समाहितः ॥ १८ ॥ सुयंत्रितं तु तं कुर्याद्दृढं स्तम्भचतुष्टयम् ॥ पूजयेन्मन्त्रमन्त्राणां गन्धमाल्यान्नसम्प दा ॥ १९ ॥ नित्यं च पटयोः पूजां याष्टिपूजां च कारयेत् ॥ बलिभिस्तु विचित्राभिस्तथा ब्राह्मणपूजनैः ॥२०॥ नित्यं च जुहुयान्मन्त्रान्पुरोधाः शक्रदैवत्यान् ॥ नित्यं नृत्येन गीतेन तथा शक्रं च पूजयेत् ॥ २१ ॥ द्वादश्यां पूजयेद्राजा ब्राह्मानान्धनसंचयैः ॥ विशेषेण च धर्मज्ञ सांवत्सर पुरोहितौ ॥ २२ ॥ उत्थाने च प्रवेशे च शक्रस्यायुरलापिचः ॥ वट्यमाणेन मन्त्रेण कालवित्सपुरोहितः ॥ २३ ॥ पूजयित्वैतं केतुं धूपैर्विविधै रपि ॥ छत्रेण च तथा वस्त्रैर्माल्यादामैस्तथैव च ॥ २४ ॥ एवं सम्पूजयन्नृपम तदा दिनचतुष्टयम् ॥ पञ्चमे दिवसे प्राप्ते शक्रकेतुं विसर्जयेत् ॥ २५॥ पूजयित्वा महाभाग बलेन चतुरङ्गिणा ॥ नीत्वा करीन्द्रैर्विख्यातयं ततो नद्यां प्रवाहयेत् ॥ २६ ॥ वाद्यघोषेण महता संगीते तत्र कीर्तितम् ॥ पौरा जानपदास्तत्र : क्रीडां कुर्युस्तदाम्भसि ॥ उत्सवं च तथा कार्य जलक्रीडारतैनैरैः ॥ २७ ॥ एतद्विधानं नृपतिस्तु कृत्वा प्राप्नोति वृद्धिं धनवाहनानाम् ॥ नाशं तथा शत्रुगणस्य राम महत्प्रसादं त्रिदशाधिपनाथच ॥ २८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने शक्रध्वजोत्सववर्णनो नाम पञ्चपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५६ ॥ ॥ छ ॥ पुष्कर उवाच ॥ इन्द्रध्वजशिरो भज्येत्पतिद्वन्द्वध्वजो यदि ॥ भज्यते शक्राध्विषां नृपतेर्नियतं वधः ॥ १ ॥ यन्त्रभङ्गे तथा ज्ञेयं रज्जुच्छेदे तथैव
च ॥ मातङ्गायास्तथा भङ्गे परचक्रे भयं द्विज ॥ २ ॥ दिव्यान्तरिक्षभौमाः स्युरुत्पातास्तत्र वै यथा ॥ तेषां तीव्रतमं ज्ञेयं फलमप्यन्तदारु- णम् ॥ ३ ॥ निलीयेते चेत्क्रव्यादः शक्रयष्टौ यदा द्विज ॥ राजा वा म्रियते तत्र स वा देशो विनश्यति ॥ ४ ॥ इंद्रध्वजोपकरणं यत्किंचि- द्द्विजसत्तम ॥ विनश्यति तदा ज्ञेया पीडा नगरवासिनाम् ॥ ५ ॥ इंद्रध्वजनिमित्ते तु प्रायश्चित्तमिदं स्मृतम् ॥ इन्द्रयागं पुनः कुर्यात्सौवर्णे- नेन्द्रकेतुना ॥ ६ ॥ राज्यं दत्त्वा च गुरवे बन्धनानि प्रमोचयेत् ॥ सप्ताहं पूजयित्वा च ध्वजं दद्याद्द्विजातिषु ॥ ७ ॥ शान्तिश्चैन्द्री भवेत्कार्या यष्टव्यश्च पुरन्दरः ॥ महाभोज्यानि कार्याणि ब्राह्मणानां दिनेदिने ॥ ८ ॥ गावश्च देया द्विजमुख्येभ्यो हिरण्यवाससांर्जतः सम्भृताः ॥ एवं कृते शान्तिमुपैति पापं वृद्धिस्तथा स्यान्नृपतेर्द्विपस्य ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे इन्द्रध्वज- निमित्तशमनवर्णनो नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ॥ १६६॥ राम उवाच ॥ शक्रोच्छ्रये तु यान्मन्त्रान्सोपवासो नृपः पठेत् ॥ तानहं श्रोतुमि- च्छामि सर्वधर्मभृतां वर ॥१॥ पुष्कर उवाच ॥ शृणु मन्त्रानिमान्सम्यक्सर्वकल्मषनाशनान् ॥ प्रति शक्रध्वजोच्छ्राये यः पठन्जयते नृपः ॥२॥ त्वामिन्द्र जितामित्र बुद्ध्यान्धाप्यवकाशास्तन ॥ देवैश्च महाभाग त्वं हि वर्धिष्णुतां गतः॥३॥त्वं प्रभुः शाश्वतोऽक्षय्य सर्वभूतहिते रतः॥ अनन्तरतेजो विरजो यशोविजयवर्धनः ॥ अप्रधृष्यस्त्वं प्रभुर्नित्यंस्तुतस्त्वं सुरपूजित ॥ ४॥ ब्रह्मा स्वयंभगवाञ्छर्वलोकेपितामहः ॥ रुद्रः पिनाकधृक्हन्ताश्वतस्त्वदर्थं यत्नमास्थि- तः ॥ ५ ॥ योगस्य नेता कर्ता च तथा विष्णुरुरुक्रमः ॥ तेजस्ते वर्धयन्त्येते नित्यमेव महाबलाः ॥ ६ ॥ अनादिनिधनो देवो ब्रह्मा सदा सनातनः ॥ अग्निरस्तेजोमयो भागो रुद्रात्मा पार्वतीसुतः ॥ ७ ॥ कार्त्तिकेयः शक्तिधरः पङ्कजश्च गदाधरः ॥ शतं वरेण्यो वरदस्तत्स्तेजो वर्धयन्तां विभुः ॥ ८ ॥ देवः सेनापतिः स्कन्दः सुरवरपूजितः ॥ आदित्या वसवो रुद्राः साध्या देवास्तथाश्विनौ ॥ ९ ॥ भृगुरङ्गिरसश्चैव विश्वेदेवा मरुद्गणाः ॥ लोकपालास्तथैव चन्द्रः सूर्योऽनलोऽनिलः ॥ १० ॥ देवाश्च ऋषयश्चैव यक्षगन्धर्वराक्षसाः ॥ समुद्रा गिरयश्चैव नद्यो भूतानि यानि च ॥ ११ ॥ तेजस्तपांसि सत्यं च लक्ष्मीः श्रीः कीर्तिरेव च ॥ प्रवर्धयन्तु ततोऽद्य जय शक्र शचीपते॥ १२॥ तव चापि जयन्नित्यं त्विह संवर्धते शुभम् ॥ प्रसीद राज्ञां विप्राणां प्रजानामपि सर्वशः ॥ १३ ॥ तव प्रसादात्पृथिवी नित्यं सस्यवती भवत् ॥ शिवं भवतु निर्विघ्नं शम्यतामतिरीतयो भृशम् ॥१४ ॥ नमस्ते देवदेवेश नमस्ते बलसूदन ॥ नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ॥ १५ ॥ सर्वेशामेव लोकानां त्वमेका परमा गतिः ॥ त्वमेव परमः प्राणः सर्वस्यास्य जगत्पते ॥ १६ ॥ पाशो ह्यसि पयः सङ्घ त्वमनलं पुरन्दर ॥ त्वमेव मेवस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे ॥ १७॥
वि० ध० ॥२८४॥
द्वि० खं० अ० ५० ॥२८५॥
त्वमग्न मेघविविक्तास्त्वममेघाहुः प्रकर्षणमात्वं वज्रमतुलं घोरं घोषवांस्त्वं वलाहकः ॥ १८ ॥ स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः ॥
त्वं ज्योतिः सर्वलोकानां त्वमादित्यो विभावसुः ॥१९॥त्वं महद्भूतमश्चर्यं त्वं राजा त्वं सुरोत्तमः ॥ त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परापत्मा॥
॥ २०॥ त्वमेव चामृतं देवस्त्वं मोक्षः परमादितिः ॥ त्वं मुहूर्तः स्थितिरूस्त्वं च लवस्त्वं च पुनः क्षणः॥२१॥ शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटि
स्तथा ॥ संवत्सस्तवो मासा राजन्यश्च दिनानि च ॥२२॥ त्वमुत्तमा गिरिचरा वसुंधरा सभास्करं तिमिरमम्बरं तथा ॥ सहोदधिः सतिमिंगिल
स्तथा सहोर्मिवान्वहुमकरो झषाकुलः ॥२३॥ महद्यशास्त्वमिह सदा च पूज्यसे महर्षिभिर्मुदितमना महर्षिभिः ॥ अभिष्टुतः पिबसि च सोममध्वरे
हुतान्यपि च हवींषि भृतये ॥ २४ ॥ त्वं विप्रैः सततमभिह्वयेसे फलार्थं मेधार्थेष्ववृत्सु वलीय गीष्यसे त्वम् ॥ त्वद्वेतोर्त्तजनपरायणा द्विजेन्द्रा
वेदाङ्गान्याधिगमयन्ति सर्ववेदैः ॥ २५ ॥ वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता ॥ कृष्णे वसानो वसने महात्मा सत्यानृते यो
विविनक्ति लोके ॥२६॥ यं वाजिनं गर्भमपां पुराणां वैश्वानरं वाहनमभ्युपेति ॥ नमः सदाऽस्मै त्रिदिवेश्वराय लोकत्रयेशाय पुरन्दराय ॥ २७ ॥
अजोऽव्ययः शाश्वत एकरूपो विष्णुर्वराहः पुरुषः पुराणः ॥ त्वमन्तकः सर्वहरः कृशानुः सहर्षषीणां शतमन्युरिन्द्रयः ॥ २८ ॥ कविं सतामजिं
त्रातारमिन्द्रं सवितारं सुरेशम् ॥ हृदयामिश्रकं वृत्रहणं सुषणमस्माकं वीरा उत्तरे भवन्तु ॥ २९ ॥ त्रातारमिन्द्रिन्दूयकारणमज्जमग्निप्रथायं च
हिरण्यगर्भम् ॥ लोकेश्वरं देववरं वरेण्यं चानन्दरूपं प्रणतोस्मि नित्यम् ॥ ३० ॥ इमं स्तवं देववरस्य कीर्तयेन्महात्मनास्त्रिदशापतेः पुसंयतः ॥
अवाप्य कामान्मनसोभिरामान्स्वर्लोकमायाति च देहमर्दे ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०पृ० शक्रस्तववर्णनो नाम सप्तपञ्चा-
शदुत्तशततमोऽध्यायः ॥ १५७ ॥ राम उवाच ॥ विधिना पूजयेत्केन भद्रकालीं नराधिपः ॥ नवम्यामाश्विने मासि शुक्लपक्षे नरोत्तम ॥ १ ॥
पुष्कर उवाच ॥ पूर्वोत्तरे तु दिग्भागे शिविरात्सुमनोहरे ॥ भद्रकालीगृहं कुर्याच्चित्रवस्त्रैरलंङ्कृतम् ॥ २॥ भद्रकालीं पटे कृत्वा तत्र सम्पूजयेद्द्विज ॥
आश्विने शुक्लपक्षे तु अष्टम्यां प्रयत्नस्ततः॥ ३॥तैलेवाधूपधर्माद्यं छत्रं केतुं च पूजयेत् ॥ राजलिङ्गानि सर्वाणि तथैवास्त्राणि च पूजयेत् ॥४॥पुष्पैर्गन्धैः
फलैर्भक्ष्यैर्भोज्यैश्च सुमनोहरैः ॥ बहुभिश्च विचित्राभिः प्रेक्षादानैस्तथैव च ॥५॥ रात्रौ जागरणं कुर्यात्तथैव वसुधाधिपः ॥ एवं संपूजयेद्देवी वरदां भक्त-
वत्सलाम् ॥६॥ कात्यायनीं कामगमां वररुपां वरप्रदाम् ॥ पूजितां सर्वकामैश्च सा युङ्क्ते वसुधाधिपम् ॥७॥ एवं हि सम्पूज्य जगत्प्रधानं यात्वा तु देया
१ 'कार्या' इति पाठान्तरं पुस्तकान्तरे ।