विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 607, कुल 1001 में से
संदर्भ में पढ़ेंद्विजानां भयनाशनैः ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा० सं० रामं प्रति पुष्करोपाख्याने औत्पातिकेषु वृष्टिविकृत्यवर्णनो नामाष्टत्रिंशदुत्तरशततमोऽध्यायः ॥ १३८ ॥ गर्ग उवाच ॥ नगरादुपसर्पन्ति समीपमुपयन्ति वा ॥ अशोष्या अपि शुष्यन्ति समीपं प्रवहन्ति वा ॥ १ ॥ नद्यो हृदस्रवणा विसराश्च भवन्ति चेत् ॥ विवर्णं कलुषं तप्तं फेनवज्रं तु संकुलम् ॥ २ ॥ क्षीरं स्नेहं सुरां रक्तं वहन्ते वा कूलोदकाः ॥ पण्णासामन्यतरं तत्र परचक्रभयं भवेत् ॥ ३ ॥ जलाशया नदन्ते वा प्रजल्पन्ति क्षरन्ति वा ॥ विशुष्येत्तेऽथ वा भङ्गोऽल्पाम्बुरजांसि च ॥ ४ ॥ अखाते वा जलोत्पत्तिः ससत्त्वा वा जलाशयाः ॥ संगीतशब्दा दृश्यन्ते जनमारमयं वदेत् ॥ ५ ॥ जलाशयानां वैकृत्ये संयतस्तु जलाशये ॥ स्थालीपाकेन पशुना वरुणं पूजयेद्द्विज ॥ ६ ॥ दिव्यमन्त्रैः पयः सर्पिर्मधु चात्रावसेचनम् ॥ जातव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत् ॥ ७ ॥ मध्वाज्ययुक्तं परमान्नमत्र देयं द्विजानां द्विज भोजनायै ॥ गावश्च देया द्विज वस्त्रयुक्तास्तथोदकुम्भाः सकलाशान्त्यै ॥ ८ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने जलवैकृत्यवर्णनो नामैकोनचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १३९ ॥ ॥ छ ॥ गर्ग उवाच ॥ ॥ कालप्रसवना नार्यः कालातीताः प्रजास्तथा ॥ विकृतप्रसवाश्चैव युग्मप्रसविकास्तथा ॥ १ ॥ अमानुषा अषण्डाश्च सञ्जातव्यसनात्तथा ॥ हीनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा स्त्रियः ॥ ॥ २ ॥ पशवः पक्षिणश्चैव तथा चैव सरीसृपाः ॥ विनाशं तस्य देशस्य कुलस्यापि विनिर्दिशेत् ॥ ३ ॥ विवासयेत्तान्नृपतिः स्वराष्ट्रात्श्रियं च पूज्याश्च ततो द्विजेन्द्राः ॥ किमिच्छकैर्ब्राह्मणतर्पणं च कार्यं ततः शान्तिरुपेति पापम् ॥ ४ ॥ इतिश्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने स्त्रीप्रसववैकृत्यवर्णनो नाम चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४० ॥ गर्ग उवाच ॥ वडवा हस्तिनी गोर्वा यदि युग्मं प्रसूयते ॥ विजातं विकृतं वापि षड्भिर्मासैर्विशेद्गृहेत् वै ॥ १ ॥ वियोनिषु च गच्छन्तो मैथुनं देशनाशनाः ॥ अन्यत्र वेसरोत्पत्तेर्नृणां वाजातिमैथुनम् ॥ २ ॥ सर्पमूषकमाजरोमत्स्यश्वानो विवर्जिताः ॥ ज्ञेया दुर्भिक्षकर्तारः स्वजातिपिशिताशिनः ॥ ३ ॥ अकालजं महं घोरं चतुष्पान्पक्षिणांणम् ॥ अन्यजातिवदेत्श्वै धन्यं श्वानं विशेपतः ॥ ४ ॥ अमानुषा मानुषवज्जल्पन्ति प्राणिनो यदि ॥ विकृता वा प्रसूयन्ति परचक्रागमं वदेत् ॥ ५ ॥ त्यागो विवासनं दानं तेषां कार्यं विजानता ॥ तर्पयेद्ब्राह्मणांश्चात्र जपेन्मांह्वं कारयेत ॥ ६ ॥ मृदंगवाद्यैः पटहैः संगीतैः पूजा च कार्या त्रिदिवौकसां वै ॥ धातूस्तथेज्या विधिना च कार्या देयं तथान्नं बहुशो द्विजेभ्यः ॥ ७ ॥ इति