विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 606, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥२७१॥ द्वि० सं० अ० १३८ ॥२७१॥
औत्पातिकामिधानेनो नाम षट्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३६ ॥ गर्ग उवाच ॥ पुरेषु येषु दृश्यन्ते पादपा देवचोदिताः ॥
रुदन्तो वा हसन्तो वा स्रवन्तो वा बहून्सरान् ॥ १ ॥ पुरोगवा विना वातं शाखां मुञ्चन्त्यसंभ्रमात् ॥ फलपुष्पं तथा बाला
दर्शयन्ति विहायसाः ॥ २ ॥ सर्वावस्थां दर्शयन्ति फलपुष्पमथाभवम् ॥ क्षीरं स्नेहं सुरां रक्तं मधु तोयं स्रवन्ति च ॥ ३ ॥
शुष्यन्त्यरोगाः सहसा शुष्का रोहन्ति वा पुनः ॥ उत्तिष्ठन्ति पतिताः पतन्ति च तथोत्थिताः ॥४॥ तत्र वक्ष्यामि ते ब्रह्मन्नापाके फलमेव च ॥
रोदने व्याधिमाख्याति हसने देशविप्लवम् ॥ ५॥ शाखाप्रपतने कुर्यात्संग्रामे योधपातनम् ॥ बालानां मरणे कुर्याद्बालानां फलपुष्पता ॥ ६ ॥
स्वराष्ट्रमृदं कुरुते फलपुष्पसनाततम् ॥ क्षयं सर्वत्रगे क्षीरे स्नेहे दुर्भिक्षलक्षणम् ॥ ७॥ वाहनापचयं मध्ये रक्ते संग्राममादिशेत् ॥ मधुस्रावे भवे
द्व्याधिर्जलस्रावेण वर्षति ॥ ८ ॥ अरोगशोषणाज्ज्ञेयं ब्रह्मन् दुर्भिक्षलक्षणम् ॥ शुष्केषु समरोहत्सु वीर्यमन्नं च हीयते ॥ ९ ॥ उत्थाने पतितानां च
भयं भेदकरं भवेत् ॥ स्थानात्स्थानान्तरंगणां देशभङ्गं तथादिशेत् ॥ १०॥ जलस्थापि च वृक्षेषु रुदत्स्वपि धनक्षयम् ॥ एतद्ब्रोर्जितवृक्षेषु सर्वं राज्ञो
विपच्यते ॥११॥पुष्पे फले वा विकृते राज्ञो मृत्युं तदादिशेत् ॥ अन्येषु चैव वृक्षेषु वृक्षः स्यात्केवलोद्भवतः ॥१२॥ आच्छादयित्वा तं वृक्षं गन्धमाल्यै
र्विभूषयेत् ॥ वृक्षोपरि तथा छत्रं कुर्यात्तापप्रशान्तये ॥ १३ ॥ शिवमभ्यर्चयेद्देवं पशुं चास्मै निवेदयेत् ॥ मूलस्ये इति पम्पापान्हुत्वा रुद्रं जपे
त्तथा ॥ १४ ॥ मध्वाज्ययुक्तेन तु पायसेन संपूज्य विप्रान्ध्रुवं च दद्यात् ॥ गीतेन नृत्येन तथाचेयते देवं भवं पापविनाशहेतोः ॥ १५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मा०सं०रामे प्रति पुष्करोपाख्याने औत्पातिके वृक्षवैकृतवर्णनो नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ॥ १३७॥
॥ गर्ग उवाच ॥ अतिवृष्टिस्त्वनावृष्टिर्दुर्भिक्षायोभयं मतम् ॥ अनृते मदिने रिक्ता वृष्टिर्ज्ञेया भयावहा ॥ १ ॥ अनभ्रे विकृता चैव विज्ञेया
राजमृत्युदे ॥ शीतोष्णताविपर्यासे जन्तूनां रिपुजं भयम् ॥ २ ॥ शोणिते वर्षते यत्र तत्र शस्त्रभयं भवेत् ॥ अङ्गारपांशुवर्षेण नगरं
तद्विनश्यति ॥ ३ ॥ मज्जास्थिस्नेहमांसानां जनमारभयं भवेत् ॥ फलपुष्पे तथा धान्ये हिरण्यादि भयाय तु ॥ ४ ॥ पांसुजन्तुपलानां तु वर्षेण
रोगजं भयम् ॥ छिद्राणां तु प्रवर्षे च सस्यानामभिवर्धनम् ॥ ५॥ विरजस्के रवौ व्योम्ने यदा छाया न दृश्यते ॥ दृश्यते तु प्रतीपा वा तत्र देश
भयं भवेत् ॥ ६ ॥ निर्भ्रे चाथ रात्रौ वा श्वेतं चाम्यतोन्नरेण तु ॥ इन्द्रायुधं तदा दृष्ट्वा उल्कापातांस्तथैव च ॥ ७ ॥ दिग्दाहाहारिवैर्पा वा गन्धर्वनगरं
तथा ॥ परचक्रमयं ब्रूयाद्देशोपद्रवमेव वा ॥ ८ ॥ सूर्येन्दु पर्जन्यसमीरणानां यागस्तु कार्यो विधिवद्विजेन्द्र ॥ धान्यान्नगोकाञ्चनदक्षिणाश्च देया ॥२७१॥