विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 601, कुल 1001 में से
संदर्भ में पढ़ेंअमृता चामया सौम्यास्तिस्रोत्याः सन्ति भार्गव ॥ एकापि विज्ञेया सर्वकर्मफलप्रदा ॥ २ ॥ सर्वोत्पातप्रशमनी मङ्गल्या सिद्धिकारिका ॥ पूर्वोक्ताः कथितेष्वेव कर्तव्या अद्भुतेषु च ॥ ३ ॥ राम उवाच ॥ शान्तीनां मे त्वमाचक्ष्व स्वरूपणि महाभुज ॥ पितामहसमो लोके सर्वज्ञोऽपि मतो मम ॥४॥ पुष्कर उवाच ॥ अमृता शर्वदैवत्या अभया ब्रह्मदैवता ॥ सौम्या च सोमदैवत्या कथिता भृगुनन्दन ॥ ५ ॥ अन्यासां देवता ज्ञानं नाम्नैव कथितं तव ॥ आथर्वणानां शान्तीनां निर्दोष गदतो मम ॥ ६ ॥ अमृता चित्रवर्णा स्यादभया तु शरिप्रभा ॥ सौम्या शुक्ला विज्ञेया नीला भवति वैष्णवी ॥ ७ ॥ बालार्कसदृशा रौद्री ब्राह्मी शंखसमप्रभा ॥ रुक्मवर्णा तथैन्द्री वायव्या हरिता भवेत् ॥ ८ ॥ शुक्ला च वारुणी ज्ञेया कौबेरी पद्मसुप्रभा ॥ भार्गवी शुक्लवर्णा स्यात्प्राजापत्या च पीतिका ॥ ९ ॥ त्वाष्ट्री शुक्ला च विज्ञेया कौमारी ताम्रसुप्रभा ॥ आग्नेय्याग्निशि वर्णा स्याच्छुक्ला मातङ्गिनी भवेत् ॥ १० ॥ प्रवालाभा च गान्धर्वी कृष्णा वै नैऋता तथा॥गोचनाभा चाङ्गिरसी याम्या कृष्णा तथा भवेत् ॥ ११ ॥ पार्थिवी च मयूराभा वर्णतः कथितास्तव ॥ अतः परं प्रवक्ष्यामि स्थानान्यासां यथाविधि ॥ १२ ॥ अमृता चामया सौम्या तिस्रस्तु भृगुनन्दन ॥ तासां सर्वत्र संस्थानं कथितन्तु पुरातनैः ॥ १३ ॥ प्राजापत्या तथामेयी याम्या वै नैऋती तथा ॥ कौवेरी पार्थिवी चेति पृथिव्यां परिकीर्तिताः ॥ १४ ॥ वायव्या चैवं कौमारी वैष्णवी रुद्रदेवता ॥ अन्तरिक्षे विनि र्दिष्टाः शान्तयो द्विजसत्तम ॥ १५ ॥ ऐन्द्री मातङ्गिनी त्वाष्ट्री दिव्या ब्राह्मी तथोन्नता ॥ वारुणी चैव गान्धारी भार्गव्याङ्गिरसी तथा ॥ १६ ॥ आद्यास्तु कथितास्तूम्यं कर्तव्याश्च विजानता ॥ यथा स्वदेशजातेषु चाद्भुतेषु यथाविधि ॥ १७ ॥ तद्देवतास्तथा मन्त्राः सर्वासां गणे उच्यते ॥ मणीनाञ्च तथा गर्भाः सर्वासां मन्त्र उच्यते ॥ १८ ॥ मणीनाञ्च तथा मन्त्रा ज्ञातव्या मन्त्रलिङ्गतः ॥ सर्वासाञ्चैव शान्तीनां होतव्याश्च गणा दश ॥ १९ ॥ शान्त्यातितीन्तनु भैषज्यं विसतीत्यं तथैव च ॥ अभया च तथा गम तथा चैवापराजिता ॥ २० ॥ आयुष्यं च स्वस्त्ययनं सर्ववर्मगणं तथा ॥ वास्तोष्पत्यं तथा रौद्रं गणाः प्रोक्तास्तथा दश ॥ २१ ॥ होमस्त्वेषां मन्तव्यः सर्वाशान्तिषु भार्गव ॥ पृथक्प्रवचनातः पूर्वाः प्रकीर्तिताः॥२२॥ गणेगणे तु गां दद्याद्द्वां गमे गां तथा मणौ ॥ अजाजा भूमिपालस्तु दद्याद्दश दशैव तु ॥२३॥ निस्कामः सद्भुवं चैव तथा दद्यात्पुरोधसे ॥ अभयाया मणिः कार्यों वारुणस्य भृगूत्तम ॥२४॥ शतकाण्डोऽमृतायाश्च सौम्यायाः शङ्खजो मणिः॥ वैष्णव्यास्त्रिवृतः प्रोक्तः स्नातो रौद्र्यास्तथा मणिः ॥ २५ ॥ ब्रह्मरक्षस्तथा ब्राह्मया मैत्र्याः स्यात्कनको मणिः ॥ वायव्याश्चाङ्गिरः प्रोक्तो वायव्यः
४७