भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 600, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 600

द्वि० खं० अ० १३२ वि० ध० ॥२७६॥

अहिंसयेन्द्रियासङ्गैर्वैदिकैश्च कर्मभिः ॥ तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम् ॥ ४२ ॥ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ॥ चर्माव- नद्धं दुर्गन्धि पात्रं मूत्रपुरीषयोः ॥ ४३ ॥ जराशोकसमाविष्टं रोगायतनमातुरम् ॥ रजस्वलमनित्यञ्च भूतावासमिमं त्यजेत् ॥ ४४ ॥ नदीकूले यथा वृक्षो वृक्षे वा शकुनिर्यथा ॥ तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते ॥ ४५ ॥ प्रियेषु स्वेषु सुकृतं चाप्रियेषु च दुष्कृतम् ॥ विसृज्याध्यात्म- योगेन ब्रह्माभ्येति सनातनम् ॥४६॥ यदा भावेन भवति सर्वभावेषु निःस्पृहः ॥ तदा सुखमवाप्नोति प्रेत्य चेह च शाश्वतम्॥४७॥ अनेन विधिना सर्वान्कामांस्त्यक्त्वा शनैःशनैः ॥ सर्वद्वन्द्वैर्विनिर्मुक्तो ब्रह्मण्येवावतिष्ठति ॥ ४८ ॥ ध्यानिकं सर्वमेवैतद्यदेतदभिशब्दितम् ॥ न ह्यध्यात्म- कविः कश्चित्क्रियाफलमुपाश्नुते ॥ ४९॥ अधियज्ञं ब्रह्म जपेत्साधिवैदिकमेव च ॥ आध्यात्मिकं च सततं वेदान्ताभिहितं फलम् ॥ ५० ॥ इदं शरणमज्ञानामिदं देवं विजानताम् ॥ इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥ ५१ ॥ अनेन क्रमयोगेन परिव्रजति यो द्विजः ॥ स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥ ५२ ॥ एष धर्मोऽनुशिष्टस्ते यतीनां नियतात्मनाम् ॥ एवं संन्यासकानान्तु कर्मयोगं निबोध मे ॥ ५३ ॥ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ॥ एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥ ५४ ॥ सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः ॥ यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ ५५ ॥ सर्वेषामेव चैतेषां वेदश्रुतिविधानतः ॥ गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्बिभर्ति हि ॥ ५६ ॥ यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ॥ तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम्॥५७॥ चतुर्भिरपि यतव्यं नित्यमाश्रमिभिर्द्विजैः ॥ दशलक्षणिको धर्मः सेवितव्यः प्रयत्नतः ॥५८॥ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ॥ धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्॥५९॥ दश चिह्नानि धर्मस्य ये विप्राः समधीयते ॥ अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ६० ॥ दशलाक्षणिकं धर्ममनुतिष्ठन्समाहितः ॥ वेदान्तं विधिवच्छ्रुत्वा मुच्यतेऽनृणो द्विजः ॥६१॥ संन्यस्य सर्वकर्माणि सर्वान्दोषानपानुदेत् ॥ नियमो धर्ममभ्यस्य पुत्रैः सह सुखं वसेत् ॥६२॥ एवं संन्यस्य कर्माणि स्वकार्ये परमोऽस्पृहः ॥ संन्यासेनापहृत्यैनः प्राप्नोति परमां गतिम् ॥ एष तेऽभिहितो धर्मो द्विजातीनां चतुर्विधः ॥ ६३ ॥ स्वल्पोऽपि धर्मश्चरितो यथायं महाफलः स्यात्सततं द्विजानाम् ॥ तस्मात्प्रयत्नेन ह्ययमेव कार्यः सर्वं समुत्सृज्य महानुभावः ॥ ६४ ॥

इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने चतुर्थाश्रमवर्णनकर्म द्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १३१ ॥

राम उवाच ॥ अष्टादशभ्यः शान्तेभ्यः शान्तयो याः सुरोत्तम ॥ भिद्यन्ते वा न भिद्यन्ते तन्ममाचक्ष्व पुष्कर ॥ १ ॥ पुष्कर उवाच ॥