विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 615, कुल 1001 में से
संदर्भ में पढ़ेंअमृतात्माथमेघाभं शङ्खचक्रगदाधरम् ॥ ५ ॥ तुष्टुवुश्च महाभागं त्रिदशास्तं पुनःपुनः ॥ सर्वेशामीश्वरं देवं भुवनस्यैककारणम् ॥ ६ ॥ देवा ऊचुः ॥ नमस्ते पुण्डरीकाक्ष शरणागतवत्सल ॥ देवारिबलदर्पघ्न त्रिदशेन्द्रसुखप्रद ॥ ७ ॥ चामीकराभमवसन तार्क्ष्यप्रवरकेतन ॥ शेषपर्यङ्कशयन लक्ष्मीहृदयवल्लभ ॥ ८ ॥ सुरासुरशिरोरत्ननिघृष्टचरणाम्बुज ॥ उत्निद्रचारुकमलविराजितकराम्बुज ॥ ९ ॥ स चैकदेव भगवानस्माकमसुरैर्भ वान् ॥ गतिस्तेन स्म सम्प्राप्ता दैत्यभ्रान्तास्त्वदन्तिकम् ॥ १० ॥ प्रसीद देवदेवेश जहि तानसुराधमान् ॥ येऽस्माकं देवदेवेश पीडयन्ति सदा व तु ॥ ११ ॥ भगवानुवाच ॥ ध्वजमेतं प्रदास्यामि भवतामारिनाशनम् ॥ दृष्टमात्रेण येनेह विद्रविष्यन्ति दानवाः ॥ १२ ॥ श्रीपुष्कर उवाच ॥ एवमुक्त्वा ध्वजं ददौ विष्णुरुत्तमम् ॥ सौवर्णशृङ्गोच्छ्रितं दिव्यं शक्रध्वजमिति श्रुतम् ॥ १३ ॥ तमादाय सुराः सर्वे प्रययुर्दानवालयम् ॥ देवाद्युपगताञ्छ्रुत्वा दानवा निर्ययुस्ततः ॥ १४ ॥ सुसन्नद्धबलाः सर्वे प्रगृहीतायुधास्तथा ॥ दृष्ट्वा देवबलं ते च शक्रकेतुविराजितम् ॥ १५ ॥ तत्ते जसा महाभाग मूर्च्छीभूताः क्षणेन तु ॥ मूर्च्छितांस्तु ततो दैत्यान्दिशोविदिशिनिपातिताः ॥ १६ ॥ केचिद्गता दिशो जग्मुस्समूहे विविशुस्ततः ॥ ततो लब्धजयः शक्रः पूजयामास तं ध्वजम् ॥ १७ ॥ पूजयित्वा नृपतये वसवे प्रददौ तदा ॥ गर्गोक्तेन विधानेन तं च पूजितवान्वसुः ॥ १८ ॥ तेनास्य तुष्टो मघवानिदं वचनमब्रवीत् ॥ इन्द्र उवाच ॥ येऽन्ये भूमिपाः श्रेष्ठाः शक्रध्वजमहोत्सवम् ॥ १९ ॥ अद्य प्रभृति धर्मज्ञ करिष्यन्ति समाहिताः ॥ तेषां तु विविधा वृद्धिर्भविष्यति सदा द्विज ॥ २० ॥ दुर्भिक्षं मरको व्याधिः परचक्रभयं तथा ॥ सर्वाण्येतानि नश्यन्ति कृते शक्रध्वजोत्सवे ॥ ॥ २१ ॥ पुष्कर उवाच ॥ ततः प्रभृति राजानो राम शक्रमहोत्सवम् ॥ कुर्वन्ति गर्गकथितं सर्वभयविनाशनम् ॥ २२ ॥ धन्यं यशस्यं रिपुनाशकारि कीर्तिप्रदं धर्मफलप्रदं च ॥ कार्यं नरेन्द्रैर्विजयाय यत्नाच्छक्रोत्सवं तत्कथयामि तुभ्यम् ॥ २३ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेय वज्रसंवादे रामं प्रति पुष्करोपाख्याने शक्रध्वजोत्पत्तिवर्णनो नाम चतुःपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५४ ॥ पुष्कर उवाच ॥ शिबिरात्पूर्वदि ग्भागे भूमिभागे तथा शुभे ॥ प्रागुदक्प्रवणे देशे शक्रार्थं भवनं शुभम् ॥ १ ॥ वासोभिः शयनैः शुद्धैर्नानारंगैस्तथैव च ॥ ततः शक्रध्वजस्थानं मध्ये संस्थाप्य यत्नतः ॥ २ ॥ मघवन्तं पटे कुर्यात्तस्य भागे तु दक्षिणे ॥ ३ ॥ वामभागे पटे कुर्यादृद्धीं देवीं तथैव च ॥ प्रतिष्ठापादसिते पक्षे प्रतिपत्प्रभृति क्रमात् ॥ ४ ॥ तयोस्तु पूजा कर्तव्या सततं वसुधाधिपैः ॥ वनप्रवेशविधिना शक्रयष्टिं ततो नृप ॥ ५ ॥ आनयेद्गोरथेनाथ वायवैः
१ 'घटम्' इत्यपि पुस्तकान्तरे पाठः ।