विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 609, कुल 1001 में से
संदर्भ में पढ़ेंतरशततमोऽध्यायः ॥ १४३ ॥ गर्ग उवाच ॥ प्रासादतोरणाट्टालद्वारप्राकारवेश्मनाम् ॥ अनिमित्ते तु पतनं दृष्टानां राजमृत्युवे ॥ १ ॥ रजसा वाथ धूमेन दिशो यत्र समाकुलाः ॥ आदित्यचन्द्रताराश्च दिव्वर्णा भयवृद्धये ॥२॥ रक्षसा यत्र दृश्यन्ते ब्राह्मणाश्च विधर्मिणः ॥ ऋतवश्च विपर्य्य स्ता अपूज्यः पूज्यते जनैः ॥ ३ ॥ नक्षत्राणि वियोगीनि तन्महद्भयलक्षणम् ॥ केतूदयोपरागो न च्छिद्रुता शशिसूर्य्ययोः ॥ ४ ॥ ग्रहशक्तिकृति र्यत्र तत्रापि भयमादिशेत् ॥ स्त्रियश्च कलहायन्ते बाला निघ्नन्ति बालकान्॥ ५ ॥ शौलाचारविहीनाश्च मद्यमांसासृतप्रियाः ॥ तथा पाषाणभूयि ष्ठाश्चार्य्यमार्गप्रच्युता द्विजाः ॥६॥ यत्र देशे विजायन्ते तत्र विद्यादुपद्रवम् ॥ उचितैर्नाभिपूर्ज्यन्ते यूपान्नबलिभिः सदा ॥ ७॥ क्रियाणामशुचितानां च विच्छित्तिर्यत्र जायते ॥ अग्नियंत्र न दीप्येत ह्यमानास्तु शान्तिषु ॥ ८ ॥ पिपीलिकास्तु क्रव्यादो यान्ति चातुरतस्तथा ॥ पूर्णकुम्भाः स्त्रवन्ते च हविर्वा विप्रलुप्यते ॥ ९॥ मङ्गल्याश्च गिरो यत्र न श्रूयन्ते समन्ततः ॥ श्वशृगांलारुदती चाथ प्रहसन्ति रुदन्तिवा॥ १०॥ न च देवेषु वर्त्तन्ते यथा वद्ब्राह्मणेषु च ॥ ममेदोषाणि चोच्यन्ते वाद्यन्ते विगुराणि च ॥ ११ ॥ गुरुमित्रसुहृदो यत्र शत्रुवज्जायता जनाः ॥ ब्राह्मणा-सुहृदोऽमात्याअसनो यत्राव मन्यते॥ १२॥ शान्तिमङ्गलहोमेषु नास्तिक्यं यत्र जायते ॥ राजा वा म्रियते तत्र स वा देशो विनश्यति॥१३॥राज्ञो विनाशे सम्प्राप्ते निमित्तानि निबोध मे ॥ ब्राह्मणाम्प्रथमं द्वेष्टि ब्राह्मणेक्ष विरुध्यते ॥ १४॥ ब्राह्मणेर्निन्द्यते चापि ब्राह्मणांश्च जिघांसति ॥ न तान्मरति कृत्येषु याचितश्चाभि भूयते ॥ १५॥ रमते निर्दयैश्चेषां प्रशंसां नाभिनन्दति ॥ अपूर्व्वं तु करं लोभात्तथा पातयते जने ॥ १६ ॥ एतेष्वभ्यर्च्ययेच्छक्रं सपत्नीकं द्विजो त्तम ॥ भोज्यानि चैव कार्याणि सुराणां बल्यस्तथा ॥ १७॥ गावश्च देया द्विजपुङ्गवेभ्यो सुवं तथा काञ्चनमम्बरञ्च ॥ होमश्च कार्यः सुरपूजनं च एवं कृते शान्तिमुपैति पापम् ॥ १८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने उत्पातप्रशमनं नाम चतुश्च त्वारिंशदुत्तरशततमोऽध्यायः॥१४४॥ राम उवाच ॥ किं तु कृत्यतमं राज्ञस्तन्ममाचक्ष्व पृच्छतः॥ राज्यतन्त्रं कथंराज्ञा पालनीयं विपांश्चता॥ १॥ ॥ पुष्कर उवाच ॥ सप्तांगस्य च राज्यस्य भावयुक्तैन भूभृता ॥ एतावदेव कर्त्तव्यं राज्ञा तन्त्रं सुगुप्तम् ॥ २ ॥ साम दानं तथा दुर्गं कोशो दण्ड स्तथैव च ॥ मित्रं जनपदश्चैव राज्यं सप्ताङ्गमुच्यते ॥ ३ ॥ सप्ताङ्गस्य च राज्यस्य विभ्रक्तंर्निवासयेत् ॥ अहितान्घातयेद्राज्ञा क्षिप्रमेवाविचा रयन् ॥ ४ ॥ सप्ताङ्गस्य च राज्यस्य वृद्धिः कार्या नृमण्डले ॥ मण्डलेषु च सर्वेषु कर्षणीया महीक्षिता ॥ ५ ॥ राम उवाच ॥ मण्डलानि समा चक्ष्व विजिगीषोर्यथाविधि ॥ यान्याश्रित्य नृपैः कार्यं सन्धिविग्रहचिन्तनम् ॥ ६ ॥ पुष्कर उवाच ॥ आत्ममण्डलमत्राथ प्रथमं मण्डलं