भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 613, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 613

व्यवहारांस्ततः पश्येत्समो भूत्वारिमित्रयोः ॥ त्यक्ता सभां ततः कुर्यान्मन्त्रं तु सह मन्त्रिभिः ॥ १९ ॥ यत्रास्य कश्चित् मन्त्रं शृणुयान्न कथञ्चन॥ एकेन सह तं कुर्यान्न कुर्याद्बहुभिः सह ॥ २० ॥ न च मूर्खेर्न चानामैस्तथा नादाम्भिकैर्नृपः ॥ मन्त्रं सुविष्ठितं कुर्याद्येनारं न धावति ॥२१॥ राज्ञां विनाशमूलस्तु कथितो मन्त्रविभ्रमः ॥ नाशयेद्धर्महन्मन्त्रः कुप्रयुक्तस्तमन्त्रवत ॥ २२ ॥ मंत्रे सुनिश्चिते सिद्धिः कथिता पृथिवीतलम् ॥ क्रियमाणानि कर्माणि यस्य वेत्ति न कश्चन ॥ २३ ॥ कृतान्येव विजानाति स राजा पृथिवीपतिः ॥ पृथक् च मन्त्रिभिर्मन्त्रं कृतं वै संहितैः पुनः ॥ २४ ॥ विचार्याप्तैस्ततः साधु पश्चात्त्र समाश्रयेत् ॥ प्रज्ञाभिमानी नृपतिर्मन्त्रिवचने रतः ॥ २५ ॥ छिद्रे विनाशमायाति तडान्गमिव काजलम् ॥ आकारगृहने राज्ञो मन्त्ररक्षा परा मता ॥ २६ ॥ आकारैरिङ्गितैः प्राज्ञा मन्त्रं जानन्ति पण्डिताः ॥ सांवत्सरगणौ वैद्यानां मन्त्रिणां वचने रतः॥२७॥ राजा विष्ठितिमाप्नोति चिरं यशसि तिष्ठति ॥ त एवं मृगयासक्तं धारयन्ति विभूषितः ॥२८॥ ह्रीषु माने तथाक्षेपु वृथा ज्यायाश्च भार्गव ॥ करणप्रयने सक्तं हिंसायां च नराधिपम् ॥ २९ ॥ तथा परोक्षनिन्दायां बलवृद्धिप्रहेष्वपि च ॥ अन्येषु चाप्यनर्थेषु प्रसक्तं वारयन्ति तम् ॥ ३० ॥ मन्त्रं कृत्वा ततः कुर्याद्व्यायामं पृथिवीपतिः ॥ रथे नागे तथैवाश्वे खड्गे धनुषि चाप्यथ ॥ ३१ ॥ अन्येषु चैव शस्त्रेषु नियुङ्क्तेषु ततः परम् ॥ पञ्चाशदर्द्धितः स्नातः पश्येद्दिष्णं सुपुजितम्॥३२॥ हुतं च पावकं पश्येद्विप्राश्चपश्येत्पूजितान्॥स्वामिनो दक्षिणाभिश्च पूजितान्भृगुन्दन ॥ ३३॥ ततोऽनुलिप्तः सुरभिः स्रग्वी रुचिरभूषणः ॥ सुवासा भोजनं कुर्याद्धितं च भृगुसातदा ॥३४॥ आत्तं परीक्षितं वर्द्यं मृगपक्षीङ्गितैस्तथा॥ पूर्वं परीक्षितं चान्यैर्जोगुल्पा चाग्निमन्त्रितम्॥३५॥ विषघ्नंश्च मणीन्द्राजा धारयन्वीर्यवर्द्धितान्॥ भुक्त्वा ह्यतीतताम्बूलः परिक्रम्य विशेद्यतः ॥ ३६॥ शयने वामपार्थेन ततः शास्त्राणि चिन्तयेत् ॥ कोष्ठागारायुधागाराणि चाश्वं च वाहनम् ॥ ३७ ॥ योधंश्च दृष्ट्वा चाश्वांश्च ततः सन्ध्यान च पश्चिमा ॥ कार्याणि चिन्तयित्वा च प्रेषयित्वा ततश्चरान् ॥ अन्तःपुरचरो भूत्वा कुङ्कु भुक्ता तथा हितम् ॥ ३८ ॥ सर्वैस्तुवीणापटहरवेण संविशेत् निद्रां कृतपूर्वरक्षाम् ॥ एतद्भारश्यं हि नराधिपानामाजाविके ते कथितं विधानम् ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्र संवादे रामं प्रति पुष्करोपाख्याने आजलिको नामैकपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५१ ॥ ॥ पुष्कर उवाच ॥ राजा तु जन्मलग्ने प्रति मासं समाचरेत् ॥ जन्मनः क्षालनं कर्म यत्तत्पूर्व मयेरितम् ॥ १ ॥ पुष्पस्नानं ततः कुर्यात्प्रीतिमासं नराधिपः ॥ संक्रान्तौ पूजयेत्सूर्य बाल मिन्दुं तथैव च ॥२॥ ग्रहं सम्पूजयद्द्वाजा निर्गतं रविमण्डलात् ॥ अगस्त्यस्योदये कार्या तथा पूजा नराधिपैः ॥ ३॥ पूजयेश्चोत्तरो मासान्युतं

४८